摩诃婆罗多 · 章 1.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.1.1
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १.१.१ ॥
向那罗延、人中最优者那罗以及女神萨罗私婆蒂致敬之后,应当宣说“胜利”(Jaya)。
1.1.2
नारायणं सुरगुरुं जगदेकनाथं ।
भक्तप्रियं सकललोकनमस्कृतं च।
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं ।
वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ॥ १.१.२ ॥
我礼敬那罗延,诸天之师,世间唯一之主,为信徒所爱,为一切世界所礼拜,超越三德,无生,遍在,originary 之主,断除世间缚系者,为天神、阿修罗与成就者所敬礼。
1.1.3
नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥ १.१.३ ॥
敬礼伟大的法;敬礼创造者克里希纳。向婆罗门致敬之后,我将宣说永恒的法。
1.1.4
ॐ नमो भगवते वासुदेवाय ।
ॐ नमः पितामहाय। ॐ नमः प्रजापतिभ्यः।
ॐ नमः कृष्णद्वैपायनाय ।
ॐ नमः सर्वविघ्नविनायकेभ्यः ॥ १.१.४ ॥
唵,敬礼世尊婆苏提婆。唵,敬礼祖父梵天。唵,敬礼众生之主。唵,敬礼黑氏毗耶娑。唵,敬礼除一切障碍的毗那夜迦。
1.1.5
रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको ।
नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥ १.१.५ ॥
罗摩哈尔沙纳之子乌格拉希罗婆,即诵说往世书的苏提,在那弥沙林中,于氏族长首陀迦所主持的十二年祭会上。
1.1.6
सुखासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् ।
विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ १.१.६ ॥
一次,御者之子谦恭俯首,走近安坐、持戒精严的梵仙们。
1.1.7
तमाश्रममनुप्राप्य नैमिशारण्यवासिनः ।
उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्यदर्शनात् ॥ १.१.७ ॥
他来到那座隐修处,对住在奈弥沙林中的所有仙人说:「今日得见诸位,我感到有福。」
1.1.8
वेद वैयासिकीः सर्वाः कथा धर्मार्यैसंहिताः ।
वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः ॥ १.१.८ ॥
我知晓毗耶娑所作、蕴含法与利的一切故事。二生者中的至上者、苦行的富足者,我将为你们讲述;今日请你们聆听。
1.1.9
तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः ।
चित्रा श्रोतुं कथास्तत्र परिव्रुस्तपस्विनः ॥ १.१.९ ॥
他的话语被听到后,住在奈弥沙林中的苦行者们纷纷聚集在那里,想要聆听奇妙的故事。
1.1.10
अभिवाद्य मुनींस्तांस्तु सर्वानेव कुताञ्जलिः ।
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिपूजितः ॥ १.१.१० ॥
他向所有这些仙人恭敬致礼,合掌,受到善人的尊敬,询问他们苦行是否增长。
1.1.11
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।
निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः ॥ १.१.११ ॥
此时,待所有苦行者都坐定之后,罗摩哈尔沙那之子出于谦逊,就座于为他安排的座位上。
1.1.12
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च ।
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥ १.१.१२ ॥
见他安然就座、已经歇息,那里的某位仙人便引出故事的话题,向他发问。
1.1.13
कुत आगम्यते सौते क्वचायं विहृतस्त्वया ।
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ १.१.१३ ॥
苏提啊,你从哪里来?这段时间你在何处度过?莲花眼者,请把这些告诉问你的我。
1.1.14
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः ।
वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम् ॥ १.१.१४ ॥
如此被问之后,罗摩哈尔沙那之子苏提,善于言辞,恰当而如实地讲述了关于他们行迹的话语。
1.1.15
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम् ।
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ॥ १.१.१५ ॥
在那宽广的集会中,聚集着心灵纯净的仙人们;在王仙、大德的阇那迷阇耶的蛇祭上。
1.1.16
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ।
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः ॥ १.१.१६ ॥
在诸王之主、般抽之子身边,由黑天·二岛所正确讲述的各种极其神圣的故事。
1.1.17
कथिताश्चापि विधिवद्या वैशंपायनेन वै ।
श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः ॥ १.१.१७ ॥
我听闻了维商跋衍依礼所讲的那些意义奇妙、与《摩诃婆罗多》相关的故事。
1.1.18
बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ।
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ॥ १.१.१८ ॥
我遍历了许多圣渡口与圣所,抵达名为三摩多般遮迦的圣地,那里是再生者常去的地方。
1.1.19
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ।
कुरूणां पाण्डवानां च सर्वेषां च महीक्षिताम् ॥ १.१.१९ ॥
我曾前往那片土地,昔日那里发生了俱卢族、般度族以及所有国王之间的战争。
1.1.20
दिदृक्षुंरागतस्तस्मात्समीपं भावतामिह ।
आयुष्मन्तः सर्व एव ब्रह्मभाता हि मे मताः
अस्मिन्यज्ञे महाभङ्गाः सूर्यपावकवर्चसः ॥ १.१.२० ॥
我怀着想见你们的心愿,从那里来到你们的身边。你们都寿命长久;我视你们为梵中的兄弟。在这场祭祀中,你们都是大有福德之人,光辉如日与火。
1.1.21
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ।
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥ १.१.२१ ॥
你们沐浴洁净,诵持咒语,向火中献祭,安然而坐。诸位再生者啊,我该说什么呢?
1.1.22
पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः ।
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥ १.१.२२ ॥
往世书的集成,建立在法与利益之上的吉祥故事,诸王与大德仙人的历史。
1.1.23
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ १.१.२३ ॥
至上仙人二生主(毗耶娑)所说的往世书,诸天与梵仙听闻后皆予以敬奉。
1.1.24
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ १.१.२४ ॥
那部最为殊胜的叙事,其词句与篇章奇妙精巧,具足微妙之义与推理,并以吠陀之义庄严。
1.1.25
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् ।
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ १.१.२५ ॥
婆罗多的神圣历史,充满文本的义理,经过修饰,以梵文书写,并由众多论著充实。
1.1.26
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् ।
यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया ॥ १.१.२६ ॥
这是毗舍摩衍那向国王阳阇耶的讲述,当时在祭会上,依照广博仙的命令,那位仙人被如实询问。
1.1.27
वेदैश्चतुर्भिः सयुक्तां व्यासस्याद्भुतकर्मणः ।
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम् ॥ १.१.२७ ॥
我们愿听闻行事奇妙的毗耶娑所作的神圣集成,它与四吠陀相连,能消除罪恶之惧。
1.1.28
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ १.१.२८ ॥
原初的补卢莎、主宰者,被众人呼唤、被众人赞颂,是真理(Ṛta),单音节的梵,显与隐,永恒者。
1.1.29
असच्च सच्चैव च यद्विश्वं सदसतः परम् ।
परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ १.१.२९ ॥
他是无与有,即宇宙本身,超越有与无;他是高与低的创造者;是古老、至上、不灭者。
1.1.30
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ १.१.३० ॥
向感官之主、哈里(Hari)致敬——他是吉祥者、吉祥本身、毗湿奴、至尊者、无垢而清净,是一切动与不动之物的导师。
1.1.31
महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः ।
प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः ॥ १.१.३१ ॥
我将宣说这里被一切世界所尊敬的大仙、大德、行事奇妙的毗耶娑的神圣learning。
1.1.32
नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ १.१.३२ ॥
敬礼那位具无量光辉的世尊毗耶娑,凭他的恩德,我将宣说这部那罗延故事。
1.1.33
सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम् ।
न तथा फलद सूते नारायणकथा यथा ॥ १.१.३३ ॥
平息一切修行林,沐浴一切圣渡口,都不能获得那罗延故事所带来的果报。
1.1.34
नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ १.१.३४ ॥
没有任何人能与那罗延相比,过去没有,现在没有,将来也不会有。以此真实之言,我成就一切所求。
1.1.35
आचख्युः कवयः केचित्संप्रत्याचक्षते परे ।
आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि ॥ १.१.३५ ॥
有些诗人讲述了这段历史,有些人现在讲述,还有其他人将在大地上如此讲述。
1.1.36
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् ।
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ १.१.३६ ॥
这部伟大的知识确立于三界之中,再生者们以详说和略说的方式将其保存。
1.1.37
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यधनुषैः ।
छन्दोवृत्तैश्च विविधैरन्वितं विदुषांप्रियम् ॥ १.१.३७ ॥
以吉祥之词、定式之法、如神弓般的精妙,以及种种韵律与格式作为装饰,为学者所珍爱。
1.1.38
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ १.१.३८ ॥
以苦行与梵行,分判永恒的吠陀之后,萨提亚瓦蒂之子作成了这部神圣的史诗。
1.1.39
पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये ।
विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः ॥ १.१.३९ ॥
在喜马拉雅神圣的山麓,居于洁净的山洞,净身之后,这位心怀正法者坐在吉祥草的座席上。
1.1.40
शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः ।
भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् ॥ १.१.४० ॥
毗耶娑清净持戒,心境寂静,安住于苦行之中,依正法审视了婆罗多史诗所行的那条路径。
1.1.41
प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः ॥ १.१.४१ ॥
进入瑜伽,他以智慧完整地看见了一切。
1.1.42
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसा वृते ।
बृहदण्डमभूदेकं प्रजानां बीजमव्ययम् ॥ १.१.४२ ॥
在这无光、无形、四面被黑暗所笼罩的境况中,生出了一枚巨大的卵,乃是众生不灭的种子。
1.1.43
युगस्यादिनिमित्तं तन्महद्दिव्यं प्रचक्षत ।
व्यस्मिंस्तच्छ्रूयते सत्यंज्योतिर्ब्रह्म सनातनम् ॥ १.१.४३ ॥
那巨大的神圣卵被宣称为时代开始的原因。其中可以听到:真理、光明、永恒的梵。
1.1.44
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां मतम् ।
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥ १.१.४४ ॥
它奇妙而不可思议,被视为无处不平等。它是未显现的微妙之因,具有有与无的本性。
1.1.45
यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ १.१.४५ ॥
由此诞生了祖父,唯一的主宰生主——梵天、诸神之师、Sthāṇu、Manu、Ka 与最高者。
1.1.46
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्तवै ।
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ १.१.४६ ॥
普拉切塔斯、达刹以及达刹的七子——随后出现了二十一位众生之主。
1.1.47
पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदु ।
विश्वेदेवास्तथाऽऽदित्या वसवोऽथाश्विनावपि ॥ १.१.४७ ॥
还有不可量度之我的原人(Puruṣa),诸仙人皆知之;还有诸大神(Viśvedevas)、阿提亚(Ādityas)、婆苏(Vasus),以及双马童(Aśvins)。
1.1.48
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः ॥ १.१.४८ ॥
药叉、萨陀耶、毕舍遮、古耶迦,以及祖灵;随后诞生了博学者、贤良者,以及梵仙中的最优秀者。
1.1.49
महर्षयश्च बहवः सर्वैः समुदिता गुणैः ।
आतो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तया ॥ १.१.४९ ॥
众多大仙人,具备一切德性;天、地、风、虚空与方位也同样生成。
1.1.50
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् ।
यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥ १.१.५० ॥
年、季、月、半月、昼与夜依次生成;其余一切也都生成,为诸世界所见证。
1.1.51
यदिदं दृश्यते किंचिद्बूतं स्थावरजङ्गमम् ।
पुनःसंक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ १.१.५१ ॥
凡此所见的一切有情与无情,当世界到达劫末时,又全部被收摄回去。
1.1.52
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ १.१.५२ ॥
如四季中各季的标志依次以种种形态显现,同样,在诸劫之初,那些存在之相又再次显现。
1.1.53
एवमेतदनाद्यन्तं भूतसंघातकारकम् ।
अनादिनिधनं लोके चक्रं संपरिवर्तते ॥ १.१.५३ ॥
如是,此无始无终、造作众生之轮,在世间不停转动。
1.1.54
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
त्रयस्त्रिंशच्च देवनां सृष्टिः संक्षेपलक्षणा ॥ १.१.५४ ॥
诸神之创造——三万三千、三千三百三十三以及三十三——简略地被叙述。
1.1.55
दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः ।
सविता स ऋचीकोऽर्को भानुराशावहो रविः ॥ १.१.५५ ॥
天之子为布利哈德跋努、眼、我与毗婆娑,萨维德里即是利奇迦、阿尔迦、跋努、阿夏瓦哈与罗维。
1.1.56
पुत्रा विवस्वतः सर्वे मनुस्तेषां तथाऽवरः ।
देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः ॥ १.१.५६ ॥
毗婆斯瓦特的诸子都在,其中有摩奴,也有最小的一个。他的儿子是提婆跋罗,此后他被称为苏跋罗。
1.1.57
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः ।
दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च ॥ १.१.५७ ॥
苏跋罗有三个儿子,他们有后嗣且博学:十光、百光与千光。
1.1.58
दशपुत्रसहस्राणि दशज्योतेर्महात्मनः ।
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥ १.१.५८ ॥
大德的十光有一万个儿子;此后百光在此又有其他儿子,是他们的十倍。
1.1.59
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः ।
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ १.१.५९ ॥
此后千光又有十倍于此的儿子;从他们中间产生了这俱卢族、雅度族,以及婆罗多的后裔。
1.1.60
ययातीक्ष्वाकृवंशश्च राजर्षीणां च सर्वशः ।
संभूता बहवो वंशा भूतसर्गाः सुविस्तराः ॥ १.१.६० ॥
耶耶提与甘蔗王的族系兴起,诸王仙的各类族系也全部产生;众生的这些创造极为广大。
1.1.61
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।
वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च ॥ १.१.६१ ॥
万物的一切所在,以及三重秘密;吠陀、瑜伽、与知识并存的法、利与欲。
1.1.62
धर्मार्थकामयुक्तानि शास्त्राणि विविधानि च ।
लोकयात्राविधान च सर्व तद्दृष्टवानृषिः ॥ १.१.६२ ॥
与法、利、欲相关的种种论典,以及世间生活的一切规范——那位仙人都已看见。
1.1.63
नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः ।
इतिहासाः सहव्याख्या विविधाश्रुतयोऽपि च ॥ १.१.६३ ॥
婆罗多族的治道及其在各方面的展开;附有解说的历史传说,以及种种天启圣典。
1.1.64
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ।
संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम् ॥ १.१.६४ ॥
此处已简要概括全书的内容,此即本书的纲要;历史的详细内容,他将在之后讲述。
1.1.65
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ १.१.६५ ॥
仙人将这伟大的知识详细展开之后,又简要地宣说;因为在世间,学者所重视的是同时记住概要与详述。
1.1.66
मन्वादि भारतं केचिदास्तीकादि तथाऽपरे ।
तथोपरिचराद्यन्ये विप्राः सम्यगधीयिरे ॥ १.१.६६ ॥
有些婆罗门善读以摩奴开篇的《婆罗多》,有些读以阿斯提卡开篇的,另一些读以优帕里查罗开篇的。
1.1.67
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः ।
व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे ॥ १.१.६७ ॥
智者照亮诸本集(saṃhitā)的种种知识;有人擅长解说,有人擅长将典籍记在心中。
1.1.68
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीत्सुतः ॥ १.१.६८ ॥
凭苦行与梵行,萨提亚瓦蒂之子分理永恒的吠陀,编成了这部神圣的史诗。
1.1.69
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः ।
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ १.१.६९ ॥
博学的梵仙、波罗奢罗之子,持戒坚定,心怀正法,遵母命,也应智慧的恒河之子(毗湿摩)之请而行此事。
1.1.70
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा ।
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ १.१.७० ॥
往昔,在毗质多婆利耶(Vicitravīrya)的田地里,有力的黑仙(Kṛṣṇa Dvaipāyana)生下了俱卢族的后裔,如三团火焰。
1.1.71
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च ।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ १.१.७१ ॥
生下持国、般度与毗度罗之后,这位智者又回到自己的修行林中,专心苦修。
1.1.72
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् ।
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ १.१.७२ ॥
当他们出生、长大、并已抵达至高之境后,这位大仙便在此人间世界宣说了《薄罗多》。
1.1.73
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः ।
शशास शिष्यमासीनं वैशंपायनमन्तिके ॥ १.१.७३ ॥
当阁下战王及数千婆罗门发问时,他便教导身旁坐着的弟子毗舍摩衍。
1.1.74
स सदस्यैः सहासीनं श्रावयामास भारतम् ।
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ १.१.७४ ॥
他与众会众同坐,在祭祀的间隙一再被催促,于是讲述了《摩诃婆罗多》。
1.1.75
विस्तारं कुरुवंशस्य गान्धार्या धर्मशीलताम् ।
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोब्रवीत् ॥ १.१.७५ ॥
俱卢族的世系广延、甘陀莉的德行、克沙特里(维杜罗)的智慧与贡蒂的坚韧,皆由毗耶娑(二生者)充分讲述。
1.1.76
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् ।
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ १.१.७६ ॥
世尊仙人讲述了婆苏提婆(克里希那)的伟大、般度五子的真实,以及持国王诸子的恶行。
1.1.77
इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम् ।
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥ १.१.७७ ॥
这部十万颂的至上《摩诃婆罗多》,连同其中的插话,应为行善者所知、所诵。
1.1.78
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् ।
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥ १.१.७८ ॥
他编写了二万四千颂的《婆罗多集》;去掉插话之后,智者只称这些为《婆罗多》。
1.1.79
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः ।
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् ॥ १.१.७९ ॥
随后,这位仙人又以一百五十颂作了简述,即《目录章》,其中记载了所有篇章的情节。
1.1.80
तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः ।
कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत् ॥ १.१.८० ॥
主宰者二十四尊者将这部最优秀的故事写成后思忖:“我该如何在此教导弟子们?”
