Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.140

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.140.1

कृपस्यापि मम ब्रह्मन्संभवं वक्तुमर्हसि ।
शरस्तम्बात्कथं जज्ञे कथं वाऽस्त्राण्यवाप्तवान् ॥ १.१४०.१ ॥

婆罗门啊,你也应当告诉我克里帕的出生。他如何从一丛芦苇中诞生,又如何获得了兵器?

1.140.2

महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः ।
पुत्रः किल महाराज जातः सहशरैर्विभो ॥ १.१४०.२ ॥

大仙人乔答摩有一个儿子,名叫沙罗陀凡·乔答摩。伟大的君王啊,伟大的主啊,他确实是带着箭出生的。

1.140.3

न तस्य वेदाध्ययने तथा बुद्धिरजायत ।
यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ॥ १.१४०.३ ॥

他的心思在学习吠陀上并不如在弓箭之术上那样专注。摧敌者啊!

1.140.4

अधिजग्मुर्यथा वेदास्तपसा ब्रह्मचारिणः ।
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥ १.१४०.४ ॥

正如梵行学童以苦行获得吠陀,他也以苦行具足,获得了所有的兵器。

1.140.5

धनुर्वेदपरत्वाच्च तपसा विपुलेन च ।
भृशं सन्तापयामास देवराजं स गौतमः ॥ १.१४०.५ ॥

由于专心于弓箭之术以及巨大的苦行,那位乔答摩使诸神之王极为忧烦。

1.140.6

ततो जालवतीं नाम देवकन्यां सुरेश्वरः ।
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥ १.१४०.६ ॥

于是诸神之主派遣名叫阇罗跋提的天女,说:“去阻碍他的苦行吧。”俱卢之子啊。

1.140.7

सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः ।
धनुर्बाणधरं बाला लोभयामास गौतमम् ॥ १.१४०.७ ॥

她来到舍罗陀多那可爱的修行处,诱惑了手持弓箭的乔达摩。

1.140.8

तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने ।
लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत् ॥ १.१४०.८ ॥

乔达摩在林中见到这位只着一件衣裳、世间无双容貌的天女,双眼顿时睁得大大的。

1.140.9

धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि ।
वेपथुश्चास्य सहसा शरीरे समजायत ॥ १.१४०.९ ॥

他的弓与箭从手中滑落,坠于地上,身体也突然颤抖起来。

1.140.10

स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात् ।
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥ १.१४०.१० ॥

然而这位大智者,凭借其知识的深重与苦行的力量,以至高的定力屹然挺立。

1.140.11

यस्तस्य सहसा राजन्विकारः समदृश्यत ।
तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत ॥ १.१४०.११ ॥

国王啊,他内心突然生起的那种躁动,使他的精液流出,而他竟毫无察觉。

1.140.12

धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च ।
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः ॥ १.१४०.१२ ॥

舍弃弓与箭,也舍弃黑鹿皮,那位仙人离开了那处修行处,也抛下了那位天女,转身而去。

1.140.13

जगाम रेतस्तत्तस्य शरस्तम्बे पपात च ।
शरस्तम्बे च पतितं द्विधा तदभवन्नृप ॥ १.१४०.१३ ॥

他的精液流出,落在箭草丛上;落在箭草丛上的那物分成了两半,大王。

1.140.14

तस्याथ मिथुं जज्ञे गौतमस्य शरद्वतः ।
महर्षेर्गौतमस्यास्य ह्याश्रमस्य समीपतः
मृगयां चरतो राज्ञः शान्तनोस्तु यदृच्छया ॥ १.१४०.१४ ॥

随后,从他那里为大仙人高答摩之子沙罗陀婆生出了一对孪生子。在大仙人高答摩的这座修行处附近,国王商陀努偶然出猎而来。

1.140.15

कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ।
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च ॥ १.१४०.१५ ॥

在森林中,一名士兵看见了那对孪生子。看见了带箭的弓,以及黑羚羊皮,[他明白了]。

1.140.16

ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह ।
स राज्ञे दर्शयामास मिथुनं सशरं धनुः ॥ १.१४०.१६ ॥

他得知这对孪生子是精通射箭之学的婆罗门之后,便将这对孪生子以及带箭的弓展示给国王。

1.140.17

स तदादाय मिथुनं राजा च कृपयान्वितः ।
आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥ १.१४०.१७ ॥

国王带着这对孪生子,满怀怜悯,回到自己的宫中,说道:"这是我的儿子。"

