Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 7.62

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.62.1

ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण ।
गृहान् ऐमि सुमना वन्दमानो रमध्वं मा बिभीत मत् ॥ ७.६२.१ ॥

我持有活力,赢得财富,有良好的智慧,以不可怖、友善的目光走近家屋。怀着欢喜的心致敬说:你们欢乐吧,不要怕我。

7.62.2

इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः ।
पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥ ७.६२.२ ॥

这些给予幸福的屋舍,充满活力与乳汁,立于善物之中,愿它们认识我们这些前来者。

7.62.3

येषामध्येति प्रवसन् येषु सौमनसो बहुः ।
गृहान् उप ह्वयामहे ते नो जानन्त्वायतः ॥ ७.६२.३ ॥

我们呼唤那些旅人归来所至的屋舍,那里满是善意。愿它们认识我们这些前来者。

7.62.4

उपहूता भूरिधनाः सखायः स्वादुसंमुदः ।
अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन ॥ ७.६२.४ ॥

你们这些被呼唤的屋舍,富有财物,是朋友,在甜美的喜悦中欢乐,没有饥渴。不要怕我们。

7.62.5

उपहूता इह गाव उपहूता अजावयः ।
अथो अन्नस्य कीलाल उपहूतो गृहेषु ॥ ७.६२.५ ॥

此处召唤牛群,召唤山羊与绵羊;屋舍中也召唤食物的精华。

7.62.6

सूनृतावन्तः सुभगा इरावन्तो हसामुदाः ।
अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन ॥ ७.६२.६ ॥

你们这些充满真实之言的屋舍,吉祥,充满食物与饮水,在笑声中欢喜,没有饥渴。不要怕我们。

7.62.7

इहैव स्त मानु गात विश्वा रूपाणि पुष्यत ।
ऐष्यामि भद्रेणा सह भूयांसो भवता मया ॥ ७.६२.७ ॥

你们就在此处,不要离去;在一切形态中兴旺繁盛。我将带着吉祥而来,与我同在,你们将更加昌盛。