Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 3.20

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.20.1

अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ।
तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम् ॥ ३.२०.१ ॥

这是你与时令相应的出生之处,你由此诞生并光辉闪耀。知晓此处,阿耆尼啊,请升起,然后为我们增益财富。

3.20.2

अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव ।
प्र णो यच्छ विशां पते धनदा असि नस्त्वम् ॥ ३.२०.२ ॥

阿耆尼啊,请和善地对我们说话,转向我们并心怀善意。众民之主啊,请赐予我们;你是赐予我们财富的主。

3.20.3

प्र णो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः ।
प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥ ३.२०.३ ॥

愿阿利耶曼赐予我们,愿婆伽赐予,愿梵天之主布里哈斯帕蒂赐予;愿诸女神赐予,也赐予真实甘美的言语;愿女神使财富降临于我。

3.20.4

सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे ।
आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥ ३.२०.४ ॥

我们以颂歌为庇护而呼唤国王苏摩与阿耆尼;也呼唤阿ditya、毗湿奴、苏利亚、梵天与布里哈斯帕蒂。

3.20.5

त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं वर्धय ।
त्वं नो देव दातवे रयिं दानाय चोदय ॥ ३.२०.५ ॥

你啊,阿耆尼,以你的诸火增长我们的圣语与祭祀。你啊,神,催促我们为施与而获取财富,激励我们行布施。

3.20.6

इन्द्रवायू उभाविह सुहवेह हवामहे ।
यथा नः सर्व इज्जनः संगत्यां सुमना असद्दानकामश्च नो भुवत् ॥ ३.२०.६ ॥

我们在此呼唤因陀罗与风神二者,他们易于召请,愿我们集会中的众人心怀善意,愿我们中间有乐于布施之人。

3.20.7

अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।
वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥ ३.२०.७ ॥

催促阿利耶曼、布利哈斯帕蒂与因陀罗行施舍;也催促风神、毗湿奴、萨拉斯瓦蒂和强健的娑维陀。

3.20.8

वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः ।
उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यच्छ ॥ ३.२०.८ ॥

在力量的推动下我们相聚;这一切世界都在其中。使不愿给予者知而施予;将财富与一切英勇之子赐予我们。

3.20.9

दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम् ।
प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥ ३.२०.९ ॥

愿五方为我挤出乳汁;愿广阔的方位依其力量而挤奶。以心与意,愿我获得一切所愿。

3.20.10

गोसनिं वाचमुदेयं वर्चसा माभ्युदिहि ।
आ रुन्धां सर्वतो वायुस्त्वष्टा पोषं दधातु मे ॥ ३.२०.१० ॥

愿我举起那赢得牛群的言语;愿它以光辉在我面前升起。愿风神从四面将其守护;愿特瓦什特里赐予我养育。