阿闼婆吠陀 · 颂诗(Sūkta) 5.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.1.1
ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर्वर्धमानः सुजन्मा ।
अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि ॥ ५.१.१ ॥
其咒语灵验者,具不死之气,增长而善生,现身为本源;具不坏之气,光明如昼,第三持护者承载三者。
5.1.2
आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि ।
धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत ॥ ५.१.२ ॥
最先安坐于法者,由彼你化作众多形相。最初的持护者进入本源,他能知晓未说出的言语。
5.1.3
यस्ते शोकाय तन्वं रिरेच क्षरद्धिरण्यं शुचयोऽनु स्वाः ।
अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥ ५.१.३ ॥
他为燃烧而空竭你的身体,如流动的金,随其光明的亲族之后。此处他们立下不朽之名;愿众民为我们驱来衣物。
5.1.4
प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् ।
कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥ ५.१.४ ॥
当这二者沿古老的高路前行,立于每一座座位之上,行于不朽之道。诸位智者啊,舔舐那炙热者的两位母亲者,你们二人推动为妹妹负轭的夫君。
5.1.5
तदू षु ते महत्पृथुज्मन् नमः कविः काव्येना कृणोमि ।
यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥ ५.१.५ ॥
此即我以诗人之技献给你的伟大而广博的礼敬。那并行而动、向大地推进的二者;此处那两个伟大的束缚之轮增长壮大。
5.1.6
सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात् ।
आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥ ५.१.६ ॥
智者们塑造了七条界限;其中一条无瑕地前行。阿育的支柱立于至高的巢中,立于诸道的广延之中,立于支撑之柱间。
5.1.7
उतामृतासुर्व्रत एमि कृन्वन्न् असुरात्मा तन्वस्तत्सुमद्गुः ।
उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥ ५.१.७ ॥
我以不死之气息,在誓戒中前行,如此行事;愿阿修罗之自我赐予身体那善意的恩惠。或者帝释授予宝藏,或者以力量与祭品相合的施主。
5.1.8
उत पुत्रः पितरं क्षत्रमीडे ज्येष्ठं मर्यादमह्वयन्त्स्वस्तये ।
दर्शन् नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥ ५.१.८ ॥
儿子颂扬父亲、至上的王权、守护秩序者;为了福祉,人们呼唤他。瓦鲁那啊,请现出你那些住所;你回转身来,显示你的诸形相。
5.1.9
अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर ।
अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम् ।
कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥ ५.१.९ ॥
你以一半充满乳汁;以一半,哦不死者,你在力量中增长。让我们增益瓦鲁那,慈善的朋友,阿底提之子,迅捷的策动者。以诸智者的赞颂,我们为他宣说诸形相,两界亦以真实之语。