Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.132

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.132.1

जाते बलवतां श्रेष्ठे पाण्डुश्चिन्तापरोऽभवत् ।
कथमन्यो मम सुतो लोके श्रेष्ठो भवेदिति ॥ १.१३२.१ ॥

最强者中的最优者降生后,般度陷入忧虑:我的另一个儿子怎样才能在世上成为最优秀的人?

1.132.2

दैवे पुरुषकारे च लोकोऽयं संप्रतिष्ठितः ।
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥ १.१३२.२ ॥

此世界建立于命运与人力之上;其中,命运依规则并与时间相合而得。

1.132.3

इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् ।
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥ १.१३२.३ ॥

我们听说因陀罗是诸神之王与首领,拥有无量的力量与气概,威力强大,光辉无边。

1.132.4

तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् ।
यं दास्यति स मे पुत्रं स वीरयान्भविष्यति ॥ १.१३२.४ ॥

我将以苦行使他欢喜,从而得到一个大力的儿子;赐我儿子的那位,其子将与英雄相等。

1.132.5

अमानुषान्मानुषांश्च संग्रामे स हनिष्यति ।
कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥ १.१३२.५ ॥

他将在战场上杀死非人与人类;因此我要以行为、心念与言语,行大苦行。

1.132.6

ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः ।
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥ १.१३२.६ ॥

于是,大王般度与诸大仙商议后,这位俱卢后裔为贡蒂规定了一年的吉祥誓愿。

1.132.7

आत्मना च महाबाहुरेकपादस्थितोऽभवत् ।
उग्रं स तप आस्थाय परमेण समाधिना ॥ १.१३२.७ ॥

大臂者自己单足而立,以至高的三摩地修持猛烈的苦行。

1.132.8

आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् ।
सूर्येण सह धर्मात्मा पर्यतप्यत भारत ॥ १.१३२.८ ॥

他希望取悦那位三十神之主,义心之人与日神一同修行苦行,婆罗多啊。

1.132.9

तं तु कालेन महता वासवः प्रत्यपद्यत ।
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥ १.१३२.९ ॥

经过很长时间,婆薮(因陀罗)现身于他面前,说:“我将赐你一子,名闻三界。”

1.132.10

ब्राह्मणानां गवां चैव सुहृदां चार्थसाधकम् ।
दुर्हृदां शोकजननं सर्वबान्धवनन्दनम् ॥ १.१३२.१० ॥

他将成就婆罗门、牛群与朋友的心愿,使仇敌悲痛,令所有亲族欢喜。

1.132.11

सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ।
इत्युक्तः कारैवो राजा वासवेन महात्मना ॥ १.१३२.११ ॥

“我将赐你一个最优秀的儿子,能摧毁一切敌人。”大人婆薮如此说,于是迦罗伊伐王……

1.132.12

उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ।
उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः ॥ १.१३२.१२ ॥

义心之人回想天王的话,对贡蒂说:“吉祥的人啊,你将获善果;诸神之主对你满意。”

1.132.13

दातुमिच्छति ते पुत्रं यथा संकल्पितं त्वया ।
अतिमानुषकर्माणं यशस्विनमरिन्दमम् ॥ १.१३२.१३ ॥

他愿照你所立的心愿赐你一子:行事超凡,名声显赫,能制服敌人。

1.132.14

नीतिमन्तं महात्मानमादित्यसमतेजसम् ।
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ॥ १.१३२.१४ ॥

明智、心胸广大、光辉与太阳相等、不可战胜、善于行动、external貌极为奇妙。

1.132.15

पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् ।
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥ १.१३२.१५ ॥

美腰的女子啊,生下一子,他是刹帝利光辉的居所;已得天神之主的恩典,纯净笑容的女子啊,召唤他吧。

1.132.16

एवमुक्ता ततः शक्रमाजुहाव यशस्विनी ।
अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥ १.१३२.१६ ॥

她被如此告知后,便呼唤帝释;于是天神之主来到,使阿周那得以诞生。

1.132.17

उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यां ततो दिवा ।
जातस्तु फाल्गुने मासि तेनासौ फल्गुनःस्मृतः ॥ १.१३२.१७ ॥

他于白天出生,在两个乌陀罗(Uttarā)星宿及后来的伏尔古尼(Phalgunī)星宿下,在伐尔古那月;因此人们称他为伐尔古那。

1.132.18

जातमात्रे कुमारे तु सर्वभूतप्रहर्षिणी ।
सूतके वर्तमानां तां वागुवाचाशरीरिणी।
महागम्भीरनिर्घोषा नभो नादयती तदा ॥ १.१३२.१८ ॥

