Vedyatra वेदयात्रा
検索

アタルヴァ・ヴェーダ · スークタ 3.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.24.1

पयस्वतीरोषधयः पयस्वन् मामकं वचः ।
अथो पयस्वतीनामा भरेऽहं सहस्रशः ॥ ३.२४.१ ॥

薬草よ、汁に満ちよ。わが言葉もまた汁に満ちよ。そして汁に満ちたものの名を、私は千度も担う。

3.24.2

वेदाहं पयस्वन्तं चकार धान्यं बहु ।
संभृत्वा नाम यो देवस्तं वयं हवामहे योयो अयज्वनो गृहे ॥ ३.२४.२ ॥

汁に満ちた豊かな穀物を彼が作ったことを私は知っている。Saṃbhṛtvāという名の神を我々は呼ぶ、不供犠者の家にいる彼を。

3.24.3

इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः ।
वृष्टे शापं नदीरिवेह स्फातिं समावहान् ॥ ३.२४.३ ॥

この五つの方角と人類の五つの部族は、雨の中の川のように、ここに繁栄を十分にもたらせ。

3.24.4

उदुत्सं शतधारं सहस्रधारमक्षितम् ।
एवास्माकेदं धान्यं सहस्रधारमक्षितम् ॥ ३.२४.४ ॥

百の流れ、千の流れを持つ尽きぬ泉が湧き出すように、我らのこの穀物も千の流れを持ち、尽きぬものとなれ。

3.24.5

शतहस्त समाहर सहस्रहस्त सं किर ।
कृतस्य कार्यस्य चेह स्फातिं समावह ॥ ३.२४.५ ॥

百の手を持つ者よ、集めよ。千の手を持つ者よ、よく撒け。為されたことと為されるべきことの繁栄を、ここへ良く運べ。

3.24.6

तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः ।
तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ॥ ३.२४.६ ॥

ガンダルヴァの量は三つ、家の主婦の量は四つ。その中で最も繁栄を与えるものによって、我らはおまえに触れる。

3.24.7

उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते ।
ताविहा वहतां स्फातिं बहुं भूमानमक्षितम् ॥ ३.२४.७ ॥

おおプラジャーパティよ、あなたの二人の門番はウポーハとサムーハです。二人がここに豊かな繁栄、大きな増大、そして尽きることのない富をもたらしますように。