1.140.18

ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् ।
प्रातिपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत् ॥ १.१४०.१८ ॥

于是,这位人中最优秀的普拉提贝耶(商陀努)抚养了高答摩的这对孪生子,并为他们举行了各种礼仪。

1.140.19

कृपया यन्मया बालाविमौ संवर्धिताविति ।
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः।
तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत् ॥ १.१४०.१९ ॥

我出于怜悯抚养了这两个孩子;因此那位君主为他们两人取了同一个名字。于是他以克里帕之名闻名,那少女则名为克里皮。

1.140.20

पितापि गौतमस्तत्र तपसा ताववन्दित ।
आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥ १.१४०.२० ॥

父亲乔达摩也在那里以苦行尊敬了他们;他前来,把自己的氏族等一切都告诉了他们。

1.140.21

कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत् ।
चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च ॥ १.१४०.२१ ॥

国王啊,那时克里帕也专注于弓术,专注于四种弓术和各种论著。

1.140.22

निशिलेनास्य तत्सर्वं गुह्यमाख्यातवान्पिता ।
सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥ १.१४०.२२ ॥

父亲将那一切秘传之学完整地教给了他。他很快便在适当的时候,达到了最高的师范境界。

1.140.23

कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन् ।
पौत्रान्परिसमाधाय कृपमाराधयत्तदा ॥ १.१४०.२३ ॥

恒河之子毗湿摩召来克里帕,说:“这些是你的弟子。”他将孙子们完全托付给他,随后尊敬克里帕。

1.140.24

ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः ।
धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः ॥ १.१४०.२४ ॥

于是那些大车战士们都去学习弓术——持国之子和般度五子,也与雅达瓦族一同前往。

1.140.25

वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ।
कृपमाचार्यमासाद्य परमास्त्रज्ञतां गतः।
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया ॥ १.१४०.२५ ॥

伐利士尼族、其他诸王以及从各地前来的人,前往导师克里帕处,获得了至高武器的精通。于是毗湿摩希望孙辈得到特别的训练,

1.140.26

इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ।
नाल्पधीर्नामहाभागस्तथा नानस्त्रकोविदः ॥ १.१४०.२६ ॥

他询问那些精通弓箭武器、以勇武受人尊敬的导师。他既不是才智低下之人,也不是缺乏大福之人,更不是不擅长武器之人。

1.140.27

नादेवसत्वो विनयेत्कुरूनस्त्रे महावलान् ।
इति संचिन्त्य गाङ्गेयस्तदा भरतसत्तमः ॥ १.१४०.२७ ॥

不具神性之人不会教导强大的俱卢族武艺。毗湿摩(恒河之子),婆罗多族中最优秀者,如此思量之后,便

1.140.28

द्रोणाय वेदविदुषे भारद्वाजाय धमते ।
पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ ॥ १.१४०.२८ ॥

他将帕尔斯与俱卢族的子弟交给精通吠陀、技艺纯熟的婆罗堕遮之子德罗纳作弟子,啊,人中之牛。

1.140.29

शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना ।
स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः ॥ १.१४०.२९ ॥

按照经典,他受到了这位伟大心灵的毗湿摩的恰当尊敬,那位大福之人、精通武器者中的最优秀者感到满意。

1.140.30

प्रतिजग्राह तान्सर्वाञ्शिष्यत्वेन महायशाः ।
शिक्षयामास च द्रोणो धनुर्वेदमशेषतः ॥ १.१४०.३० ॥

声名显赫的德罗纳接受了他们所有人作为弟子,并完整地教授了弓箭之学。

1.140.31

तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः ।
बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः ॥ १.१४०.३१ ॥

大王啊,不久之后,考拉瓦和无量威力的般度之子都成为了精通一切兵器的人。

1.140.32

कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान् ।
कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान् ॥ १.१४०.३२ ॥

婆罗门啊,德罗纳是如何出生的?他如何获得武器?那位英雄如何来到俱卢族之中?他是谁的儿子?

