阿闼婆吠陀 · 颂诗(Sūkta) 3.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.15.1
इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।
नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥ ३.१५.१ ॥
我激励商人因陀罗。愿他作我们的前导。驱逐敌人、埋伏于路上的强盗和野兽,愿那位主宰成为赐我财富者。
3.15.2
ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥ ३.१५.२ ॥
那些在天地之间往来的众多神路,愿以乳与酥油使我喜悦,使我购得财富而归。
3.15.3
इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥ ३.१५.३ ॥
啊,阿耆尼!我以薪柴与酥油怀着祈愿,为迅捷与力量献上祭物。以梵语赞颂,尽我所能,为百倍之报而献上此神圣的心念。
3.15.4
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् ।
शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु ।
इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥ ३.१५.४ ॥
啊,阿耆尼!你不要忘记我们远行而来的这处庇护。愿我们的买、卖与交换吉祥而有成效。愿你们二者同心接受此祭物。愿我们的去与归皆吉祥。
3.15.5
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।
तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥ ३.१५.५ ॥
我以此财货经营买卖,诸神啊,我渴求财富,愿它于我更多而不减少。阿耆尼啊!以祭物将毁损利益者驱离诸神。
3.15.6
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।
तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥ ३.१५.६ ॥
以我借以经商的财富,诸神啊,我渴求财富——愿因陀罗在这财富中为我安置光辉;愿生主、萨维特里、苏摩与火神也如此。
3.15.7
उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।
स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥ ३.१५.७ ॥
啊,祭司,啊,吠舍婆罗,我们怀着敬礼赞颂你;愿你在我们的子嗣、身体、牛群和生命气息中保持警醒。
3.15.8
विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः ।
रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥ ३.१५.८ ॥
啊,耆多吠陀,我们将常常为你奉上供品,如同为站立的马匹运来草料;愿我们因财富的滋养与柴薪而欢喜,啊,火神,愿你的近邻们永不受害。