阿闼婆吠陀 · 颂诗(Sūkta) 4.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.9.1
एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम् ।
विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥ ४.९.१ ॥
来吧,山之眼膏,拯救生命者;由诸神为生命所赐,你便是环绕的护佑。
4.9.2
परिपाणं पुरुषाणां परिपाणं गवामसि ।
अश्वानामर्वतां परिपाणाय तस्थिषे ॥ ४.९.२ ॥
你是人的护佑,牛的护佑;你挺立以守护马与疾驰的骏马。
4.9.3
उतासि परिपाणं यातुजम्भनमाञ्जन ।
उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥ ४.९.३ ॥
你是护佑,毁除巫术的眼膏;你知晓不死之物,你是生者的食物,也是绿色的药草。
4.9.4
यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः ।
ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥ ४.९.४ ॥
啊眼膏,你爬入每一支肢体与每一个关节,从那里以猛烈之力驱逐消耗之病,如同中尸女神。
4.9.5
नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ।
नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥ ४.९.५ ॥
咒诅不会及于他,巫术不会,灼烧的怨恨也不会;瘫痪也不会及于那佩戴你的人,啊眼膏。
4.9.6
असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत ।
दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ॥ ४.९.६ ॥
从恶咒、恶梦、恶行、污秽,以及恶意之心的可怕目光中,请保护我们,啊眼膏。
4.9.7
इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् ।
सनेयमश्वं गामहमात्मानं तव पूरुष ॥ ४.९.७ ॥
啊,膏剂,知此者,我说真实而非虚妄。啊,人,愿我借你得马、牛以及自身。
4.9.8
त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः ।
वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥ ४.९.८ ॥
膏剂有三名仆役:热病、痰与蛇阿达希。群山中最大者,名为三峰者,即你的父亲。
4.9.9
यदाञ्जनं त्रैककुदं जातं हिमवतस्परि ।
यातूंश्च सर्वाञ्जम्भयत्सर्वाश्च यातुधान्यः ॥ ४.९.९ ॥
生于喜马拉雅山上三峰山的膏剂,压碎了所有的巫者与所有的夜叉女妖。
4.9.10
यदि वासि त्रैककुदं यदि यामुनमुच्यसे ।
उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥ ४.९.१० ॥
你若是三峰者,或被称为阎牟那,愿以你的两个吉祥名号,啊膏剂,护佑我们。