Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.149

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.149.1

द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा ।
क्षात्रेण वै बलेनास्य नाऽशशंसे पराजयम् ॥ १.१४९.१ ॥

德罗纳之仇萦绕于心,德鲁波陀当时不能入睡。他凭借刹帝利之力,不肯承认自己的失败。

1.149.2

हीनं विदित्वा चात्मानं ब्राह्मेणापि बलेन च ।
द्रुपदोऽमर्षणाद्राजा कर्मसिद्धान्द्विजोत्तमान् ॥ १.१४९.२ ॥

德鲁波陀王知道自己即使在婆罗门之力上也不如人,因愤怒而去寻找精通祭仪的最优秀再生族。

1.149.3

अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ।
नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति च ब्रुवन् ॥ १.१४९.३ ॥

他四处寻访众多婆罗门的住所,说道:“我的子嗣中没有一个值得称道的;亲族可耻!”

1.149.4

निश्वासपरमो ह्यासीद्द्रोणं प्रतिचिकीर्षया ।
न सन्ति मम मित्राणि लोकेऽस्मिन्नास्ति वीर्यवान् ॥ १.१४९.४ ॥

他终日叹息,想要报复德罗纳,说道:“这世上我没有朋友,也没有勇武之人。”

1.149.5

पुत्रजन्म परीप्सन्वै पृथिवीमन्वयादिमाम् ।
प्रभावशिक्षाविनयाद्द्रोणस्यास्त्रबलेन च ॥ १.१४९.५ ॥

为求得子嗣,他遍历这大地,因德罗纳的威力、教导、谦逊与武器之力。

1.149.6

कर्तुं प्रयतमानो वै न शशाक पराजयम् ।
अभितः सोऽथ कल्माषीं गङ्गातीरे परिभ्रमन् ॥ १.१४९.६ ॥

他虽竭力努力,却未能取胜。于是他在恒河岸边,绕着那斑点之地四处漫游。

1.149.7

ब्राह्मणावसथं पुण्यमाससाद महीपतिः ।
तत्र नास्नातकः कश्चिन्न चासीदव्रतो द्विजः ॥ १.१४९.७ ॥

国王到达了婆罗门神圣的住所。那里没有一个未完成学业的人,也没有一位没有誓戒的再生族。

1.149.8

तथैव तौ महाभागौ सोऽपश्यच्छंसितव्रतौ ।
याजोपयाजौ ब्रह्मर्षी भ्रातरौ पृषतात्मजः ॥ १.१४९.८ ॥

同样,他看见了那两位大福德者、因誓戒而受赞扬的梵仙兄弟——耶贾与奥帕耶贾,即补利沙塔之子。

1.149.9

संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ।
अरण्ये युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ ॥ १.१४९.९ ॥

专心研习本集,属迦叶氏族,住在森林中,仪容端正——那两位婆罗门是仙人中的最优者。

1.149.10

स उपामन्त्रयामास सर्वकामैरतन्द्रितः ।
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे ॥ १.१४९.१० ॥

他以一切所欲之物,不知疲倦地恭敬地招呼他们。了解了二人的力量与心志之后,他在僻静处接近了那位年幼者。

1.149.11

प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ।
गुरुशुश्रूषणे युक्तः प्रियकृत्सर्वकामदम् ॥ १.१४९.११ ॥

他想以礼物讨好,便投靠了坚守誓戒的奥帕耶贾。他专心侍奉师长,做令人欢喜之事,成为能满足一切愿望的人。

1.149.12

पाद्येनासनदानेन तथाऽर्घ्येण फलैश्च तम् ।
अर्हयित्वा यथान्यायमुपयाजोऽब्रवीत्ततः ॥ १.१४९.१२ ॥

他依照规矩,以洗足水、奉上座位、敬水和果物恭敬地款待了他之后,奥帕耶贾便说道。

1.149.13

येन कार्यविशेषेण त्वमस्मानभिकाङ्क्षसे ।
कृतश्चायं समुद्योगस्तद्ब्रवीतु भवानिति ॥ १.१४९.१३ ॥

