Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 13.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.3.2

य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते ।
यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
यस्माद्वाता ऋतुथा पवन्ते यस्मात्समुद्रा अधि विक्षरन्ति ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.२ ॥

创造这天地、以世界为衣而披之、六方广域居于其中、太阳之鸟随后而视之者。此乃那愤怒之神对伤害如此知晓之婆罗门者的罪责。风依时节吹动、海洋自其中涌出者。此乃那愤怒之神对伤害如此知晓之婆罗门者的罪责。罗希多啊,使他战栗,驱逐他,对杀婆罗门者松开绳索。

13.3.3

यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.३ ॥

杀戮者与赐予生命者,一切世界由其而得呼吸。此乃那愤怒之神对伤害如此知晓之婆罗门者的罪责。罗希多啊,使他战栗,驱逐他,对杀婆罗门者松开绳索。

13.3.4

यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.४ ॥

以气息滋养天地、以下行之气充满海洋者,那愤怒之神的罪过,就在于伤害如此知晓的婆罗门。红色者啊,使他颤抖,摧毁他;把杀婆罗门者的绳索抛向他。

13.3.5

यस्मिन् विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः ।
यः परस्य प्राणं परमस्य तेज आददे ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.५ ॥

维拉伊、至尊主宰生主、与毗舍瓦纳拉火一同与潘克提韵律安住其中者;攫取至高者之气息与最尊者之光辉者,那愤怒之神的罪过,就在于伤害如此知晓的婆罗门。红色者啊,使他颤抖,摧毁他;把杀婆罗门者的绳索抛向他。

13.3.6

यस्मिन् षडुर्वीः पञ्च दिशो अधिश्रिताश्चतस्र आपो यज्ञस्य त्रयोऽक्षराः ।
यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.६ ॥

在其中安住着六个广阔的世界与五方,四水与祭祀的三个音节;怒目注视天地之间者,这便是那位愤怒之神的罪过:他伤害这样知晓的婆罗门。啊,赤色者,震撼他,彻底摧毁他,向杀害婆罗门者投下绳索。

13.3.7

यो अन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः ।
भूतो भविष्यत्भुवनस्य यस्पतिः ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.७ ॥

成为食者与食物之主,又为梵语之主,为过去与未来世界之主者:这便是那位愤怒之神的罪过:他伤害这样知晓的婆罗门。啊,赤色者,震撼他,彻底摧毁他,向杀害婆罗门者投下绳索。

13.3.8

अहोरात्रैर्विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.८ ॥

这是那位愤怒之神的罪过,他以日夜度量出具有三十肢的第十三个月;凡伤害如此知晓的婆罗门者皆是如此。罗希塔啊,使其颤抖,彻底毁灭;释放那些压迫梵者的绳索。

13.3.9

कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
त आववृत्रन्त्सदनादृतस्य ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.९ ॥

一条幽暗之路:披着水的美翼黄褐色骏马飞向天空;它们已从宇宙秩序之座返回。这是那位愤怒之神的罪过,凡伤害如此知晓的婆罗门者皆是如此。罗希塔啊,使其颤抖,彻底毁灭;释放那些压迫梵者的绳索。

13.3.10

यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु यस्मिन्त्सूर्या आर्पिताः सप्त साकम् ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.१० ॥

啊,迦叶波,你的月亮具有光明,聚集而圆满,光芒斑斓,其中共同固定着七个太阳:这是那位愤怒之神的罪过,凡伤害如此知晓的婆罗门者皆是如此。罗希塔啊,使其颤抖,彻底毁灭;释放那些压迫梵者的绳索。

13.3.11

बृहदेनमनु वस्ते पुरस्ताद्रथंतरं प्रति गृह्णाति पश्चात् ।
ज्योतिर्वसाने सदमप्रमादम् ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.११ ॥

布哈特从前面为其披上,拉坦塔罗从后面回应接纳。他披着光明,坐在不失之位。这是那位愤怒之神伤害如此通晓之婆罗门的罪过。哦,红马,使他震颤,摧毁他;解开杀害婆罗门者的绳索!

13.3.12

बृहदन्यतः पक्ष आसीद्रथंतरमन्यतः सबले सध्रीची ।
यद्रोहितमजनयन्त देवाः ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.१२ ॥

布哈特为一翼,拉坦塔罗为另一翼,二者并行。当诸神生出红马时。这是那位愤怒之神伤害如此通晓之婆罗门的罪过。哦,红马,使他震颤,摧毁他;解开杀害婆罗门者的绳索!