1.140.33

कथं चास्य सुतो जातः सोश्वत्थामाऽस्त्रवित्तमः ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय ॥ १.१४०.३३ ॥

他的儿子马事者,即精通武艺的阿什瓦塔曼,是如何出生的?我希望详细听闻,请你讲述。

1.140.34

गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः ।
भरद्वाज इति ख्यातः सततं संशितव्रतः ॥ १.१४०.३४ ॥

在恒河门附近,住着一位伟大而受人敬重的仙人,名叫跋罗堕遮,始终坚守严格的誓愿。

1.140.35

सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् ।
महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा ॥ १.१४०.३५ ॥

他前往恒河沐浴,而恒河女神早已先他到达。跋罗堕遮先前曾与大仙们在祭供之所哈维尔达那游行,如今也来到了那里。

1.140.36

ददर्शाप्सरसं साक्षाद्धृताचीमाप्लुतामृषिः ।
रूपयौवनसंपन्नां मददृप्तां मदालसाम् ॥ १.१४०.३६ ॥

仙人亲眼看见沐浴中的天女妙光(Ghṛtācī),她容貌青春,因醉意而骄傲、因醉意而慵懒。

1.140.37

तस्या वायुर्नदीतीर वसनं पर्यवर्तत ।
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥ १.१४०.३७ ॥

在河岸上,风吹开了她的衣裳。仙人见她衣衫滑落,便生了欲念。

1.140.38

तत्र संसक्तमनसो भरद्वाजस्य धीमतः ।
हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ १.१४०.३८ ॥

智慧的婆罗堕遂心神沉醉,兴奋之中精液泄出;仙人便将其置于一个名为“德罗那”的器皿中。

1.140.39

ततः समभवद्द्रोणः कलशे तस्य धीमतः ।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥ १.१४०.३९ ॥

随后,德罗那诞生于那位智者的器皿之中,他全部学习了诸吠陀与吠陀支分。

1.140.40

अग्नेरस्त्रमुपादाय यदृषिर्वेद काश्यपः ।
अध्यगच्छद्भरद्वाजस्तदस्त्रं देवकार्यतः ॥ १.१४०.४० ॥

婆罗堕从迦叶仙人所知的火神之箭中领受并学会了此神兵,为了诸神的使命。

1.140.41

अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् ।
प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः ॥ १.१४०.४१ ॥

精通兵器的最优者、威严的婆罗堕,将火神之箭传授给了大福的阿耆尼韦什亚。

1.140.42

कनिष्ठजातं स मुनिर्भ्राता भ्रातरमन्तिके ।
अग्निवेश्यस्तथा द्रोणं तदा भरतसत्तम।
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥ १.१४०.४२ ॥

那位仙人阿耆尼韦什亚把弟弟德罗那叫到身边,婆罗多中的最优者啊,同样将大火神之箭传授给了婆罗堕之子德罗那。

1.140.43

भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः ।
तस्यापि द्रुपदो नाम तथा समभवत्सुतः ॥ १.१४०.४३ ॥

国王补瑟多是婆罗堕遮的朋友。他也有一个名叫德鲁帕达的儿子。

1.140.44

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः ।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥ १.१४०.४४ ॥

这位刹帝利中的雄牛国王,每天与德罗纳一同前往修行处,嬉戏并学习。

1.140.45

ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् ।
पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥ १.१४०.४५ ॥

此后,补瑟多去世,德鲁帕达成为北方般遮罗的大臂人主。

1.140.46

भरद्वाजोऽपि भगवानारुरोह दिवं तदा ।
तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः ॥ १.१४०.४६ ॥

那时,尊敬的婆罗堕遮也升天了。德罗纳便住在那里,这位大苦行者修行苦行。

1.140.47

वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः ।
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ॥ १.१४०.४७ ॥

他通晓吠陀及其支分,以苦行烧尽罪恶;随后受祖先的驱使,因渴望有子,成为大名声者。

1.140.48

शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत ।
अग्निहोत्रे च धर्मे च दमे च सतत रताम् ॥ १.१४०.४८ ॥

此后德罗纳娶了舍罗陀婆多之女俱卑为妻,她始终专注于火祭、法与克制。

1.140.49

अलभद्गौतमी पुत्रमश्वत्थामानमेव च ।
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः ॥ १.१४०.४९ ॥

瞿答弥生下一子,名为阿湿婆陀摩。他一出生便像神马乌遮陀娑那样高声嘶鸣。

1.140.50

तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ।
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् ॥ १.१४०.५० ॥

一位隐于虚空的生灵听闻此声,说道:"此子的力量,如马嘶之声传遍四方……

1.140.51

अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ।
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् ॥ १.१४०.५१ ॥

"此子必以阿湿婆陀摩之名而闻名。"因有此子而甚喜悦的婆罗堕遂(德罗纳)便成为婆罗堕遂之子的父亲。

1.140.52

तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ।
स शुश्राव महात्मानं जामदग्न्यं परंतपम् ॥ १.१४०.५२ ॥