少年刚一出生,一个无形之声便对正在产褥中的她说话,使一切众生欢喜;其深沉洪亮的声音响彻天空。

1.132.19

शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम् ।
कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम् ॥ १.१३२.१९ ॥

当一切众生和居于修行处者听闻时,它向笑容纯净的贡蒂清晰地说道:

1.132.20

कार्तवीर्यसमः कुन्ति शिवतुल्यपराक्रमः ।
एष शक्र इवाजय्यो यशस्ते प्रथयिष्यति ॥ १.१३२.२० ॥

贡蒂啊,他与迦尔塔维利耶相等,勇力如湿婆;如因陀罗般不可战胜,他将传扬你的声名。

1.132.21

अदित्या विष्णुना प्रीतिर्यथाऽभूदभिवर्धिता ।
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥ १.१३२.२१ ॥

正如阿底提因毗湿奴而爱意增长,与毗湿奴相等的阿周那也将增长你的爱。

1.132.22

एष मद्रान्वशे कृत्वा कुरूंश्च सह सोमकैः ।
चेदिकाशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति ॥ १.१३२.२२ ॥

他将征服摩德罗人,并与苏摩迦人一起,征服俱卢人、车底人、迦尸人与卢沙人,承载俱卢族的荣耀。

1.132.23

एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः ।
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥ १.१३२.२३ ॥

凭借他的臂力,在坎达瓦,承载供物的火神将以一切众生的脂肪获得至高的满足。

1.132.24

ग्रामणीश्च महीपालानेष जित्वा महाबलः ।
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥ १.१३२.२४ ॥

这位大力英雄将与兄弟们一起,征服村庄首领与诸王,举行三次弥陀祭。

1.132.25

जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः ।
एष वीर्यवतां श्रेष्ठो भविष्यति महायशाः ॥ १.१३२.२५ ॥

啊,贡蒂,他将与阇摩达格尼相等,其威力如同毗湿奴。他将成为强者中最优秀的,名声远扬。

1.132.26

एष युद्धे महादेवं तोषयिष्यति शङ्करम् ।
अस्त्रं पाशुपतं नाम तस्मात्तुष्टादवाप्स्यति ॥ १.१३२.२६ ॥

他将在战斗中使大神湿婆(商羯罗)欢喜,并从他那里获得名为波舒波多的神兵。

1.132.27

निवातकवचा नाम दैत्या विबुधविद्विषः ।
शक्राज्ञया महाबाहुस्तान्वधिष्यति ते सुतः ॥ १.१३२.२७ ॥

名为尼瓦塔卡瓦恰的阿修罗,乃诸天之敌,你那臂力强大的儿子将奉帝释天之命杀死他们。

1.132.28

तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति ।
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥ १.१३२.२८ ॥

他还将完整地获得所有神兵,并恢复因婆罗门而失去的荣光——此人乃人中之雄牛。

1.132.29

एतामत्यद्भुतां वाचं कुन्ती शुश्राव सूतके ।
वाचमुच्चरितामुच्चैस्तां निशम्य तपस्विनाम् ॥ १.१३२.२९ ॥

在产房中,贡蒂听到了这极其奇妙的话语;她听到苦行者们高声宣说的那番话之后——

1.132.30

बभूव पमो हर्षः शतशृङ्गनिवासिनाम् ।
तथा देवमहर्षीणां सेन्द्राणां च दिवौकसाम् ॥ १.१३२.३० ॥

舍多什林伽山的居民中生起了巨大的欢喜;诸天的大仙以及与因陀罗同在的天神们也同样欢喜。

1.132.31

आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ।
उदतिष्ठन्महाघोरः पुष्पवृष्टिभिरावृतः ॥ १.१३२.३१ ॥

天空中响起了鼓声的喧嚣巨响,极为可怖,伴随着花雨。

1.132.32

समवेत्य च देवानां गणाः पार्थमपूजयन् ।
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा।
प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥ १.१३२.३२ ॥

众天神聚集,礼敬阿周那(Pārtha):迦德卢之子、毗那达之子、乾达婆与阿普萨拉斯,以及所有生主和七位大仙。

1.132.33

भरद्वाजः खस्यपो गौतमश्च ।
विश्वामित्रो जमदग्निर्वसिष्ठः।
यश्चोदितो भास्करेऽभूत्प्रनष्टे ।
सोऽप्यत्रात्रिर्भगवानाजगाम ॥ १.१३२.३३ ॥

婆罗堕阇、迦叶波、乔达摩、毗首弥多罗、阇摩达格尼、伐悉瑟吒;被太阳隐没时所召唤的尊者阿特里也来了。

1.132.34

मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः ।
दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥ १.१३२.३४ ॥