1.1.81
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च ।
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम् ॥ १.१.८१ ॥
梵天得知仙人毗耶娑的思虑后,世界之师、尊贵的梵天亲自来到那里。
1.1.82
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया ।
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः ॥ १.१.८२ ॥
为了使他和那位仙人欢喜,并且出于对世界福祉的愿望,他见到梵天后既惊且喜,合掌恭敬地俯身站立。
1.1.83
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः ॥ १.१.८३ ॥
他被所有仙人群众簇拥着,吩咐准备了一个座位。
1.1.84
हिरण्यमर्भमासीनं तस्मिंस्तु परमासने ।
परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत् ॥ १.१.८४ ॥
当金胎梵天坐在那至高的座位上时,瓦苏之后裔(毗耶娑)绕行一周,站在座位附近。
1.1.85
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना ।
निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः ॥ १.१.८५ ॥
得到至尊者梵天的允许后,黑天欢喜地带着纯净的微笑,在座位旁边坐下。
1.1.86
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् ।
कृतं मयेदं भगवन्काव्यं परमपूजितम् ॥ १.१.८६ ॥
那位大光明者对至尊者梵天说:'尊贵的主啊,我所作的这部诗篇极受尊崇。'
1.1.87
ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया ।
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया ॥ १.१.८७ ॥
梵天啊,吠陀的秘密,以及我所确立的其他内容,还有包括支分与奥义书在内的吠陀的详细阐释。
1.1.88
इतिहासपुरापानामुन्मेषं निमिषं च यत् ।
भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम् ॥ १.१.८८ ॥
历史与往世书的显现与隐没,以及过去、现在与未来,这被称为三重的时间。
1.1.89
जरामृत्युभयव्याधिभावाभावविनिश्चयः ।
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् ॥ १.१.८९ ॥
对衰老、死亡、恐惧与疾病的确定,有与无的确定,以及种种法与诸住期的特征。
1.1.90
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः ।
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः ॥ १.१.९० ॥
四种姓的制度以及诸往世书的全部内容;苦行与梵行;大地、月与日。
1.1.91
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह ।
ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च ॥ १.१.९१ ॥
行星、星宿与星辰的度量,连同诸时代;《梨俱》诗节、《夜柔》、《娑摩》歌,以及吠陀的内在义理。
1.1.92
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा ।
इति नैकाश्रयं जन्म दिव्यमानुषसंज्ञितम् ॥ १.१.९२ ॥
正理、教导、医术、布施,以及帕舒帕塔;如此,其来源不止一处,它被称为神圣与人间的。
1.1.93
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् ।
नदीनां पर्वतानां च वनानां सागरस्य च ॥ १.१.९३ ॥
颂扬圣渡口与圣洁之地,以及江河、山岳、森林与大海。
1.1.94
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् ।
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः ॥ १.१.९४ ॥
古传与天界劫期,战争的技艺,言语与种类的区别,以及世间行止的次第。
1.1.95
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम् ।
परं न लेखकः कश्चिदेतस्य भुवि विद्यते ॥ १.१.९५ ॥
遍在之物也已在此阐明;此书在世间再无其他书写者。
1.1.96
तपोविशिष्टदपि वै वसिष्ठान्मुनिपुंगवात् ।
मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात् ॥ १.१.९६ ॥
即便胜过苦行卓越的婆私瑟吒,诸仙之首啊,我认为你才是最优秀的,因为你通晓秘密的知识。
1.1.97
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् ।
त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति ॥ १.१.९७ ॥
自出生起我便知道你真实的言辞,那是言说梵的言辞。既然你称它为“诗”(kāvya),它就将成为诗。
1.1.98
अस्य काव्यस्य कवयो न समर्था विशेषणे ।
विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥ १.१.९८ ॥
诗人无法完整地描述这部诗,就像除家居者之外的其余三个生活阶段无法描述家居者一样。
1.1.99
जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत् ।
यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत् ॥ १.१.९९ ॥
若你未以智慧之火点燃它,世界将变得愚钝、盲目、聋哑、疯狂,并沉没于黑暗之中。
1.1.100
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः ।
ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः ॥ १.१.१०० ॥
对于被自身业行包裹、被黑暗蒙蔽的世界,你以知识的眼膏之棒,为智慧之眼举办了一场盛会。
1.1.101
त्वया भारतसूर्येण नृणां विनिहतं तमः ॥ १.१.१०१ ॥
婆罗多之日,你已驱散了众人的黑暗。
1.1.102
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना ।
नृणां कुमुदसौम्यानां कृतं बुद्धिप्रसादनम् ॥ १.१.१०२ ॥
借助以天启月光照耀的满月般的往世书,人们如夜莲般温和的智慧得到了清明与喜悦。
1.1.103
इतिहासप्रदीपेन मोहावरणघातिना ।
लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम् ॥ १.१.१०३ ॥
以历史之灯破除迷惑之帷幕,世界的整个内殿得以如实照亮。
1.1.104
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् ।
संभवस्कन्धविस्तारः सभापर्वविटङ्कवान् ॥ १.१.१०४ ॥
以总括章为种子,以波罗摩与阿斯提卡之事为根,以《出生篇》为干与枝叶之展开,以《集会篇》为枝条。
1.1.105
आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान् ।
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् ॥ १.१.१०५ ॥
以《林居篇》为丰饶之形,具《毗罗吒篇》与《努力篇》之精髓,以《毗湿摩篇》为大枝,以《德罗纳篇》为叶。
1.1.106
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः ।
स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः ॥ १.१.१०६ ॥
以《迦尔纳篇》之白花与《沙利耶篇》之芬芳花朵为饰,以《妇女篇》为憩息与箭杆,以《寂静篇》为大果。
1.1.107
अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः ।
मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः ॥ १.१.१०७ ॥
具马祭之甘露,依托于修行林居之处,为《摩呤罗篇》之简要纲要,为有德的再生者所亲近。
1.1.108
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति ।
पर्जन्यइव भूतानामक्षयो भारद्रुमः ॥ १.१.१०८ ॥
它将成为一切大诗人的依靠,如雨云之于众生,这婆罗多之树将永不穷竭。
1.1.109
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने। ॥ १.१.१०९ ॥
啊,贤者,为了书写此诗,应当忆念象神伽内萨。
1.1.110
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् ।
भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह ॥ १.१.११० ॥
如此对他说后,梵天返回自己的住所。那位世界的创造者、世尊,与仙人和天神的众众同行。
1.1.111
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः ॥ १.१.१११ ॥
于是萨蒂亚瓦蒂之子毗耶娑忆念了黑兰跋(象神伽内萨)。
1.1.112
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः ।
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः ॥ १.१.११२ ॥
一被忆念,那位众之主、满足信徒心愿的象神,即障碍之主,便来到毗耶娑所在之处。
1.1.113
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ ।
लेखको भारतस्यास्य भव त्वं गणनायक
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च ॥ १.१.११३ ॥
你这无垢者,他受到敬礼并坐下后,毗耶娑对他说:众之主啊,请你做这部《摩诃婆罗多》的书记,我在心中构思并口述的这部作品。
1.1.114
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम् ।
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥ १.१.११४ ॥
闻此,障碍之主说:“若我书写时,笔不曾停顿片刻,那时我才会成为书记。”
1.1.115
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् ।
ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः ॥ १.१.११५ ॥
广博仙人也对那位神说:“不解其义,切莫书写。”迦内沙说了“唵”,便也成了书记。
1.1.116
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् ।
यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥ १.१.११६ ॥
于是仙人出于好奇,结下了书中那个隐秘的结;其中,二岛仙人依誓言说出了此语。
1.1.117
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च ।
अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा ॥ १.१.११७ ॥
八千颂与八百颂——我知道;舍卢迦知道,而桑迦耶知道与否,不得而知。
1.1.118
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने ।
भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च ॥ १.१.११८ ॥
哦,仙人,那一串颂句至今仍紧紧缠结;其义因隐秘而谦逊,不可拆解。
1.1.119
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन् ।
तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि ॥ १.१.११९ ॥
当全知的迦内沙沉思片刻之时,广博仙人也写下了许多其他的颂句。
1.1.120
तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम् ।
स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि ॥ १.१.१२० ॥
这棵树的枝、花、果如何生长,我将为你讲述;它充满甘美纯净的汁液,即使诸神也无法砍伐。
1.1.121
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् ।
