Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.45

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.45.1

ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।
चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन ॥ १९.४५.१ ॥

如同把债务送回债主之家,把咒术送回作咒者之家。也打断那施咒者恶心之人的眼睛与肋骨,哦,阿遮那!

19.45.2

यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ।
अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥ १९.४५.२ ॥

我们之中的恶梦、牛群中的恶兆、我们家中的恶事——愿那无名之害与恶心之人连同他们所爱之人一并被释放回去。

19.45.3

अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः ।
चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥ १९.४५.३ ॥

那源于山间、增益水之精华与力量、生于迦塔吠陀阿耆尼、有四位英雄的阿遮那——愿它使诸方与隅方对你吉祥。

19.45.4

चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु ।
ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥ १९.४५.४ ॥

四位英雄的阿遮那为你而系;愿诸方对你无所畏惧。你要像行走的萨维特里一样稳固屹立;愿这些民众向你献上供品。

19.45.5

आक्ष्वैकं मणिमेकं कृणुष्व स्नाह्येकेना पिबैकमेषाम् ।
चतुर्वीरं नैर्ऋतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥ १९.४५.५ ॥

一份涂于眼上,一份制成护符;一份用来沐浴,其中一份饮用。愿四位英雄的阿遮那保护我们,使我们免受涅利提之害,以及四种捕捉者的束缚。

19.45.6

अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा ॥ १९.४५.६ ॥

愿阿耆尼以阿耆尼守护我——为了气息,为了下气,为了寿命,为了光辉,为了力量,为了威光,为了吉祥,为了繁盛。娑婆诃!

19.45.7

इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा ॥ १९.४५.७ ॥

愿因陀罗以其感官之力护佑我:为了气息,为了下行气,为了寿命,为了光辉,为了活力,为了光明,为了吉祥,为了兴旺。娑訶。

19.45.8

सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा ॥ १९.४५.८ ॥

愿月神苏摩以其温和的苏摩本性护佑我:为了气息,为了下行气,为了寿命,为了光辉,为了活力,为了光明,为了吉祥,为了兴旺。娑訶。

19.45.9

भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा ॥ १९.४५.९ ॥

愿施福之神薄伽以其福德护佑我:为了气息,为了下行气,为了寿命,为了光辉,为了活力,为了光明,为了吉祥,为了兴旺。娑訶。

19.45.10

मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे ।
स्वस्तये सुभूतये स्वाहा ॥ १९.४५.१० ॥

愿风神众摩噜多以其众神护佑我:为了气息,为了下行气,为了寿命,为了光辉,为了活力,为了光明,为了吉祥,为了兴旺。娑訶。