Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.107

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.107.1

समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
समुद्रायेव सिन्धवः ॥ २०.१०७.१ ॥

在他的愤怒面前,所有民众与所有部族都俯首,如河流朝向大海。

20.107.2

ओजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
इन्द्रश्चर्मेव रोदसी ॥ २०.१०७.२ ॥

当因陀罗像卷起兽皮一样卷起两界时,他那份力量便光芒四射。

20.107.3

वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
शिरो बिभेद्वृष्णिना ॥ २०.१०७.३ ॥

因陀罗以百节金刚杵劈开了阻挡者弗栗多的头颅,以那强大的兵器。

20.107.4

तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥ २०.१०७.४ ॥

那正是诸界中最尊贵者,从那里生出了猛烈、光辉有力的神。他一出生便摧毁敌人,所有助伴都为他欢欣。

20.107.5

वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ २०.१०७.५ ॥

以力量增长,拥有巨大的勇力,他使敌人达萨心生恐惧;开放与闭合者皆然——啊,强者,在醉饮中献给你的供品都俯首。

20.107.6

त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।
स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥ २०.१०७.६ ॥

当这些助伴成倍增加时,他们在你身上注入大力。把甘甜中更甘甜者以甘甜倾注;喜乐的赐予者啊,以蜜混蜜而战。

20.107.7

यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥ २०.१०७.७ ॥

若智者在每场战斗中欢喜地赞颂你征服财富,那么,最有力的勇力之主啊,请坚定地伸展自己;愿那些居于恶处的讥笑之敌不伤害你。

20.107.8

त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥ २०.१०७.८ ॥

借你之力我们在战斗中获胜,瞻望丰盛的战利品;我以言语激励你的武器,以神圣的祷词为你磨砺你的力量。

20.107.9

नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।
आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥ २०.१०७.९ ॥

你在下和上确立那宝藏,你借守护之助在家中居住;确立母亲,确立征服者,然后激发众多的功业。

20.107.10

स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।
आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥ २०.१०७.१० ॥

在高处赞颂那多路的、灵巧的、最有力的、在得者中被得的(因陀罗);他以力量显现,拥有丰沛的勇力,他胜出,成为大地的尺度。

20.107.11

इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्नियः स्वर्षाः ।
महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥ २०.१०७.११ ॥

愿布利哈迪瓦的这些梵咒为因陀罗成就力量;由火点燃,寻求太阳者,他居于伟大的种族之中,自主为王,迅捷,炽热,如海洋般包容一切。

20.107.12

एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥ २०.१०७.१२ ॥

伟大的布哈德迪瓦·阿塔尔瓦如此谈到拥有自身形体的因陀罗。两位如摩多利沙房的迅捷而无瑕的姐妹推动他们,并以力量使之增长。

20.107.13

चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥ २०.१०७.१३ ॥

诸神奇妙的旗帜与光耀的面容,光明的太阳升起于四方。造日者以其光辉穿越了一切黑暗与祸患,那纯净的太阳。

20.107.14

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ २०.१०७.१४ ॥

诸神奇妙的面容升起了,它是密特拉、伐楼那与阿耆尼之眼。它充满了天、地与虚空;太阳是动者与静者的自我。

20.107.15

सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ २०.१०७.१५ ॥

太阳从后追随光耀的女神黎明,如同男子追随女子。在那里,渴望诸神的人们延展他们的轭,为了吉祥而走向吉祥。