Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 3.21

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.21.1

ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु ।
य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥ ३.२१.१ ॥

愿此供物归于那些存在于水中、存在于弗栗多之中、存在于人之中、存在于石中,并已进入草药与树木的火神。

3.21.2

यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु ।
य आविवेश द्विपदो यस्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥ ३.२१.२ ॥

愿此供物归于那些在苏摩之中、在牛之中、已入鸟类、在鹿之中,并已入两足与四足生灵的火神。

3.21.3

य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः ।
यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥ ३.२१.३ ॥

与因陀罗同乘一车的神祇毗舍那罗,赐予一切者,我于战斗中呼唤他为胜者——愿此供物归于那些火神。

3.21.4

यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः ।
यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥ ३.२१.४ ॥

据说拥有一切食物与欲望的神祇,被称为施予者与接受者,坚定、强大、统御一切、不可战胜者——愿此供物归于那些火神。

3.21.5

यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः ।
वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥ ३.२१.५ ॥

你为祭司,十三界与五族以心念知之;向那赐予光辉、荣耀而真实甘美的火神——愿此供物归于那些火神。

3.21.6

उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥ ३.२१.६ ॥

愿此供物献给以牛为食、以牛为食、背负苏摩的造物主,献给诸毗舍那罗中最长的那些阿耆尼。

3.21.7

दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति ।
ये दिक्ष्वन्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥ ३.२१.७ ॥

愿此供物献给那些随闪电穿行于天、地与虚空之间、在方位之内与风之内的阿耆尼。

3.21.8

हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम् ।
विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ॥ ३.२१.८ ॥

我们呼唤金手的萨维特、因陀罗、布里哈斯帕蒂、伐楼那、密多罗、阿耆尼、诸神与安吉罗娑;愿他们平息这食肉之火。

3.21.9

शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः ।
अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ॥ ३.२१.९ ॥

食肉之火已平息,食人之火已平息;而那个吞噬一切的食肉之火,我们已经将它平息。

3.21.10

ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः ।
वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥ ३.२१.१० ॥

背负苏摩的群山,仰面而卧的诸水,风,雨云,然后是火——他们平息了食肉者。