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ॥ १.१.१२१ ॥
导言章,叙述所有篇章的故事:此前二生(广博仙人)曾将此教给他的儿子鹦鹉。
1.1.122
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभु ।
षष्टिं शतसहस्राणि चकारान्यां स संहिताम्।
त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् ॥ १.१.१२२ ॥
随后他将此传给其他合适的弟子。尊者又作了另一部集成,共六十万颂;其中三十万存于天界。
1.1.123
पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश ।
एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ॥ १.१.१२३ ॥
在祖灵界宣说有十五(十万);在罗刹与夜叉界有十四(十万);而在人间存有一十万。
1.1.124
नारदोऽश्रावयद्देवानसितो देवलः पितृन् ।
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ १.१.१२४ ॥
那罗陀向诸神宣讲;阿悉多与提婆罗向祖灵宣讲;鹦鹉确实向乾达婆、夜叉与罗刹宣讲。
1.1.125
वैशंपायनविप्रर्षिः श्रावयामास पार्थिवम् ।
पारिक्षितं महात्मानं नाम्ना तु जनमेजयम् ॥ १.१.१२५ ॥
婆罗门仙人吠舍衍那向国王宣讲——即波利克希特之子、名为阇那梅阇耶的大德。
1.1.126
अस्मिंस्तु मानुषे लोके वैशंपायन उक्तवान् ।
शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः ॥ १.१.१२६ ॥
在此人间世界,吠舍衍那宣说此典——即毗耶娑的正直弟子,诸精通吠陀者中最为殊胜者。
1.1.127
एकं शतसहस्रं तु मयोक्तं वै निबोधत ॥ १.१.१२७ ॥
我已宣说十万颂,请听。
1.1.128
दुर्योधनो मन्युमयो महाद्रुमः ।
कर्णः स्कन्धः शकुनिस्तस्य शाखाः।
दुश्शासनः पुष्पफले समृद्धे ।
मूलं राजा धृतराष्ट्रोऽमनीषि। ॥ १.१.१२८ ॥
难敌是由愤怒构成的大树;迦尔纳是其干,沙古尼是其枝,难降是其繁盛的花与果;其根是无智的国王持国。
1.1.129
युधिष्ठिरे धर्ममयो महाद्रुमः ।
स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः।
माद्रीसुतौ पुष्पफले समृद्धे ।
मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ १.१.१२९ ॥
坚战是由法构成的大树;阿周那与怖军为其干,摩德利的两子为其枝,其花与果繁盛;其根是黑天、梵与婆罗门。
1.1.130
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च ।
अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा ॥ १.१.१३० ॥
般度以战争与勇力征服诸多国土,好猎,便与其人众同住于森林中。
1.1.131
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम् ।
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ १.१.१३१ ॥
因在鹿形中交合而死,他遭受了严重的灾祸;自普利塔之子出生起,行为与礼仪的次序便由此开始。
1.1.132
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।
धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥ १.१.१३२ ॥
两位母亲亲近法的秘密教义;因渴望子嗣,她们召请法神、风神与因陀罗。
1.1.133
ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा ।
धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥ १.१.१३३ ॥
于是,深得丈夫喜爱的普利塔获得了法奥义(咒语),因渴望儿子,以这些咒语召唤了法神、风神和因陀罗。
1.1.134
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च ।
जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः।
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ॥ १.१.१३४ ॥
借着昆缇所授的那咒语,玛德利也召唤了双生的阿湿婆。依咒语之力,昆缇与玛德利生下了所有般度之子。他们与苦行者一同成长,受到两位母亲的守护。
1.1.135
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ।
तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु ॥ १.१.१३५ ॥
在清净的森林、神圣的地方和大人物的修行处,当所有那些大心的般度之子都已出生时……
1.1.136
माद्र्या तु सह संगम्य ऋषिशापप्रभावतः ।
मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ ॥ १.१.१३६ ॥
然而,他与玛德利交合后,因仙人诅咒的威力,死于极其神圣的大山百峰山(Śatashṛṅga)上。
1.1.137
ऋषिभिश्च समानीता धार्तराष्ट्रान्प्रति स्वयम् ।
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ १.१.१३७ ॥
仙人们亲自把他们带到了持国之子面前——年少、俊美、头发纠结、奉行梵行的学徒。
1.1.138
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः ।
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥ १.१.१३८ ॥
仙人说道:“这些是你们的儿子、兄弟、弟子和朋友;他们是般度之子。”说完,众仙人便隐没了。
1.1.139
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा ।
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ १.१.१३९ ॥
众kauravas与其余各种姓的城中居民见到那些仙人所宣告的般度之子,便欢喜得大声呼喊起来。
1.1.140
आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।
यदा चिरमृतः पाण्डुः कथं तस्येतदि चापरे ॥ १.१.१४० ॥
有人说:“他们不是他的。”另一些人说:“他们确是他的。”可是般度早已死去很久,他们怎么可能是他的呢?其他人也这样说。
1.1.141
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् ।
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥ १.१.१४१ ॥
“幸运的是,我们full见到般度的后嗣,欢迎!”“说欢迎!”这样的声音从四面八方传来。
1.1.142
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन् ।
अन्तर्हितानां भूतानां निःस्वनस्तुमुलीऽभवत् ॥ १.१.१४२ ॥
那声音停息后,遍响四方的隐身众生之声变成了一片喧嚣。
1.1.143
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः ।
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥ १.१.१४३ ॥
般度之子入城时,天降花雨,吉祥的香气四溢,法螺与鼓声齐鸣,这真如同奇迹一般。
1.1.144
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः ।
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ १.१.१४४ ॥
众城民因此心生喜爱与欢乐;那里响起了一阵直上云霄、增益名声的巨大喧声。
1.1.145
तेऽधीत्य निखिलान्वेदाञ्शास्त्राणि विविधानि च ।
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ १.१.१४५ ॥
班度之子学习了所有吠陀与各种论典,在那里受到尊敬,无所畏惧地居住。
1.1.146
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ १.१.१४६ ॥
因坚贞清净的般度长子,百姓皆欢喜;因怖军的坚忍与阿周那的勇武,亦然。
1.1.147
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च ।
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ १.१.१४७ ॥
因贡蒂侍奉尊长,因双生子的谦逊,又因他们的勇武之德,举国百姓皆感满足。
1.1.148
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् ।
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ १.१.१४८ ॥
随后在诸王集会中,阿周那完成极其艰难的功业,得到了自择夫婿的少女黑公主。
1.1.149
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् ।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ १.१.१४९ ॥
从此,他在这世间受到所有弓手的尊崇,在战场上则如太阳般令人难以逼视。
1.1.150
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् ।
आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम् ॥ १.१.१५० ॥
阿周那征服了所有国王和诸大军队,为国王迎来了名为拉贾苏耶的大祭祀。
1.1.151
युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥ १.१.१५१ ॥
坚战举行了名为王祭的大祭礼。
1.1.152
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च ।
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥ १.१.१५२ ॥
依靠婆苏提婆的善谋,以及毗摩与阿周那的力量,使恃力傲慢的遮代耶与迦罗散陀被诛。
1.1.153
दुर्योधनं समागच्छन्नर्हणानि ततस्ततः ।
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥ १.१.१५३ ॥
各地的敬礼之物纷纷送到难敌处:宝珠、黄金、珍宝、牛、象、马与财物。
1.1.154
विचित्राणि च वासांसि प्रावारावरणानि च ।
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ॥ १.१.१५४ ॥
各色华美衣裳、披肩与罩衣、毛毯、兽皮与宝物,以及柔软的羚皮褥垫。
1.1.155
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ।
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥ १.१.१५५ ॥
见到般度诸子如此繁盛的财富,他心中生起了由嫉妒而起的巨大愤怒。
1.1.156
विमानप्रतिमां तत्र मयेन सुकृतां सभाम् ।
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥ १.१.१५६ ॥
他见到那座由摩耶精心建造、如天界飞车般的大殿,已献给般度诸子,于是懊恼不已。
1.1.157
तत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् ।
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥ १.१.१५७ ॥
在婆苏提婆(黑天)面前,他遭到怖军的嘲笑;他仿佛因慌乱而冲上前去,像个出身低贱的人。
1.1.158
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च ।
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ १.१.१५८ ॥
尽管他享用各种享乐与各色珍宝,却有人向持国王禀报说,他面色苍白、消瘦如鹿。
1.1.159
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥ १.१.१५९ ॥
于是,宠爱儿子的持国王允许了赌局;婆苏提婆听闻此事,心中生起了巨大的愤怒。
1.1.160
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत ।
