Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 17.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

17.1.1

विषासहिं सहमानं सासहानं सहीयांसम् ।
सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
ईड्यं नाम ह्व इन्द्रमायुष्मान् भूयासम् ॥ १७.१.१ ॥

我呼唤因陀罗,其名值得赞颂,他征服敌人,坚忍,得胜,更为强大,以力量取胜,征服天界,征服牛群,在争夺财富的竞赛中获胜;愿我长寿。

17.1.2

विषासहिं सहमानं सासहानं सहीयांसम् ।
सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
ईड्यं नाम ह्व इन्द्रं प्रियो देवानां भूयासम् ॥ १७.१.२ ॥

我呼唤因陀罗,其名值得赞颂,他征服敌人,坚忍,得胜,更为强大,以力量取胜,征服天界,征服牛群,在争夺财富的竞赛中获胜;愿我成为诸神所爱。

17.1.3

विषासहिं सहमानं सासहानं सहीयांसम् ।
सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
ईड्यं नाम ह्व इन्द्रं प्रियः प्रजानां भूयासम् ॥ १७.१.३ ॥

我呼唤因陀罗,其名值得赞颂,他征服敌人,坚忍,得胜,更为强大,以力量取胜,征服天界,征服牛群,在争夺财富的竞赛中获胜;愿我成为众生所爱。

17.1.4

विषासहिं सहमानं सासहानं सहीयांसम् ।
सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम् ॥ १७.१.४ ॥

我呼唤因陀罗,其名值得赞颂,他征服敌人,坚忍,得胜,更为强大,以力量取胜,征服天界,征服牛群,在争夺财富的竞赛中获胜;愿我成为牲畜所爱。

17.1.5

विषासहिं सहमानं सासहानं सहीयांसम् ।
सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
ईड्यं नाम ह्व इन्द्रं प्रियः समानानां भूयासम् ॥ १७.१.५ ॥

我以名号呼唤那战胜敌人、忍耐而获胜、更加强大、以力量所得、以天界所得、以牛群所得、以财富所得、值得赞颂的因陀罗;愿我成为同辈所爱的人。

17.1.6

उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।
द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.६ ॥

啊,太阳,以光辉升起,升起;不要以光辉向我升起。愿憎恨我的人被我制服,愿我不被憎恨者制服。啊,毗湿奴,你的威力多样:请用各种形态的牲畜充满我们,并将我安置在最高天空的甘露宝库之中。

17.1.7

उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।
आंश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.७ ॥

啊,太阳,以光辉升起,升起;不要向我升起。在我所见和我所不见的人之中,赐予我善意。啊,毗湿奴,你的威力多样:请用各种形态的牲畜充满我们,并将我安置在最高天空的甘露宝库之中。

17.1.8

मा त्वा दभन्त्सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र ।
हित्वाशस्तिं दिवमारुक्ष एतां स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.८ ॥

愿在水中、在波流之间靠近你的持索者不伤害你。舍弃咒诅,升往此天;愿他对我们慈悲。哦毗湿奴,愿我们蒙你的恩惠,蒙你众多的英勇功业。以各种形态的牲畜充满我们;在至高的天空中、在甘露中安立我们。

17.1.9

त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.९ ॥

哦因陀罗,请你以不灭的光明从四面保护我们,使我们获得大福。哦毗湿奴,你的英勇功业多种多样。以各种形态的牲畜充满我们;在至高的天空中、在甘露中安立我们。

17.1.10

त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव ।
आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.१० ॥

愿你以因陀罗吉祥的护佑,使我们得到最大的安乐。升往三重天,赞颂天界,为饮用苏摩,在你所爱的居所,为平安;哦毗湿奴,你的英勇功业多种多样。以各种形态的牲畜充满我们;在至高的天空中、在甘露中安立我们。

17.1.11

त्वमिन्द्रासि विश्वजित्सर्ववित्पुरुहूतस्त्वमिन्द्र ।
त्वमिन्द्रेमं सुहवं स्तोममेरयस्व स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.११ ॥

你是因陀罗,征服一切,全知,被众多呼唤。因陀罗啊,激发这易于呼唤的颂歌;愿他对我们慈悲。愿我们在你的恩惠中。毗湿奴啊,你的英雄功业多种多样。用各种形态的牲畜充满我们;在至高天空的甘露中安立我们。

17.1.12

अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे ।
अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षं छर्म यच्छ तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.१२ ॥

你在天上和地上都不可侵犯;在虚空中没有人能达到你的伟大。以不可侵犯的神圣力量增长的因陀罗啊,愿你在天上赐予我们安宁与庇护。毗湿奴啊,你的英雄功业多种多样。用各种形态的牲畜充满我们;在至高天空的甘露中安立我们。

17.1.13

या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या ते इन्द्र पवमाने स्वर्विदि ।
ययेन्द्र तन्वाऽन्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यच्छ तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.१३ ॥

因陀罗啊,你在水中之身,在大地上之身,在火中之身,以及在寻得天界的净化苏摩中的你的身体——以你所遍布虚空的那身体,赐予我们庇护,因陀罗啊。毗湿奴啊,你的英雄功业多种多样。以万象之牲畜充满我们;将我安置在至高天空、甘露宝库之中。

17.1.14

त्वामिन्द्र ब्रह्मणा वर्धयन्तः सत्त्रं नि षेदुर्ऋषयो नाधमानास्तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.१४ ॥