13.3.13

स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन् ।
स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम् ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.१३ ॥

他在傍晚成为阿耆尼,清晨升起时成为密特拉。他化为萨维德利而行于虚空;化为因陀罗,从天空中央炙热。这是那位震怒之神的过错——谁伤害了如此明知的婆罗门。啊,罗希多,使他颤抖,彻底毁灭他,向弑婆罗门者投出绳索。

13.3.14

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.१४ ॥

那只金黄色天鹅的两翼,飞向天堂,伸展千日。他将诸神置于胸前,一面观看一切世界而行。这是那位震怒之神的过错——谁伤害了如此明知的婆罗门。啊,罗希多,使他颤抖,彻底毁灭他,向弑婆罗门者投出绳索。

13.3.15

अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः ।
य इदं विश्वं भुवनं जजान ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.१५ ॥

那神在水中,有千根,枝节盘曲,是吞噬者,生出此整个世界。那愤怒之神的过错在于:凡伤害如此知晓的婆罗门者。罗希多啊,震动他,毁灭他;向轻慢梵者放出套索。

13.3.16

शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् ।
यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.१६ ॥

光明而疾驰的赤褐色骏马,载着在天上以光辉照耀的神。他向上的光线炙热天空,向下以金色羽翼闪耀。那愤怒之神的过错在于:凡伤害如此知晓的婆罗门者。罗希多啊,震动他,毁灭他;向轻慢梵者放出套索。

13.3.17

येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः ।
यदेकं ज्योतिर्बहुधा विभाति ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.१७ ॥

借着那使赤色骏马驮载阿迪提耶的祭祀,借着那使众人知道道路而前行的祭祀,那以多种方式闪耀的唯一光明——那愤怒之神的罪过是:他击打这样知晓的婆罗门。哦,红色者(罗希多),使他颤抖,彻底毁灭;把绳索投向杀害婆罗门的人。

13.3.18

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.१८ ॥

七者驾驭一辆单轮车;一匹有七名的马驮载它。那有三个轮毂、不老、不倦的车轮,所有这些世界都立于其上。那愤怒之神的罪过是:他击打这样知晓的婆罗门。哦,红色者(罗希多),使他颤抖,彻底毁灭;把绳索投向杀害婆罗门的人。

13.3.19

अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम् ।
ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.१९ ॥

八重驾驭,猛烈的载运者阿耆尼负载而行;他是诸神之父,诸思想之生者。以心度量理(ṛta)之线,摩陀利溪溯风遍吹四方而净化。那发怒之神的过错是:伤害如此知晓的婆罗门者。啊,红色的罗希多,使他们颤抖,彻底毁灭,向杀害婆罗门者放出绳索!

13.3.20

सम्यञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.२० ॥

那汇聚于诸方位之间的线,他置于不死之胎中,在伽耶特里之内。那发怒之神的过错是:伤害如此知晓的婆罗门者。啊,红色的罗希多,使他们颤抖,彻底毁灭,向杀害婆罗门者放出绳索!

13.3.21

निम्रुचस्तिस्रो व्युषो ह तिस्रस्त्रीणि रजांसि दिवो अङ्ग तिस्रः ।
विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.२१ ॥

三个尼穆鲁处,三个黎明,以及天上三重尘界;朋友啊,三。阿耆尼,我们知道你的三重出生,也知道诸神的三重出生。这是那愤怒之神的罪过,他伤害如此知晓的婆罗门。红色者啊,使之战栗,前进并摧毁;向那憎恶婆罗门者投掷罗索。

13.3.22

वि य और्णोत्पृथिवीं जायमान आ समुद्रमदधातन्तरिक्षे ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.२२ ॥

他一出生便展开大地,将大海安置于虚空之中;这是那愤怒之神的罪过,他伤害如此知晓的婆罗门。红色者啊,使之战栗,前进并摧毁;向那憎恶婆罗门者投掷罗索。

13.3.23

त्वमग्ने क्रतुभिः केतुभिर्हितोऽर्कः समिद्ध उदरोचथा दिवि ।
किमभ्यार्चन् मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.२३ ॥

阿耆尼啊,你以你的力量和标记得以确立,燃烧而光辉,在天上闪耀。以普里什尼为母的摩禄多们,当诸神生出赤色者时,他们崇拜的是什么?这是那位愤怒之神的罪过,降于伤害如此知晓的婆罗门者。赤色者啊,使之战栗,彻底毁灭,向杀害婆罗门者投下绳索。

13.3.24

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
योऽस्येशे द्विपदो यश्चतुष्पदः ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.२४ ॥

赐予生命者,赐予力量者,一切诸神所崇拜者,诸神遵从其命令者,统治两足与四足众生者。这是那位愤怒之神的罪过,降于伤害如此知晓的婆罗门者。赤色者啊,使之战栗,彻底毁灭,向杀害婆罗门者投下绳索。

13.3.25

एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात् ।
चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानः ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ १३.३.२५ ॥

独足者再次在两足众生之中行走;两足者从后跟随三足者。四足者为两足众生创造了他们的呼声,观望行列,站立于附近。这正是那愤怒之神的过失,他伤害了如此知晓的婆罗门。哦,红色者(Rohita),令他颤抖,彻底毁灭他;解开伤害婆罗门者的束缚。

13.3.26

कृष्णायाः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत ।
स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥ १३.३.२६ ॥

黑夜(之女)的儿子阿周那,夜晚的小牛,诞生了。他确实升上天空;攀升者红色的罗希多(红日)已升起于高处。