他居留于彼处,专研弓术之学。他听闻了那位伟大的、能焚烧敌人的阇摩达格尼(持斧罗摩)。

1.140.53

सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम् ।
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥ १.१४०.५३ ॥

那位通晓一切知识、持一切兵器中最为殊胜的婆罗门,于彼时,大王,欲以财富尽力布施给婆罗门。

1.140.54

स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह ।
श्रउत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च ॥ १.१४०.५४ ॥

他听闻罗摩的弓术之学与神圣兵器,便将心意专注于其上;同样,也专注于政治之学。

1.140.55

ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः ।
वृतः प्रायान्महावाहुर्महेन्द्रं पर्वतोत्तमम् ॥ १.१४०.५५ ॥

于是这位大苦行者、大臂者,被持戒修苦行的弟子们围绕,前往最好的山——摩亨陀罗山。

1.140.56

ततो महेन्द्रमासाद्य भारद्वाजो महातपाः ।
क्षत्रघ्नं तममित्रघ्नमपश्यद्भृगुनन्दनम् ॥ १.१४०.५६ ॥

于是大苦行者婆罗堕遂到达摩亨陀罗山,看见了那位灭杀刹帝利、摧毁敌人的婆利古之子。

1.140.57

ततो द्रोणो वृतः शिष्यैरुपगम्य भृगूद्वहम् ।
आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले ॥ १.१४०.५७ ॥

于是德罗纳被弟子们围绕,走到婆利古家族的首领面前,说出自己的名字,以及他在安吉罗娑家族中的出生。

1.140.58

निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत् ।
ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा ॥ १.१४०.५८ ॥

他低头至地,向他的双足行礼;然后舍弃一切,那时想要前往森林的他……

1.140.59

जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम् ।
भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम् ॥ १.१४०.५९ ॥

婆罗堕对伟大的婆摩达尼耶说:“正如你是从婆罗堕所生,我这非胎生之人……”

1.140.60

आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम ।
तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः ॥ १.१४०.६० ॥

“最好的再生者啊,请知道我是德罗纳,因渴求财富而来。”那位摧伏一切刹帝利的大德便对他说……

1.140.61

स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे ।
एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः ॥ १.१४०.६१ ॥

欢迎你,二生者中最优秀的人;你想要什么,就告诉我。罗摩这样说后,跋罗堕遮之子说了这些话。

1.140.62

रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु ।
अहं धनमनन्तं हि प्रार्थये विपुलव्रत ॥ १.१४०.६२ ॥

战士中最优秀的罗摩准备施与各种财富。我请求无尽的财富,大誓者啊。

1.140.63

हिरण्यं मम यच्चान्यद्वसु किंचिदिह स्थितम् ।
ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन ॥ १.१४०.६३ ॥

这里剩下的黄金和其他一切财富,我都已经施给了婆罗门,苦行的富者啊。

1.140.64

तथैवेयं धरा देवी सागरान्ता सपत्तना ।
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥ १.१४०.६४ ॥

同样,这位大地女神,直到大海为界,与她的诸妃一起,以城市为饰,我已将她整个赠予迦叶波。

1.140.65

शरीरमात्रमेवाद्य ममेदमवशेषितम् ।
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ॥ १.१४०.६५ ॥

今天我所剩下的,只有这身体,以及极其珍贵的神箭和各种兵器。

1.140.66

अस्त्राणि वा शरीरं वा ब्रह्मञ्शस्त्राणि वा पुनः ।
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥ १.१४०.६६ ॥

婆罗门啊,请选择:神箭,或这身体,或兵器。我该给你什么?德罗纳,快说吧。

1.140.67

अस्त्राणि मे समग्राणि ससंहाराणि भार्गव ।
स प्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥ १.१४०.६७ ॥

婆迦婆啊,你应当将完整的兵器,连同收回的咒语与其使用的秘诀,全部传授给我。

1.140.68

एतद्वसु वसूनां हि सर्वेषां विप्रसत्तम ।
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः।
सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥ १.१४०.६८ ॥

婆罗门中最尊贵者啊,这确实是诸婆薮中最大的财富。婆迦婆说“就这样吧”,随即将兵器以及弓箭之学连同其秘密的修持法则,全部传授给了他。

1.140.69

प्रतिगृह्य तु तत्सर्वं कृतास्त्रे द्विजसत्तमः ।
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥ १.१४०.६९ ॥

他领受了这一切,成为精通兵器之人,满心欢喜地前往他亲爱的朋友德鲁帕达那里。