アタルヴァ・ヴェーダ · スークタ 20.76
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.76.1
वने न वा यो न्यधायि चाक्रं छुचिर्वां स्तोमो भुरणावजीगः ।
यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान् ॥ २०.७६.१ ॥
森の中に車輪が置かれたように、おおお二人の支え手よ、あなたがたのために清らかな讃歌が目覚めた。インドラが多くの日々において祭官となる者こそ、人の中で最も勇ましく、夜を持つ者である。
20.76.2
प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् ।
अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो यो असत्ससवान् ॥ २०.७६.२ ॥
この暁とその後の暁に、私たちは人の中で最も勇ましい者の勝利の行進にあらんことを。三つの炎の戦車は百人を運び、クツサと共に進んだ。それは常に目覚めている者である。
20.76.3
कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव ।
कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥ २०.७६.३ ॥
インドラよ、あなたのどの酔いが喜ばしいものとなったのか。猛々しく讃歌の門へ走れ。乗り物(馬)はいつ私たちのもとへ来るのか。私の思いが近くにあり、食と共にあなたを最上の富へ導けますように。
20.76.4
कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् ।
मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन् मनीषाः ॥ २०.७६.४ ॥
インドラよ、あなたのような人の輝きをいつ私たちに与えるのか。どの思いによって私たちをお造りになるのか、いつ私たちのもとへ来るのか。友のように真実で、広く讃えられる者よ、食物の支え手たちと共に、私の思いがこれと集まりますように。
20.76.5
प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।
गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥ २०.७६.५ ॥
おお太陽よ、目的に向かうように彼岸へと押し進めよ。彼の望みを満たす者たちは、生まれたばかりのように来る。そして多くの生を持つインドラよ、あなたの古い讃歌を、人々は食物と共に再び教える。
20.76.6
मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन ।
वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥ २०.७६.६ ॥
インドラよ、よく測られた母のために、あなたの古い天と地は力と詩の技によって立っている。あなたのために、酥を含んだ搾られたソーマよ甘くあれ、飲むために甘美であれ。
20.76.7
आ मध्वो अस्मा असिचन्न् अमत्रमिन्द्राय पूर्णं स हि सत्यराधाः ।
स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥ २०.७६.७ ॥
彼のために蜜の満ちた杯が注がれた。インドラのために、彼は真の富を与える者だから。彼は大地の広がりの中で、その意志と男らしい行いによって成長する、人々の友である。
20.76.8
व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।
आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥ २०.७६.८ ॥
インドラは自らの力で敵軍を打ち破る。友好を求めて多くの者が彼に向かって努める。戦いでは戦車のように彼のそばに立て、吉祥の善意によって汝が励ます者のために。