द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत ॥ १.१.१६० ॥
他内心并不十分愉快,却仍默许争端,对赌博等可怕而种种的不义之事置之不理。
1.1.161
निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम् ।
विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम् ॥ १.१.१६१ ॥
他排斥了毗杜罗、毗湿摩、德罗纳和沙罗多婆之子克利帕;在那场喧嚣的战争中,他使刹帝利们彼此焚烧。
1.1.162
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् ।
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ॥ १.१.१६२ ॥
听闻般度之子正在取胜,得知这是极不悦耳的消息,并了解了难敌、迦尔纳与沙恭尼的意见……
1.1.163
धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ।
शृणु संजय सर्वं मे नचासूयितुमर्हसि ॥ १.१.१६३ ॥
般度之后长久思索,对全若说道:「全若啊,听我所说的一切,你不应当责难。」
1.1.164
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।
न विग्रहे मम मतिर्न च प्रीये कुलक्षये ॥ १.१.१६४ ॥
你博学、聪慧、有智慧,又为智者所尊敬。我的心不在战争,我也不因家族灭亡而欢喜。
1.1.165
न मे विशेषः पुत्रेषु स्वेषु पाम्डुसुतेषु वा ।
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः ॥ १.१.१६५ ॥
我对自己的儿子与般度的儿子并无分别。然而沉溺于愤怒的我的儿子们,却责备我这个老人。
1.1.166
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ।
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥ १.१.१६६ ॥
我失明,出于可怜的软弱和对儿子的爱,忍受这一切;我也跟随迷惑而无知的难敌的迷惑。
1.1.167
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः ।
तच्चावहसनं प्राप्य सभारोहणदर्शने ॥ १.१.१६७ ॥
在王祭大典上看到大力般度之子的荣华,又在登上议事厅的场面中遭遇嘲笑……
1.1.168
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे ।
निरुत्साहश्च संप्राप्तुं सुश्रियं क्षत्रियोऽपि सन् ॥ १.१.१६८ ॥
自己愤恨,在战场上无力战胜般度诸子,也缺乏力量去获得盛大的荣华——尽管他是刹帝利。
1.1.169
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ।
तत्र यद्यद्यथा ज्ञातं मयां संजय तच्छृणु ॥ १.१.१६९ ॥
他与干陀罗王一同策划了一场欺诈的骰子赌局。桑贾亚啊,请听我在那里所知道的一切,照实而言。
1.1.170
श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः ।
ततो ज्ञास्यसि मां सौते प्रज्ञाटचक्षुषमित्युत ॥ १.१.१७० ॥
听完我这些合乎理智、依照真实的话语之后,苏提啊,你便会知道我是以智慧为眼的人。
1.1.171
यदाऽश्रौषं धनुरायम्य चित्रं ।
विद्धं लक्ष्यं पातितं वै पृथिव्याम्।
कृष्णां हृतां प्रेक्षतां सर्वराज्ञां ।
तदा नाशंसे विजयाय संजय ॥ १.१.१७१ ॥
我听闻有人拉弓射中了那奇妙的靶子,使其坠落于地,而克里希纳(德罗波蒂)在所有国王的注视下被夺走。那时,桑贾亚啊,我便不再希望胜利。
1.1.172
यदाऽश्रौषं द्वारकायां सुभद्रां ।
प्रसह्योढां माधवीमर्जुनेन।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ ।
तदा नाशंसे विजयाय संजय ॥ १.१.१७२ ॥
我听闻在德瓦拉卡,阿周那强行掳走了摩陀婆之女苏跋陀罗作为妻子,而两位毗湿尼英雄前往因陀罗普拉斯塔。那时,桑贾亚啊,我便不再希望胜利。
1.1.173
यदाऽश्रौषं देवराजं प्रवृष्टं ।
शरैर्दिव्यैर्वारितं चार्जुनेन।
अग्निं तथा तर्पितं खाण्डवे च ।
तदा नाशंसे विजयाय संजय ॥ १.१.१७३ ॥
我听闻降雨的诸神之王因陀罗被阿周那以神箭挡住,而在坎达瓦森林中火神得到了满足。那时,桑贾亚啊,我便不再希望胜利。
1.1.174
यदाऽश्रौषं जातुषाद्वेश्मनस्ता-
न्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्।
युक्तं चैषां विदुरं स्वार्थसिद्ध्यै ।
तदा नाशंसे विजयाय संजय ॥ १.१.१७४ ॥
桑闍耶啊,当我听说五位普利塔之子已从蜡宫中脱险,与贡蒂会合,而维杜罗为了他们自己的目的也加入了他们时,我便不指望他们会获胜。
1.1.175
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये ।
लक्ष्यं भित्त्वा निर्जितामर्जुनेन।
शूरान्पञ्चालान्पाण्डवेयांश्च युक्तां-
स्तदा नाशंसे विजयाय संजय ॥ १.१.१७५ ॥
桑闍耶啊,当我听说阿周那在竞技场中射中目标,赢得了德劳帕蒂,而勇猛的般遮罗人和般度之子都与他会合时,我便不指望他们会获胜。
1.1.176
यदाऽश्रौषं मागधानां वरिष्ठं ।
जरासन्धं क्ष्वमध्ये ज्वलन्तम्।
दोर्भ्यां हतं भीमसेनेन गत्वा ।
तदा नाशंसे विजयाय संजय ॥ १.१.१७६ ॥
桑闍耶啊,当我听说摩揭陀中最杰出的particle 耶罗桑陀在……中烈焰般闪耀时,被婆罗多之子怖军前往并以双臂击杀,我便不指望他们会获胜。
1.1.177
यदाऽश्रौषं दिग्जये पाण्डुपुत्रै-
र्वशीकृतान्भूमिपालान्प्रसह्य।
महाक्रतुं राजसूयं कृतं च ।
तदा नाशंसे विजयाय संजय ॥ १.१.१७७ ॥
桑闍耶啊,当我听说在征服四方时,般度之子以力量降服了诸王,并举行了大祭礼拉贾苏耶,我便不指望他们会获胜。
1.1.178
यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं ।
सभां नीतां दुःखितामेकवस्त्राम्।
रजस्वलां नाथवतीमनाथव-
त्तदा नाशंसे विजयाय संजय ॥ १.१.१७८ ॥
桑闍耶啊,当我听说德劳帕蒂喉咙哽咽、悲痛、身着单衣、正处于月经期,被拖进了议会,她虽有保护者却如同无依无靠,我便不指望他们会获胜。
1.1.179
यदाऽश्रौषं वाससां तत्र राशिं ।
समाक्षिपत्कितवो मन्दबुद्धिः।
दुःशासनो गतवान्नैवं चान्तं ।
तदा नाशंसे विजयाय संजय ॥ १.१.१७९ ॥
桑闪耶啊,我听说那里愚蠢的赌徒难敌之弟难降将那堆衣服拖走,而且没有尽头,那时我不期望胜利。
1.1.180
यदाऽश्रौषं हृतराज्यं युधिष्ठिरं ।
पराजितं सौबलेनाक्षवत्याम्।
अन्वागतं भ्रातृभिरप्रमेयै-
स्तदा नाशंसे विजयाय संजय ॥ १.१.१८० ॥
桑闪耶啊,我听说坚战在骰子赌局中被苏跋罗之子击败,失去了王国,并与他那不可度量的兄弟们在一起,那时我不期望胜利。
1.1.181
यदाश्रौषं विविधास्तत्र चेष्टा ।
धर्मात्मनां प्रस्थितानां वनाय।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां ।
तदा नाशंसे विजयाय संजय ॥ १.१.१८१ ॥
桑闪耶啊,我听说正直的般度之子因敬爱长兄而前往森林,遭受种种苦难,那时我不期望胜利。
1.1.182
यदाऽश्रौषं स्नातकानां सहस्रै-
रन्वागतं धर्मराजं वनस्थम्। ॥ १.१.१८२ ॥
我听说有成千上万的学成婆罗门随同住在林中的法王坚战。
1.1.183
भिक्षाभुजां ब्राह्मणानां महात्मनां ।
तदा नाशंसे विजयाय संजय ॥ १.१.१८३ ॥
桑闪耶啊,与靠乞食为生的大德婆罗门一同(般度之子在森林中),那时我不期望胜利。
1.1.184
यदाऽश्रौषं वनवासेन पार्था-
न्समागतान्महर्षिभिः पुराणैः।
उपास्यमानान्सगणैर्जातसख्यां-
स्तदा नाशंसे विजयाय संजर्य ॥ १.१.१८४ ॥
桑闪耶啊,我听说普利塔之子在林中流放时,遇见了古老的大仙人,随从者们受到他们的侍奉,并且结下了友谊,那时我不期望胜利。
1.1.185
यदाश्रौषं त्रिदिवस्थं धनंजयं ।
शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्।
अधीयानं शंसितं सत्यसन्धं ।
तदा नाशंसे विजयाय संजय ॥ १.१.१८५ ॥
桑闍耶啊,当我听说达难闍耶住在天界,亲从因陀罗那里如法地学习神圣武器,并因信守诺言而受到赞扬时,我便不再希望胜利。
1.1.186
यदाऽश्रोषं कालकेयास्ततस्ते ।
पौलोमानो वरदानाच्च दृप्ताः।
देवैरजेया निर्जिताश्चार्जुनेन ।
तदा नाशंसे विजयाय संजय ॥ १.१.१८६ ॥
桑闍耶啊,当我听说因恩赐而骄傲、连天神也无法战胜的迦拉开耶与波罗摩,被阿周那击败时,我便不再希望胜利。
1.1.187
यदाऽश्रौषमसुराणां वधार्थे ।
किरीटिनं यान्तममित्रकर्शनम्।
कृतार्थं चाप्यागतं शक्रलोका-
त्तदा नाशंसे विजयाय संजय ॥ १.१.१८७ ॥
桑闍耶啊,当我听说戴冠者、摧敌者为诛灭阿修罗而出征,并已完成使命从因陀罗界归来时,我便不再希望胜利。
1.1.188
यदाऽश्रौषं तीर्थयात्राप्रवृत्तं ।
पाण्डोः सुतं सहितं लोमशेन।
बृहदश्वादक्षहृदयं च प्राप्तं ।
तदा नाशंसे विजयाय संजय ॥ १.१.१८८ ॥
桑闍耶啊,当我听说般度之子踏上朝圣之旅,与罗摩舍同行,并从布利诃达诗瓦那里获得了掷骰之术时,我便不再希望胜利。
1.1.189
यदाऽश्रौषं वैश्रवणेन सार्धं ।
समागतं भीमन्यांश्च पार्थान्।
तस्मिन्देशे मानुषाणामगम्ये ।
तदा नाशंसि विजयाय संजया ॥ १.१.१८९ ॥
桑闍耶啊,当我听说般度诸子与毗湿罗婆那(俱毗罗)及婆罗多,在那处凡人不可到达之地相遇时,我便不再希望胜利。
1.1.190
यदाऽश्रौषं घोषयात्रागतानां ।
बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन।
स्वेषां सुतानां कर्णबुद्धौ रतानां ।
तदा नाशंसे विजयाय संजय ॥ १.१.१९० ॥
萨阳阁啊,当我听说前往牛群巡行的我们的儿子被乾闼婆所擒,又被阿周那救出,以及那些沉迷于迦尔纳之见的人,那时我便不再期望胜利。
1.1.191
यदाऽश्रौषं यक्षरूपेण धर्मं ।
समागतं धर्मराजेन सूत।
प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक् ।
तदा नाशंसे विजयाय संजय ॥ १.१.१९१ ॥
御者萨阳阁啊,当我听说法神以夜叉之形与法王相见,并恰当地提出了一些问题,那时我便不再期望胜利。
1.1.192
यदाऽश्रौषं न विदुर्मामकास्तान् ।
प्रच्छन्नरूपान्वसतः पाण्डवेयान्।
विराटराष्ट्रे सह कृष्णया च ।
तदा नाशंसे विजयाय संजय ॥ १.१.१९२ ॥
萨阳阁啊,当我听说我方的人未能认出那些在毘罗吒国中以隐匿之形与黑公主同住的般度之子,那时我便不再期望胜利。
1.1.193
यदाऽश्रौषं कीचकानां वरिष्ठं ।
निषूदितं भ्रातृशतेन सार्धम्।
द्रौपद्यर्थे भीमसेनेन सङ्ख्ये ।
तदा नाशंसे विजयाय संजय ॥ १.१.१९३ ॥
萨阳阁啊,当我听说为了黑公主,怖军在战斗中将诸迦吉迦中的首领与其百位兄弟一同杀死,那时我便不再期望胜利。
1.1.194
यदाऽश्रौषं मामकानां वरिष्ठा-
न्धनंजयेनैकरथेन भग्नान्।
विराटराष्ट्रे वसता महात्मना ।
तदा नाशंसे विजयाय संजय ॥ १.१.१९४ ॥
