Vedyatra वेदयात्रा
検索

アタルヴァ・ヴェーダ · スークタ 2.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.4.1

दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।
मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥ २.४.१ ॥

長寿と大いなる力のため、常に害されず栄えるために、ヴィシュカンダを滅ぼす護符とジャンギダを我らは身につける。

2.4.2

जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात् ।
मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥ २.४.२ ॥

ジャンギダがジャンバ、ヴィシャラ、ヴィシュカンダ、燃焼から我らを守れ。千の力を持つ護符が四方から我らを守れ。

2.4.3

अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः ।
अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥ २.४.३ ॥

これはヴィシュカンダに打ち勝ち、これは喰らう者どもを追い払う。万能の薬ジャンギダが我らを苦しみから守れ。

2.4.4

देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।
विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥ २.४.४ ॥

神々が授けた、幸いをもたらす護符とジャンギダによって、我らは戦いでヴィシュカンダと一切の羅刹に打ち勝つ。

2.4.5

शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् ।
अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥ २.४.५ ॥

シャナとジャンギダが、ヴィシュカンダから我を守れ。一つは森から、一つは耕地から、もう一つは汁から得られたもの。

2.4.6

कृत्यादूषिरयं मणिरथो अरातिदूषिः ।
अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत् ॥ २.४.६ ॥

この護符は呪術を滅ぼし、敵をも滅ぼす。そして力強いジャンギダが我らの寿命を延ばせ。