Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.57

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.57.1

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥ २०.५७.१ ॥

为求庇佑,我们日日呼唤那创造美好形态者,犹如挤奶人呼唤易挤的母牛。

20.57.2

उप नः सवना गहि सोमस्य सोमपाः पिब ।
गोदा इद्रेवतो मदः ॥ २०.५७.२ ॥

来到我们的苏摩压榨处,饮苏摩者;饮用苏摩吧。那赐予牛群与财富的欢乐属于你。

20.57.3

अथा ते अन्तमानां विद्याम सुमतीनाम् ।
मा नो अति ख्य आ गहि ॥ २०.५७.३ ॥

那么愿我们获得你最近的善意恩惠。不要忽视我们;请靠近。

20.57.4

शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
इन्द्र सोमं शतक्रतो ॥ २०.५७.४ ॥

为了我们的帮助,请守护最有力、光辉、警醒的苏摩。因陀罗啊,百智者,[饮]苏摩吧!

20.57.5

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
इन्द्र तानि त आ वृणे ॥ २०.५७.५ ॥

百智的因陀罗啊,你在五族之中所拥有的诸般能力——因陀罗啊,我为你选取这些。

20.57.6

अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
उत्ते शुष्मं तिरामसि ॥ २०.५७.६ ॥

因陀罗啊,我们已来到。请确立伟大的声名与难以战胜的光辉。我们向前伸展你的力量。

20.57.7

अर्वावतो न आ गह्यथो शक्र परावतः ।
उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥ २०.५७.७ ॥

从近处来到我们这里,啊,帝释(Śakra),也从远方而来。啊,持石者,从你所在的那个世界,来到这里吧,因陀罗。

20.57.8

इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् ।
स हि स्थिरो विचर्षनिः ॥ २०.५७.८ ॥

因陀罗确实将大恐惧抖落驱散。他坚定不移,洞察一切。

20.57.9

इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत् ।
भद्रं भवाति नः पुरः ॥ २०.५७.९ ॥

愿因陀罗对我们慈悲;愿从背后来的祸害于我们消亡。愿吉祥在我们面前。

20.57.10

इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।
जेता शत्रून् विचर्षणिः ॥ २०.५७.१० ॥

愿因陀罗从所有方向给我们无畏。他是战胜敌人者,洞察一切。

20.57.11

क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥ २०.५७.११ ॥

谁知道在榨取苏摩时与他同饮的人?他何时赋予力量?这就是那以其神力摧毁堡垒者,因苏摩而欢欣,啊,戴盔者。

20.57.12

दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥ २०.५७.१२ ॥

如鹿如象,他在许多地方游行。在榨取苏摩时,无人能拘束你;伟大者以神力而行。

20.57.13

य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।
यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥ २०.५७.१३ ॥

虽猛烈而不可征服、坚定且为战斗备好,若富有的因陀罗听见赞颂者的呼唤,愿因陀罗不延误地前来。

20.57.14

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥ २०.५७.१४ ॥

我们这些榨取苏摩的人属于你,如同切割的巴尔希斯草旁的水;斩杀弗栗多者啊,赞颂者围坐在滤器的泉流旁,环绕着你。

20.57.15

स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥ २०.५७.१५ ॥

赐福者啊,压榨苏摩时,人们与颂诗者都为你歌唱。你何时口渴地来到压好的苏摩旁、你的居所,因陀罗啊?

20.57.16

कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।
पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥ २०.५७.१६ ॥

与迦纳瓦们一道,勇敢者啊,你勇猛地劈开千倍的胜利之力;富有者、洞察一切、赤褐形貌者啊,我们迅速祈求富含牛群的财富。