萨阳阁啊,当我听说住在毘罗吒国的大德财胜(Dhanañjaya)独乘一车,击溃了我方的诸位勇士,那时我便不再期望胜利。
1.1.195
यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा ।
सुतां दत्तामुत्तरामर्जुनाय।
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे ।
तदा नाशंसे विजयाय संजय ॥ १.१.१९५ ॥
桑闍耶啊,当我听说摩差王以礼相待,将女儿乌埵罗嫁给阿周那,而阿周那为求子而接纳了她时,我便不再期望胜利。
1.1.196
यदाऽश्रौषं निर्जितस्याधनस्य ।
प्रव्राजितस्य स्वजनात्प्रच्युतस्य।
अक्षौहिणीः सप्त युधिष्ठिरस्य ।
तदा नाशंसे विजयाय संजय ॥ १.१.१९६ ॥
桑闍耶啊,当我听说被击败、失去财富、被流放、与亲族分离的坚战尚有七个阿克肖诃尼军时,我便不再期望胜利。
1.1.197
यदाऽश्रौषं माधवं वासुदेवं ।
सर्वात्मना पाण्डवार्थे निविष्टम्।
यस्येमां गां विक्रममेकमाहु-
स्तदा नाशंसे विजयाय संजय ॥ १.१.१९७ ॥
桑闍耶啊,当我听说摩陀婆·婆苏提婆全心全意为般遮子孙而效力,据说大地曾被他一步丈量时,我便不再期望胜利。
1.1.198
यदाऽश्रौषं नरनारायणौ तौ ।
कृष्णार्जुनौ वदतो नारदस्य।
अहं द्रष्टा ब्रह्मलोके च सम्यक् ।
तदा नाशंसे विजयाय संजय ॥ १.१.१९८ ॥
桑闍耶啊,当我听闻那罗陀说那罗与那罗衍那,即黑天与阿周那,正是那二者,而我将在梵界完全见证此事时,我便不再期望胜利。
1.1.199
यदाऽश्रौषं लोकहिताय कृष्णं ।
शमार्थिनमुपयातं कुरूणाम्।
शमं कुर्वाणमकृतार्थं च यातं ।
तदा नाशंसे विजयाय संजय ॥ १.१.१९९ ॥
桑闍耶啊,当我听说黑天为世间利益、寻求和平而来到俱卢族之中,致力于和平,却未达成其所愿便离去时,我便不再期望胜利。
1.1.200
बुद्धिं कृतां निग्रहे केशवस्य ।
तं चात्मानं बहुधा दर्शयानं
तदा नाशंसे विजयाय संजय ॥ १.१.२०० ॥
我听说克舍婆(黑天)谋划制止,并以多种方式显示自己,那时,hē Sañjaya,我便不再期望胜利。
1.1.201
यदाऽश्रौषं वासुदेवे प्रयाते ।
रथस्यैकामग्रतस्तिष्ठमानाम्।
आर्तां पृथां सान्त्वितां केशवेन ।
तदा नाशंसे विजयाय संजय ॥ १.१.२०१ ॥
我听说婆苏提婆(黑天)离去,而克舍婆安慰了站在战车前的悲伤的普利塔(贡蒂),那时,hē Sañjaya,我便不再期望胜利。
1.1.202
यदाऽश्रौषं मन्त्रिणं वासुदेवं ।
तथा भीष्मं शान्तनवं च तेषाम्।
भारद्वाजं चाशिषोऽनुब्रुवाणं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२०२ ॥
我听说谋臣婆苏提婆(黑天),以及山塔奴之子毗湿摩与婆罗堕阇之子德罗纳,都为他们说出祝福之语,那时,hē Sañjaya,我便不再期望胜利。
1.1.203
यदा कर्णो भीष्ममुवाच वाक्यं ।
नाहं योत्स्ये युध्यमाने त्वयीति।
हित्वा सेनामपचक्राम चापि ।
तदा नाशंसे विजयाय संजय ॥ १.१.२०३ ॥
当迦尔纳对毗湿摩说出这些话:「只要你在作战,我便不战」,并舍弃军队而退去时,hē Sañjaya,我便不再期望胜利。
1.1.204
यदाऽश्रौषं वासुदेवार्जुनौ तौ ।
तथा धनुर्गाण्डिवमप्रमेयम्।
त्रीण्युग्रवीर्याणि समागतानि ।
तदा नाशंसे विजयाय संजय ॥ १.१.२०४ ॥
我听说婆苏提婆与阿周那这二人,以及不可衡量的甘狄拔神弓——这三股猛烈的力量已经聚集,那时,hē Sañjaya,我便不再期望胜利。
1.1.205
यदाऽश्रौषं कश्ललेनाभिपन्ने ।
रथोपस्थे सीदमानेऽर्जुने वै।
कृष्णं लोकान्दर्शयानं शरीरे ।
तदा नाशंसे विजयाय संजय ॥ १.१.२०५ ॥
桑闍耶啊,当我听说阿周那因怜悯而不支,瘫倒在战车座上,而黑天在自己身中显示诸世界时,我便不再期望胜利。
1.1.206
यदाऽश्रौषं भीष्ममित्रकर्शनं ।
निघ्नन्तमाजावयुतं रथानाम्।
नैषां कश्चिद्वध्यते ख्यातरूप-
स्तदा नाशंसे विजयाय संजय ॥ १.१.२०६ ॥
桑闍耶啊,当我听说降敌者毗湿摩在战场上摧毁一万辆战车,而其中无一位名声显赫者被杀时,我便不再期望胜利。
1.1.207
यदाऽश्रौषं चापगेयेन सङ्ख्ये ।
स्वयं मृत्युं विहितं धार्मिकेण।
तच्चाकार्षुः पाण्डवेयाः प्रहृष्टा-
स्तदा नाशंसे विजयाय संजय ॥ १.१.२०७ ॥
桑闍耶啊,当我听说恒河之子、正法的毗湿摩在战中自己说出了自己的死亡之法,而般度之子欢喜地照此而行时,我便不再期望胜利。
1.1.208
यदाऽश्रौषं भीष्ममत्यन्तशूरं ।
हतं पार्थेनाहवेष्वप्रधृष्यम्।
शिखण्डिनं पुरतः स्थापयित्वा ।
तदा नाशंसे विजयाय संजय ॥ १.१.२०८ ॥
桑闍耶啊,当我听说极其英勇、在诸战中不可战胜的毗湿摩,被普利塔之子把湿乞缔置于前而杀死时,我便不再期望胜利。
1.1.209
यदाऽश्रौषं शरतल्पे शयानं ।
वृद्धं वीरं सादितं चित्रपुङ्खैः।
भीष्मं कृत्वा सोमकानल्पशेषां-
स्तदा नाशंसे विजयाय संजय ॥ १.१.२०९ ॥
桑闍耶啊,当我听说老英雄毗湿摩被色彩斑斓的羽箭射倒,卧于箭床之上,而索摩迦人只剩下寥寥数人时,我便不再期望胜利。
1.1.210
यदाऽश्रौषं शान्तनवे शयाने ।
पानीयार्थे चोदितेनार्जुनेन।
भूमिं भित्त्वा तर्पितं तत्र भीष्मं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२१० ॥
我听说山耆努之子毗湿摩卧于箭床之上,阿周那催促之下刺穿大地取水,毗湿摩在那里得以解渴,那时,桑闍耶啊,我便不再期望胜利。
1.1.211
यदाश्रौषं शुक्रसूर्यौ च युक्तौ ।
कौन्तेयानामनुलोमौ जयाय।
नित्यं चास्माञ्श्वापदा भीषयन्ति ।
तदा नाशंसे विजयाय संजय ॥ १.१.२११ ॥
我听说金星与太阳相会,有利于贡蒂之子获胜,而豺狼等野兽又时常惊扰我们,桑闍耶啊,那时我便不再期望胜利。
1.1.212
यदा द्रोणो विविधानस्त्रमार्गा-
न्निदर्शयन्समरे चित्रयोधी।
न पाण्डवाञ्श्रेष्ठतरान्निहन्ति ।
तदा नाशंसे विजयायं संजय ॥ १.१.२१२ ॥
我听说德罗纳在战场上展示种种箭术,虽是奇异的战士,却不能杀死最优秀的般度之子,桑闍耶啊,那时我便不再期望胜利。
1.1.213
यदाऽश्रौषं चास्मदीयान्महारथा-
न्व्यवस्थितानर्जुनस्यान्तकाय।
संशप्तकान्निहतानर्जुनेन ।
तदा नाशंसे विजयाय संजय ॥ १.१.२१३ ॥
我听说我方为阿周那之死而列阵的大车勇士,即三誓者,已被阿周那所杀,桑闍耶啊,那时我便不再期望胜利。
1.1.214
यदाऽश्रौषं व्यूहमभेद्यमन्यै-
र्भारद्वाजेनात्तशस्त्रेण गुप्तम्।
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२१४ ॥
我听说别人无法攻破的阵势,由婆罗堕阇之子(德罗纳)以持械者守护,却被英雄苏婆陀罗(阿毗曼尤)独自攻破而入,桑闍耶啊,那时我便不再期望胜利。
1.1.215
यदाऽभिमन्युं परिवार्य बालं ।
सर्वे हत्त्वा हृष्टरूपा बभूवुः।
महारथाः पार्थमशक्नुवन्त-
स्तदा नाशंसे विजयाय संजय ॥ १.१.२१५ ॥
当他们围住年少的阿毗曼纽并将其杀死而欢喜时,却无法战胜普利塔之子,那时,啊,桑闍耶,我没有期望胜利。
1.1.216
यदाऽश्रौषमभिमन्युं निहत्य ।
हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्।
क्रोधादुक्तं सैन्धवे चार्जुनेन ।
तदा नाशंसे विजयाय संजय ॥ १.१.२१६ ॥
当我听到持国之子因杀死阿毗曼纽而欣喜若狂、高声叫喊,以及阿周那愤怒地对信度王所说的话时,啊,桑闍耶,我没有期望胜利。
1.1.217
यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां ।
प्रतिज्ञातां तद्वधायार्जुनेन।
सत्यां तीर्णां शत्रुमध्ये च तेन ।
तदा नाशंसे विजयाय संजय ॥ १.१.२१७ ॥
当我听到阿周那为杀死信度王而立下的誓言,在敌人之中被他如实履行时,啊,桑闍耶,我没有期望胜利。
1.1.218
यदाऽश्रौषं श्रान्तहये धनंजये ।
मुक्त्वा हयान्पाययित्वोपवृत्तान्।
पुनर्युक्त्वा वासुदेवं प्रयातं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२१८ ॥
当我听到战车疲惫的持财(阿周那)解开马匹、饮水、再重新套上,与婆苏提婆(黑天)一同出发时,啊,桑闍耶,我没有期望胜利。
1.1.219
यदाऽश्रौषं वाहनेष्वक्षमेषु ।
रथोपस्थे तिष्ठता पाण्डवेन।
सर्वान्योधान्वारितानर्जुनेन ।
तदा नाशंसे विजयाय संजय ॥ १.१.२१९ ॥
当我听到车辆失去作用时,站在战车板上的般度之子阿周那阻挡了所有战士,那时,啊,桑闍耶,我没有期望胜利。
1.1.220
यदाऽश्रौषं नागबलैः सुदुःसहं ।
द्रोणानीकं युयुधानं प्रमथ्य।
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ ।
तदा नाशंसे विजयाय संजय ॥ १.१.२२० ॥
桑加亚啊,当我听说尤尤丹那以象军摧毁了德罗纳那难以抵挡的军队,而韦湿尼之裔(克里希那)前往那二人——克里希那与帕尔塔所在之处时,我便不再期望胜利。
1.1.221
यदाऽश्रौषं कर्णमासाद्य मुक्तं ।
वधाद्भीमं कुत्सयित्वा वचोभिः।
धनुष्कोट्याऽऽतुद्य कर्णेन वीरं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२२१ ॥
桑加亚啊,当我听说毗摩与迦尔纳交锋后逃脱了死亡,而迦尔纳以言语辱骂他,并用弓梢击打那位英雄时,我便不期望胜利。
1.1.222
यदा द्रोणः कृतवर्मा कृपश्च ।
कर्णो द्रौणिर्मद्रराजश्च शूरः।
अमर्षयन्सैन्धवं वध्यमानं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२२२ ॥
桑加亚啊,当德罗纳、克里达瓦尔曼、克里帕、迦尔纳、德罗纳之子(阿湿伐因摩)以及英勇的摩德罗王,因信度王被杀而愤怒,却未能救他时,我便不期望胜利。
1.1.223
यदाऽश्रौषं देवराजेन दत्तां ।
दिव्यां शक्तिं व्यंसितां माधवेन।
घटोत्कचे राक्षसे घोररूपे ।
तदा नाशंसे विजयाय संजय ॥ १.१.२२३ ॥
桑加亚啊,当我听说因陀罗所赐的神圣力量之矛,被摩陀婆(克里希那)从形貌可怖的罗刹甘陀约迦身上移开时,我便不期望胜利。
1.1.224
यदाऽश्रौषं कर्णघटोत्कचाभ्यां ।
युद्धे मुक्तां सूतपुत्रेण शक्तिम्।
यया वध्यः समरे सव्यसाची ।
तदा नाशंसे विजयाय संजय ॥ १.१.२२४ ॥
桑加亚啊,当我听说在迦尔纳与甘陀约迦的战斗中,御者之子放出了那力量之矛,据此在战场上应当杀死善用双手的阿周那时,我便不期望胜利。
1.1.225
यदाऽश्रौषं द्रोणमाचार्यमेकं ।
धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्।
रथोपस्थे प्रायगतं विशस्तं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२२५ ॥
桑闪耶啊,当我听说导师德罗纳孤身一人时,被德里斯塔德尤姆纳违背战法,在战车上以兵器击倒,送上死亡之路,那时我便不再期望胜利。
1.1.226
यदाऽश्रौषं द्रौणिना द्वैरथस्थं ।
माद्रीसुतं नकुलं लोकमध्ये।
समं युद्धे मण्डलेभ्यश्चरन्तं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२२६ ॥
