阿闼婆吠陀 · 颂诗(Sūkta) 20.127
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.127.1
इदं जना उप श्रुत नराशंस स्तविष्यते ।
षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥ २०.१२७.१ ॥
众人啊,请仔细听:应赞颂那罗拉香萨。六万又九十,我们在鲁沙摩人中赠给考拉姆。
20.127.2
उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश ।
वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥ २०.१२७.२ ॥
其骆驼与带新娘的二十辆车,车舆之高低垂,伸手触及天空。
20.127.3
एष इषाय मामहे शतं निष्कान् दश स्रजः ।
त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥ २०.१२७.३ ॥
为此礼物,我们以一百尼施卡和十个花环敬献;三百匹马,一万头牛。
20.127.4
वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।
नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥ २०.१२७.४ ॥
说吧,勒巴,说吧,如同成熟树上的鸟;失者之舌咔嗒作响,如同布利朱的剃刀。
20.127.5
प्र रेभासो मनीषा वृषा गाव इवेरते ।
अमोतपुत्रका एषाममोत गा इवासते ॥ २०.१२७.५ ॥
歌者以智慧奔出,如公牛与母牛;这些是阿摩多之子,坐着如阿摩多之牛。
20.127.6
प्र रेभ धीं भरस्व गोविदं वसुविदम् ।
देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥ २०.१२७.६ ॥
勒巴啊,献上那寻得牛群与财富的智慧;在诸神之中,将此言如箭射出,如羊群奔向其栖所。
20.127.7
राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति ।
वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥ २०.१२७.७ ॥
为帕里克希特压榨出对超越凡人的神、众人之王韦首婆那罗的美好赞颂。
20.127.8
परिछिन्नः क्षेममकरोत्तम आसनमाचरन् ।
कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया ॥ २०.१२७.८ ॥
被割断者来到座位上施行安康;库拉瓦之夫一边筑巢,一边对妻子说话。
20.127.9
कतरत्त आ हराणि दधि मन्थां परि श्रुतम् ।
जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥ २०.१२७.९ ॥
“我该给你拿哪种凝乳和搅拌的饮品,就是那听说过的?”——在国王帕里克希特的王国里,妻子问丈夫。
20.127.10
अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् ।
जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ॥ २०.१२७.१० ॥
富饶成熟的大麦从道路伸向洞穴;那些人在国王帕里克希特的王国中享受福祉而兴旺。
20.127.11
इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम् ।
ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥ २०.१२७.११ ॥
因陀罗唤醒了工匠:“起来,在人群中行走。使我的威猛者活跃起来;愿一切施者都使你满足。”
20.127.12
इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः ।
इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥ २०.१२७.१२ ॥
愿牛在此繁衍,马在此繁衍,人在此繁衍;千施之普山也在此坐下。
20.127.13
नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत् ।
मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥ २०.१२७.१३ ॥
因陀罗啊,愿这些牛不受损害;牧人啊,愿其中无一死亡。因陀罗啊,愿那希望它们遭难的人和盗贼不得掌控它们。
20.127.14
उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् ।
वनादधिध्वनो गिरो न रिष्येम कदा चन ॥ २०.१२७.१४ ॥
你在我们身边欢喜;我们以善巧的颂歌和吉祥的言辞赞美你。愿我们如同从森林升起的声音与歌唱,永不消亡。