摩利支、安吉罗、补罗斯底、补罗诃、羯都,以及生主达刹;乾达婆与阿普萨拉斯亦然。

1.132.35

दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः ।
उपगायन्ति बीभत्सुं नृत्यन्तेऽप्सरसां गणाः ॥ १.१३२.३५ ॥

身披天上的花环与衣裳,佩戴一切饰物,他们歌颂毗跋蹉(阿周那),阿普萨拉斯的群队翩翩起舞。

1.132.36

तथा महर्षयश्चापि जेपुस्तत्र समन्ततः ।
गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ॥ १.१३२.३६ ॥

大仙们也在四周低声诵咒,光荣的吞武卢与乾达婆们一同高声歌唱。

1.132.37

भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा ।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चास्तथाष्टमः ॥ १.१३२.३७ ॥

薄伽森那、乌格罗森那、乌尔那优、阿那伽、戈帕提、持国,以及第八位日光。

1.132.38

युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा ।
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥ १.१३२.३८ ॥

瑜伽波、特里那波、迦尔诗尼、难提与旃陀罗罗陀;第十三位沙利希罗斯,第十四位波罗遮尼耶。

1.132.39

कलिः पञ्चदशश्चैव नारदश्चात्र षोडशः ।
ऋत्वा बृहत्त्वा बृहकः करालश्च महामनाः ॥ १.१३२.३९ ॥

第十五位迦利,第十六位那罗陀;利特瓦、布利哈特瓦、布利哈卡、羯罗罗,以及大心者。

1.132.40

ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः ।
विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा ॥ १.१३२.४० ॥

梵行者,德行圆满,名为苏跋那;另有毗奢婆苏、布满尤、苏旃陀罗与沙卢。

1.132.41

गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू ।
इत्येते देवगन्धर्वा जग्मुस्तत्र नराधिप ॥ १.१३२.४१ ॥

以歌声之甘美而著名的哈哈与呼呼;如此,这些天界乾达婆,哦人主,前往那里。

1.132.42

तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः ।
ननृतुर्वै महाभागा जगुश्चायतलोचनाः ॥ १.१३२.४२ ॥

同样,欢喜的天女们,以一切璎珞庄严,诸大福德者跳舞;眼睛细长者歌唱。

1.132.43

अनूचानाऽनवद्या च गुणमुख्या गुणावरा ।
अद्रिका च तथा सोमा मिश्रकेशी त्वलम्बुषा ॥ १.१३२.४३ ॥

阿努恰娜与无瑕者,德行最上者与德行稍逊者,阿德里迦与苏摩,米什拉凯希与阿兰布沙。

1.132.44

मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा ।
अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥ १.१३२.४४ ॥

摩利其与舒其迦,电叶与提罗多摩,安毗迦、拉克沙那、克谢玛,天女兰跋与摩诺罗摩。

1.132.45

असिता च सुबाहुश्च सुप्रिया च वपुस्तथा ।
पुण्डरीका सुगन्धा च सुरसा च प्रमाथिनी ॥ १.१३२.४५ ॥

阿希塔与苏跋忽,苏普利雅与伐普斯,芬陀利迦,苏干陀,苏罗娑与普拉玛提尼。

1.132.46

काम्या शारद्वती चैव ननृतुस्तत्र संघशः ।
मेनका सहजन्या च कर्णिका पुञ्जिकस्थला ॥ १.१३२.४६ ॥

迦阍雅与舍罗德瓦蒂也在那里成群起舞:梅那迦、萨哈詹雅、羯尔尼迦与旃吉迦斯陀罗。

1.132.47

ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि ।
उम्लोचेति च विख्याता प्रम्लोचेति च ता दश ॥ १.१३२.४७ ॥

律斯陀罗、酥陀其、毗湿婆其、普尔瓦其提,以及以乌姆洛迦与普拉姆洛迦而闻名者——这十位。

1.132.48

उर्वश्येकादशी तासां जगुश्चायतलोचनाः ।
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ॥ १.१३२.४८ ॥

乌尔瓦希是她们中的第十一位,长眼的天女们歌唱;还有达多、阿利耶曼、密多罗、伐楼那、阿姆沙与婆伽。

1.132.49

इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ १.१३२.४९ ॥

因陀罗、毗婆娑 、补沙与帕尔詹亚被称为第十位。其次是特瓦湿多,其次是毗湿奴——他并非最末,却最后诞生。

1.132.50

इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः ॥ १.१३२.५० ॥

如是,此十二阿迭多,闪耀着太阳般的光辉。

1.132.51

मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी च परंतप ॥ १.१३२.५१ ॥

猎人(mṛgavyādha)与蛇(sarpa),以及大名的涅哩提;独足(Ajaikapād)、蛇底(Ahirbudhnya)与持弓者(Pinākin)也在其中——啊,敌人的焚烧者。