桑闪耶啊,当我听说德罗纳之子与站立单挑的玛德里之子那库拉交战,那库拉在战斗中以环形步法均衡移动时,那时我便不再期望胜利。
1.1.227
यदा द्रोणे निहते द्रोणपुत्रो ।
नारायणं दिव्यमस्त्रं विकुर्वन्।
नैषामन्तं गतवान्पाण्डवानां ।
तदा नाशंसे विजयाय संजय ॥ १.१.२२७ ॥
桑闪耶啊,当我听说德罗纳被杀之后,德罗纳之子发出神圣的那罗延武器,却未能使般度之子们走到终结,那时我便不再期望胜利。
1.1.228
यदाऽश्रौषं भीमसेनेन पीतं ।
रक्तं भ्रातुर्युधि दुःशासनस्य।
निवारितं नान्यतमेन भीमं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२२८ ॥
桑闪耶啊,当我听说毗摩森那在战斗中饮了其兄杜莎萨那的血,且无人能阻挡毗摩时,那时我便不再期望胜利。
1.1.229
यदाऽश्रौषं कर्णमत्यन्तशूरं ।
हतं पार्थेनाहवेष्वप्रधृष्यम्।
तस्मिन्भ्रातृणां विग्रहे देवगुह्ये ।
तदा नाशंसे विजयाय संजय ॥ १.१.२२९ ॥
桑闪耶啊,当我听说极其英勇、在战斗中不可战胜的迦尔纳,在那兄弟之争中,那神秘的天界隐秘之事里,被普利塔之子杀死时,那时我便不再期望胜利。
1.1.230
यदाऽश्रौषं द्रोणपुत्रं च शूरं ।
दुःशासनं कृतवर्माणमुग्रम्।
युधिष्टिरं धर्मराजं जयन्तं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२३० ॥
桑闍耶啊,我听说德罗纳之子、英勇的难降、猛烈的胜军,以及法王坚战正在获胜,那时我不指望胜利。
1.1.231
यदाऽश्रौषं निहतं मद्रराजं ।
रणे शूरं धर्मराजेन सूत।
सदा सङ्ग्रामे स्प्रधते यस्तु कृष्णं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२३१ ॥
桑闍耶啊,我听说勇士、摩德罗王在战场上被法王所杀,以及那常在战场上与黑天相争者,那时我不指望胜利。
1.1.232
यदाऽश्रौषं कलहद्यूतमूलं ।
मायाबलं सौबलं पाण्डवेन।
हतं सङ्ग्रामे सहदेवेन पापं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२३२ ॥
桑闍耶啊,我听说争端与赌博之根、拥有幻术之力的苏跋罗(沙恭尼)被般度子偕天在战场上所杀,那个恶人,那时我不指望胜利。
1.1.233
यदाऽश्रौषं श्रान्तमेकं शयानं ।
ह्रदं गत्वा स्तम्भयित्वा तदम्भः।
दुर्योधनं विरथं भग्नशक्तिं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२३३ ॥
桑闍耶啊,我听说难敌疲惫独自躺卧,去到湖中并阻止了湖水之后,失去战车,力量已被摧毁,那时我不指望胜利。
1.1.234
यदाऽश्रौषं पाण्डवांस्तिष्ठमानान् ।
गत्वा ह्रदे वासुदेवेन सार्धम्।
अमर्षणं धर्षयतः सुतं मे ।
तदा नाशंसे विजयाय संजय ॥ १.१.२३४ ॥
桑闍耶啊,我听说般度诸子与婆苏提婆同到湖边站立,正在羞辱我那易怒的儿子,那时我不指望胜利。
1.1.235
यदाऽश्रौषं विविधांश्चित्रमार्गान् ।
गदायुद्धे मण्डलशश्चरन्तम्।
मिथ्या हतं वासुदेवस्य बुद्ध्या ।
तदा नाशंसे विजयाय संजय ॥ १.१.२३५ ॥
我听闻在多样奇妙的路径上以金刚杵作战、绕圈而行的瓦苏提婆,竟因计谋而被虚假地杀害,那时,桑阇耶啊,我不指望胜利。
1.1.236
यदाऽश्रौषं द्रोणपुत्रादिभिस्तै-
र्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान्।
कृतं बीभत्समयशस्यं च कर्म ।
तदा नाशंसे विजयाय संजय ॥ १.१.२३६ ॥
我听闻德罗纳之子等人在睡梦中杀害了般遮罗人和德罗巴蒂的诸子,并犯下了可憎而不光彩的行为,那时,桑阇耶啊,我不指望胜利。
1.1.237
यदाऽश्रौषं भीमसेनानुयाते-
नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम्।
क्रुद्धेनैषीकमवधीद्येन गर्भं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२३७ ॥
我听闻当毗摩先那追逐时,愤怒的阿湿婆陀摩发出了至高武器,芦苇箭因此杀死了胎儿,那时,桑阇耶啊,我不指望胜利。
1.1.238
यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन ।
स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम्।
अश्वत्थाम्ना मणिरत्नं च दत्तं ।
तदा नाशंसे विजयाय संजय ॥ १.१.२३८ ॥
我听闻阿周那说了一声“吉祥”,以武器平息了梵首武器,阿湿婆陀摩又献出了宝珠,那时,桑阇耶啊,我不指望胜利。
1.1.239
यदाऽश्रौषं द्रोणपुत्रेण गर्भे ।
वैराट्या वै पात्यमाने महास्त्रैः।
संजीवयामीति हरेः प्रतिज्ञां ।
तदा नाशंसे विजयाय संजय ॥ १.१.२३९ ॥
我听说德罗纳之子以大神兵击打毗罗吒之女腹中的胎儿,而诃利曾发誓说“我要使其复活”,那时,桑闍耶啊,我便不再期望胜利了。
1.1.240
द्वैपायनः केशवो द्रोणपुत्रं ।
परस्पेरणाभिशापैः शशाप।
बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत ।
संतप्ये वै पुत्रपौत्रैश्च हीनः ॥ १.१.२४० ॥
毗耶娑与克舍婆以互相的诅咒诅咒了德罗纳之子。御者啊,虽然我今已明白此事,但今日我失去理智,失去子孙,正在悲痛。
1.1.241
शोच्या गान्धारी पुत्रपौत्रैर्विहीना ।
तथा वध्वा पितृभिर्भ्रातृभिश्च।
कृतं कार्यं दुष्करं पाण्डवेयैः ।
प्राप्तं राज्यमसपत्नं पुनस्तैः ॥ १.१.२४१ ॥
失去子孙的甘陀利令人怜悯,儿媳、父亲与兄弟亦然。般度之子完成了艰难之事,并再次获得了无敌对的王国。
1.1.242
कष्टं युद्धे दश शेषाः श्रुता मे ।
त्रयोऽस्माकं पाण्डवानां च सप्त।
द्व्यूना विंशतिराहताऽक्षौहिणीनां ।
तस्मिन्सङ्ग्रामे भैरवे क्षत्रियाणाम् ॥ १.१.२४२ ॥
在那场可怖的战斗中,刹帝利的二十个阿刹訶希尼军被击溃;我听说其中十个幸存——我方三个,般度之子方七个。这是令人痛苦的事。
1.1.243
तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम् ।
संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥ १.१.२४३ ॥
极其浩瀚的黑暗,迷惑仿佛侵入我身。御者啊,我已不能觉知自己的意识;我的心仿佛昏乱。
1.1.244
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः ।
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् ॥ १.१.२४४ ॥
德拉斯特拉极度悲伤,说完这些便长久哀叹。他再次昏厥,又苏醒过来,对桑贾亚说出了这些话。
1.1.245
संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम् ।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥ १.१.२४५ ॥
桑贾亚啊,事已至此,我想立即舍弃性命;维持这生命,我连一丝益处也看不到。
1.1.246
तं तथा वादिनं दीनं विलपन्तं महीपतिम् ।
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः ॥ १.१.२४६ ॥
那位如此说话、悲惨哀叹、像大象一样叹息、一再昏迷的国王。
1.1.247
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ।
श्रुतवानसि वै राजन्महोत्साहान्महाबलान् ॥ १.१.२४७ ॥
智慧的噶瓦尔加纳之子桑贾亚说出了这些意义重大的话:"大王,您一定听说过那些有大毅力、大力量的人。"
1.1.248
द्वैपायनस्य वदतो नारदस्य च धीमतः ।
महत्सु राजवंशेषु गुणैः समुदितेषु च ॥ १.१.२४८ ॥
您已听过二岛仙人(毗耶娑)与智慧的那罗陀所说,关于具备德行的伟大王族。
1.1.249
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ।
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ॥ १.१.२४९ ॥
(出生的人们),精通神圣武器,光辉堪比因陀罗,以法统治并征服大地,以丰厚酬金的祭祀供奉诸神。
1.1.250
अस्मिँल्लोके यशः प्राप्य ततः कालवशं गतान् ।
शैब्यं महारथं वीरं सृंजयं जयतां वरम् ॥ १.१.२५० ॥
在此世获得名声,之后归于时间之支配的:大战车手英雄舍比耶,以及胜者中最优秀的斯林阇耶。
1.1.251
बाह्लीकं दमनं चैद्यं शर्यातिमजितं नलम् ॥ १.१.२५१ ॥
巴利迦、达摩那、阇提耶、舍利耶提、无敌的阿吉多,以及那罗。
1.1.252
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ।
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ॥ १.१.२५२ ॥
毗湿伐弥多罗、大力的灭敌者安跋黎沙、摩korotta、摩奴、甘蔗王、伽耶,以及婆罗多。
1.1.253
रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ।
कृतवीर्यं महाभागं तथैव जनमेजयम् ॥ १.१.२५३ ॥
十车王之子罗摩、沙舍平杜、薄伽罗陀、大福的克利多维利耶,以及同样的阇那梅阁耶。
1.1.254
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् ।
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥ १.१.२५४ ॥
行善的耶亚提,诸神亲自使他举行祭祀,此地以祭柱为标记,是苏摩祭的宝藏。
1.1.255
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा ।
पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम् ॥ १.१.२५५ ॥
如是二十四王,往昔由天仙那罗陀讲述给因丧子之痛而煎熬的施伐提耶。
1.1.256
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः ।
महारथा महात्मानः सर्वैः समुदिता गुणैः ॥ १.१.२५६ ॥
在他们之前,还有更为强大的其他国王已经逝去;他们是大车战士、大德之人,具备一切美德。
1.1.257
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः ।
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥ १.१.२५७ ॥
普鲁、库鲁、耶度、英勇的毗什伐伽什瓦(大光辉者)、阿奴诃、尤婆那什瓦、迦库室陀、勇猛的罗怙。
1.1.258
विजयो वीतिहोत्रोऽह्गो भवः श्वेतो बृहद्गुरुः ।
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥ १.१.२५८ ॥
毗阇耶、毗提呼特罗、盎伽、婆婆、毗舍多、布哈德古鲁、乌奢那罗、舍陀罗陀、建迦、杜利杜诃与德鲁摩。
1.1.259
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः ।
अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः ॥ १.१.२५९ ॥
耽婆陀婆、至上的吠那、萨伽罗、桑克里提、尼弥、不可征服的婆罗舍、补恭陀罗、商普、提婆跋陀、以及无罪的阿那伽。
1.1.260
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः ।
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥ १.१.२६० ॥
提婆呼唤、善喻、善面、大车、大勤勉、自制者、善行、尼沙陀之那罗。
1.1.261
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः ।