因陀罗啊,以神圣的咒语赞颂你,诸仙人在祭会中坐下,恳求着。毗湿奴啊,你的英雄功业多种多样。以万象之牲畜充满我们;将我安置在至高天空、甘露宝库之中。

17.1.15

त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.१५ ॥

你展开那已展开之物,环绕千流之泉,环绕寻得天界的祭会。毗湿奴啊,你的英雄功业多种多样。以万象之牲畜充满我们;将我安置在至高天空、甘露宝库之中。

17.1.16

त्वं रक्षसे प्रदिशश्चतस्रस्त्वं शोचिषा नभसी वि भासि ।
त्वमिमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थामन्वेषि विद्वांस्तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.१६ ॥

你守护四方;以你的光辉照亮天空与天界。你立于所有这些世界之上,知晓并寻求宇宙秩序之道。啊毗湿奴,你的英雄功业多种多样。以各种形态的牲畜充实我们;把我们安置在至高天空的甘露宝库之中。

17.1.17

पञ्चभिः पराङ्तपस्येकयार्वाङशस्तिमेषि सुदिने बाधमानस्तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.१७ ॥

以五者,你从远方炽照;以一者,你近前驱逐不祥,在吉日到来。啊毗湿奴,你的英雄功业多种多样。以各种形态的牲畜充实我们;把我们安置在至高天空的甘露宝库之中。

17.1.18

त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः ।
तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस्तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.१८ ॥

你是因陀罗,你是摩诃因陀罗,你是世界,你是生主。为你展开祭祀;为你,献供者倾注祭品。啊毗湿奴,你的英雄功业多种多样。以各种形态的牲畜充实我们;把我们安置在至高天空的甘露宝库之中。

17.1.19

असति सत्प्रतिष्ठितं सति भूतं प्रतिष्ठितम् ।
भूतं ह भव्य आहितं भव्यं भूते प्रतिष्ठितं तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.१९ ॥

在非有中,有得以确立;在有中,已成者得以确立。在已成者中,将来者被安置;将来者确立于已成者之中。毗湿奴啊,你的威力多种多样。以各色的牲畜充实我们;在至高的天空中,把我安置于甘露的宝库。

17.1.20

शुक्रोऽसि भ्राजोऽसि ।
स यथा त्वं भ्राजता भ्राजोऽस्येवाहं भ्राजता भ्राज्यासम् ॥ १७.१.२० ॥

你是明亮的,你是光辉的。如你以光辉而照耀,愿我也以光辉而照耀。

17.1.21

रुचिरसि रोचोऽसि ।
स यथा त्वं रुच्या रोचोऽस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन च रुचिषीय ॥ १७.१.२१ ॥

你是光彩的,你是光明的。如你以光彩而照耀,愿我以牲畜与婆罗门的光辉而照耀。

17.1.22

उद्यते नम उदायते नम उदिताय नमः ।
विराजे नमः स्वराजे नमः सम्राजे नमः ॥ १७.१.२२ ॥

向升起者致敬,向上升者致敬,向已升起者致敬。向毗罗阇致敬,向娑罗阇致敬,向三罗阇致敬。

17.1.23

अस्तंयते नमोऽस्तमेष्यते नमोऽस्तमिताय नमः ।
विराजे नमः स्वराजे नमः सम्राजे नमः ॥ १७.१.२३ ॥

向落下者致敬,向将落者致敬,向已落者致敬。向毗罗阇致敬,向娑罗阇致敬,向三罗阇致敬。

17.1.24

उदगादयमादित्यो विश्वेन तपसा सह ।
सपत्नान् मह्यं रन्धयन् मा चाहं द्विषते रधं तवेद्विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ १७.१.२४ ॥

此阿底提耶以全部热力升起,降伏我的敌人。愿我不落入憎恨者之手。毗湿奴啊,你的力量多种多样。请以各种形态的牲畜充满我们;把我安置在至高天空的甘露之中。

17.1.25

आदित्य नावमारुक्षः शतारित्रां स्वस्तये ।
अहर्मात्यपीपरो रात्रिं सत्राति पारय ॥ १७.१.२५ ॥

啊,阿底提耶,你为了安康登上了百桨之船。不要让白昼过渡;请妥善地把黑夜渡过。

17.1.26

सूर्य नावमारुक्षः शतारित्रां स्वस्तये ।
रात्रिं मात्यपीपरोऽहः सत्राति पारय ॥ १७.१.२६ ॥

啊,太阳,你为了安康登上了百桨之船。不要让黑夜过渡;请妥善地把白昼渡过。

17.1.27

प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥ १७.१.२७ ॥

我被生主所护,以神圣的咒语与铠甲,以迦叶波的光明与光辉所护;愿我活到衰老,有力、宽广、千岁,行善事而行走。

17.1.28

परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
मा मा प्रापन्न् इषवो दैव्या या मा मानुषीरवसृष्टाः वधाय ॥ १७.१.२८ ॥

我被神圣的咒语与铠甲所围绕,以迦叶波的光明与光辉所护;愿神箭不至于我,亦愿为杀我而射出的人箭不至于我。

17.1.29

ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्तो भव्येन चाहम् ।
मा मा प्रापत्पाप्मा मोत मृत्युरन्तर्दधेऽहं सलिलेन वाचः ॥ १७.१.२९ ॥

我被天理(ṛta)守护,被所有季节守护,被已成与未来守护。愿恶与死不要到达我;我隐藏于言语之水中。

17.1.30

अग्निर्मा गोप्ता परि पातु विश्वतः उद्यन्त्सूर्यो नुदतां मृत्युपाशान् ।
व्युच्छन्तीरुषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम् ॥ १७.१.३० ॥

愿护卫者阿耆尼从四面八方守护我。愿升起的太阳驱散死亡的绳索。愿放光的黎明与坚固的山岳;愿千种气息在我之中延展。