1.132.52

दहनोऽथेश्वरश्चैव कपाली च विशांपते ।
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥ १.१३२.५२ ॥

达诃那,其次自在天与髑髅者(Kapālin),啊,人主;稳固者、薄伽(Bhaga)与世尊——诸楼陀罗便站立在那里。

1.132.53

अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः ।
विश्वेदेवास्तथा साध्यास्तत्रासन्परितः स्थिताः ॥ १.१३२.५३ ॥

双马童、八婆苏、大力的摩录多、诸世界神与萨底耶——他们在那里环绕而立。

1.132.54

कर्कोटकोऽथ सर्पश्च वासुकिश्च भुजङ्गमः ।
कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः ॥ १.१३२.५४ ॥

迦尔科塔迦,其次是蛇(sarpa),以及蛇王婆修吉;迦奢卜、其次是昆陀,以及大蛇德叉迦。

1.132.55

आययुस्तपसा युक्ता महाक्रोधा महाबलाः ।
एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ॥ १.१३२.५५ ॥

他们以苦行为德,怀有大怒、拥有大力,前来了;这些以及其他许多蛇众都在那里站立聚集。

1.132.56

तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः ।
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥ १.१३२.५६ ॥

塔尔克希耶、阿里什塔奈弥、迦楼罗、阿希塔德瓦dhvaja、阿如那与阿如尼——毗那多之子——在那里站立聚集。

1.132.57

तांश्च देवगणान्सर्वांस्तपःसिद्धा महर्षयः ।
विमानगिर्यग्रगतान्ददृशुर्नेतरे जनाः ॥ १.१३२.५७ ॥

那些乘着天车、行于山巅的诸天神众,都被以苦行成就的大仙们看见了;其他人则没有看见。

1.132.58

तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः ।
अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवं प्रति ॥ १.१३२.५८ ॥

诸位最好的仙人见到这大奇迹,惊讶不已,于是对般度表现出更多的关切与敬意。

1.132.59

पाण्डुः प्रीतेन मनसा देवतादीनपूजयत् ।
पाण्डुना पूजिता देवाः प्रत्यूचुर्नरसत्तमम् ॥ १.१३२.५९ ॥

般度心怀喜悦,供养诸天神及其他众神;受到般度供养的诸神,便回答那位人中最上者。

1.132.60

प्रादुर्बूतो ह्ययं धर्मो देवतानां प्रसादतः ।
मातरिश्वा ह्ययं भीमो बलवानरिमर्दनः ॥ १.१३२.६० ॥

此人乃法(Dharma),由诸神的恩德而显现;而这位有力的、摧伏敌人的毗摩(Bhīma),即是风神摩多利溪婆(Mātariśvan)。

1.132.61

साक्षादिन्द्रः स्वयं जातः प्रसादाच्च शतक्रतोः ।
पितृत्वाद्देवतानां हि नास्ति पुण्यतरस्त्वया ॥ १.१३२.६१ ॥

因舍达克拉图的恩典,因陀罗亲自降生;因你为诸神之父,无人比你更有功德。

1.132.62

पितॄणामृणनिर्मुक्तः स्वर्गं प्राप्स्यसि पुण्यभाक् ।
इत्युक्त्वा देवताः सर्वा विप्रजग्मुर्यथागतम् ॥ १.१३२.६२ ॥

你将脱离对祖先的债务,分享功德,获得天界。说完这些,诸神便依原路离去了。

1.132.63

पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः ।
प्रादिशद्दर्शनीयार्थी कुन्ती त्वेनमथाब्रवीत् ॥ १.१३२.६३ ॥

然而大名鼎鼎的般度因渴望子嗣、希望得到美好的后代,再次催促她;于是贡提对他说道。

1.132.64

नातश्चतुर्थं प्रसवमापस्त्वपि वदन्त्युत ।
अतःपरं स्वैरिणी स्याद्बन्धकी पञ्चमे भवेत् ॥ १.१३२.६४ ॥

学者也说,此后不再有第四次生育;再超过此数,她将成为放荡之女,而在第五次时则成为妓女。

1.132.65

स त्वं विद्वन्धर्ममिममधिगम्य कथं नु माम् ।
अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ॥ १.१३२.६५ ॥

你是有学识的人,知晓此法,为了子嗣却逾越礼法,怎会像出于疏忽一般对我说话?