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः ॥ १.१.२६१ ॥
真誓、息怖、善友、善力、主人、膝胫、无王、爱仆、净誓。
1.1.262
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः ।
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥ १.१.२६२ ॥
巴拉班度、尼拉摩陀、俱睹陀石格、勃利哈德拉、德利什塔俱睹、勃利哈俱睹、迪普塔俱睹与尼拉摩耶。
1.1.263
अविक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः ।
महापुराणसंभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥ १.१.२६३ ॥
阿维克什特、恰帕拉、杜尔达、克里塔槃度、德尔德舍度提、摩诃补罗那桑跋婆耶、普拉提扬迦、帕拉哈与室嘂替。
1.1.264
एते चान्ये च राजानः शतशोऽथ सहस्रशः ।
श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मशः ॥ १.१.२६४ ॥
这些以及其他国王,数以百计、千计;又有其他数百名被提及,还有人以千万计算。
1.1.265
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः ।
राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तरः ॥ १.१.२६५ ॥
这些智慧而大力的国王舍弃了极其丰厚的享乐,在你的儿子们手中大规模地走向死亡。
1.1.266
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।
माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयाऽर्जवम् ॥ १.१.२६६ ॥
他们的行为神圣,勇武与舍弃、伟大、信仰、真实、清净、慈悲与正直俱备。
1.1.267
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः ।
सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ॥ १.१.२६७ ॥
他们在世间被智者、往世书和最优秀的诗人所称颂;虽富有一切繁荣与美德,他们也走向了死亡。
1.1.268
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि ॥ १.१.२६८ ॥
你的儿子们心地邪恶、被愤怒煎熬、贪婪,且大多行为恶劣;你不应为他们悲伤。
1.1.269
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥ १.१.२६९ ॥
你博学、聪慧、有智慧,为智者所敬重;婆罗多啊,智慧遵循经典的人不会迷惑。
1.1.270
निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे ॥ १.१.२७० ॥
人主啊,惩罚与恩赐你都清楚;在保护儿子们时,你不应过分纵容。
1.1.271
भवितव्यं तथा तच्च नानुशोचितुमर्हसि ।
दैवं पुरुषकारेण को निवर्तितुमर्हति ॥ १.१.२७१ ॥
该发生的已经发生,你不应悲伤;谁能用人力扭转天命呢?
1.1.272
विधातृविहितं मार्गं न कश्चिदतिवर्तते ।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥ १.१.२७२ ॥
没有人能越过造物主所定的道路;这一切都以时间为根本——存在与不存在,快乐与痛苦。
1.1.273
कालः सृजति भूतानि कालः संहरते प्रजाः ।
संहरन्तं प्रजाः कालं कालः शमयते पुनः ॥ १.१.२७३ ॥
时间创造众生,时间毁灭众生;而正在毁灭的时间,又会被时间再次平息。
1.1.274
कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान् ।
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ॥ १.१.२७४ ॥
时间改变世间一切吉祥与不吉祥的状态;时间收摄一切众生,然后又将他们再次释放。
1.1.275
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
कालः सर्वेषु भूतेषु चरत्यविधतः समः ॥ १.१.२७५ ॥
时间在沉睡者中醒着;时间确实难以超越。时间平等地行走于一切众生之中,不受任何规定约束。
1.1.276
अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।
तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥ १.१.२७६ ॥
知道过去、未来与现在的一切存在都是由时间所创造的,你不应失去你的心智清明。
1.1.277
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् ।
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा ॥ १.१.२७७ ॥
如此安慰因失子之痛而悲苦的人主持国王持国之后,乘车者(御者)伽伐尔伽那之子便使他恢复了平静。
1.1.278
धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत् ।
दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः ॥ १.१.२७८ ॥
持国王听后也只依靠坚定,他认为这是命运所致,这位智者中的最上者便坚守定力。
1.1.279
लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः ।
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ॥ १.१.२७९ ॥
出于慈悲,为了世间的利益,圣者中的最上者黑·二岛仙在此宣说了这部神圣的奥义书。
1.1.280
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः ।
भारताध्ययनं पुण्यमपि पादमधीयतः।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ १.१.२८० ॥
世间学者所说,诸位最优秀的诗人在往世书中宣示:研习《摩诃婆罗多》是功德之举。若有人怀着信心研读其中哪怕四分之一,他的一切罪过都将被彻底洗净。
1.1.281
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः ।
कीर्त्यन्ते शुमकर्माणस्तथा यक्षा महोरगाः ॥ १.१.२८१ ॥
此处颂扬诸天神、神圣仙人以及无垢的梵仙;行善事的夜叉与大蛇也一并被颂扬。
1.1.282
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥ १.१.२८२ ॥
此处颂扬永恒的世尊婆苏提婆。他正是真理与法则(ṛta),本质清净而具功德。
1.1.283
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् ।
यस्य दिव्यानि कर्माणि कथन्ति मनीषिणः ॥ १.१.२८३ ॥
梵是永恒、至上、坚固、常住之光;智者们述说其神圣的作为。
1.1.284
असत्सत्सदसच्चैव यस्माद्विश्वं प्रवर्तते ।
सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥ १.१.२८४ ॥
宇宙由其而生——非有、有,以及亦有亦非有;延续、活动、生、死与再生,也都由它而来。
1.1.285
अध्यात्मं श्रूयतें यत्र पञ्चभूतगुणात्मकम् ।
अव्यक्तादि परं यच्च स एव परिगीयते ॥ १.१.२८५ ॥
凡在此闻说由五大元素之性所成的内在真理,以及超越未显现者等的至上者,正是他被歌颂。
1.1.286
यं ध्यायन्ति सदा मुक्ता ध्यानयोगबलान्विताः ।
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥ १.१.२८६ ॥
解脱者以禅定瑜伽之力常常冥想他,并看见他安住于自身之中,如同镜中的影像。
1.1.287
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः ।
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥ १.१.२८७ ॥
充满信心、常常自制、常常专注于法的人,若修习此章,便能脱离罪恶。
1.1.288
अनुक्रमणिकाध्यायं भारतस्येममादितः ।
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥ १.१.२८८ ॥
信者若从头不断聆听这章《摩诃婆罗多》目录,便不会在困境中沉沦。
1.1.289
उभे सन्ध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् ।
अनुक्रमण्या यावत्स्यादह्नारात्र्या च संचितम् ॥ १.१.२८९ ॥
于两个黄昏时诵念此目录的一部分,便立即脱离白昼与黑夜所积累的罪过。
1.1.290
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च ।
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥ १.१.२९० ॥
此即《摩诃婆罗多》的身体,是真理与甘露,如同酪中之酥,两足众生中之婆罗门。
1.1.291
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ।
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥ १.१.२९१ ॥
如《森林书》之于吠陀,甘露之于草药,大海之于湖泊,牛之于四足之中,皆为最上。
1.1.292
यथैतानीतिहासानां तथा भारतमुच्यते ।
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ॥ १.१.२९२ ॥
正如这些被称为历史传说,《摩诃婆罗多》也如此被称呼。凡在祭祖(śrāddha)时让婆罗门至少听其中一节者。
1.1.293
अक्षय्यमन्नपानं वै पितृंस्तस्योपतिष्ठते ।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ १.१.२९३ ॥
他的祖先会得到永不匮乏的饮食。应以历史传说与往世书充分扩展吠陀。
1.1.294
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ।
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥ १.१.२९४ ॥
吠陀畏惧学识浅薄者,心想:“此人将超过我。”博学者若使人听闻这部黑天吠陀,便能得到其义。
1.1.295
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम् ।
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि ॥ १.१.२९५ ॥
凡清净者于每一节日诵读此章,无疑也能舍弃如杀胎之类的罪业。
1.1.296
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ।
यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः ॥ १.१.२९६ ॥
我认为,他便等于学完了整部《摩诃婆罗多》。凡怀着信心,常常聆听此部圣仙之作者。
1.1.297
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ।
एकतश्चतुरो वेदा भारतं चैतदेकतः ॥ १.१.२९७ ॥
此人得以长寿、名声与升天之归宿。一边是四吠陀,一边是这部《摩诃婆罗多》。
1.1.298
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम् ।
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा ॥ १.१.२९८ ॥
往昔诸神齐聚,以天平称量,此书竟比四吠陀及其秘义更为沉重。
1.1.299
तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते ।
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम् ॥ १.१.२९९ ॥
自那时起,在世间此书便称为《摩诃婆罗多》,因为它在伟大与分量上被视为更为殊胜。
1.1.300
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ १.१.३०० ॥
因其伟大与分量,此书名为《摩诃婆罗多》。知其词义者,可脱离一切罪业。
1.1.301
तपो नकल्कोऽध्ययनं नकल्कः ।
स्वाभाविको वेदविधिर्नकल्कः।
प्रसह्य वित्ताहरणं नकल्क-
स्तान्येव भावोपहतानि कल्कः ॥ १.१.३०१ ॥
苦行不是污垢,诵习不是污垢,本然的吠陀仪轨不是污垢,以力夺取财富也不是污垢;然而这些事物若被心意所染,便成为污垢。