请您说明您为何特别需要我们,以及这番努力是为了什么。

1.149.14

स बुद्ध्वा प्रीतिसंयुक्तमृषीणामुत्तमं तदा ।
उवाच छन्दयन्कामैर्द्रुपदः स तपस्विनम् ॥ १.१४९.१४ ॥

德鲁帕达得知这位最优秀的仙人充满慈爱,便以所欲之物使他欢喜,于是对那位苦行者说道。

1.149.15

येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्येव ।
उपयाज चरस्वैतत्प्रदास्यामि धनं तव ॥ १.१४९.१५ ॥

婆罗门啊,只要通过某种祭祀能使我生下为杀死德罗纳的儿子,优婆耶阇啊,请你去做;我将送你财富。

1.149.16

नाहं फलार्थी द्रुपद योऽर्थी स्यात्तत्र गम्यताम् ।
प्रत्याख्यातस्तु तेनैवं स वै सज्जनसंनिधौ ॥ १.१४९.१६ ॥

德鲁帕达,我不求回报;想要的人请到那边去。他就这样在善人面前被拒绝了。

1.149.17

आराधयिष्यन्द्रुपदः स तं पर्यचरत्तदा ।
ततः संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः ॥ १.१४९.१७ ॥

德鲁帕达想要使他欢喜,便开始侍奉他。过了一年之后,这位最优秀的再生者来到了德鲁帕达那里。

1.149.18

उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा ।
ज्येष्ठो भ्राता न मेऽत्याक्षीद्विचरन्विजने वने ॥ १.१४९.१८ ॥

优婆耶阇在恰当的时候以温柔的声音说道:“我在荒僻的森林里漂泊时,我的兄长并没有抛弃我。”

1.149.19

अपरिज्ञातशौचायां भूमौ निपतितं फलम् ।
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् ॥ १.१४९.१९ ॥

在不知洁净与否的地上,我看见兄长不当地拾起了落下的果实。

1.149.20

विमर्शं हि फलादाने नायं कुर्यात्कथंचन ।
नापश्यत्फलं दृष्ट्वा दोषांस्तस्याऽऽनुबन्धिकान् ॥ १.१४९.२० ॥

取果之时,人绝不可不加思虑而行;见到果实,他却没有看到随之而来的过失。

1.149.21

विविनक्ति न शौचार्थी सोऽन्यत्रापि कथं भवेत् ।
संहिताध्ययनस्यान्ते पञ्चयज्ञान्निरूप्य च ॥ १.१४९.२१ ॥

求净之人不作分辨;那么他在别处又怎会如此?即便在诵习《本集》之末阐明了五祭之后。

1.149.22

भैक्षमुञ्छेन सहितं भुञ्जानस्तु तदा तदा ।
कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः ॥ १.१४९.२२ ॥

他以乞食与拾取之谷共食,王仙啊,每次都一再赞叹食物的滋味。

1.149.23

संहिताध्ययनं कुर्वन्वने गुरुकुले वसन् ।
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तथा ॥ १.१४९.२३ ॥

住在林中师门,诵习《本集》,他总是这样吃别人乞食的剩余。

1.149.24

कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः ।
एवं फलार्थिनस्त्समान्मन्येऽहं तर्कचक्षुषा ॥ १.१४९.२४ ॥

赞叹食物的美德,一再欢喜——如此,我以理性之眼看待你们这些求取果实的人。

1.149.25

तं वै गच्छेह नृपते त्वां स संयाजयिष्यति ॥ १.१४९.२५ ॥

国王啊,你去见他吧,他会为你主持祭祀。

1.149.26

उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात् ।
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ॥ १.१४९.२६ ॥

国王听了优波耶阇的话,便前往耶阇的隐修处,心中思量此事,并自责不已。

1.149.27

भृशं संपूज्य पूजार्हमृषिं याजमुवाच ह ।
गोशतानि ददान्यष्टौ याज याजय मां विभो ॥ १.१४९.२७ ॥

他极其恭敬地对值得礼敬的仙人耶阇说道:"耶阇啊,我将献上八百头牛;尊者啊,请为我主持祭祀吧。"

1.149.28

द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम् ।
ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत् ॥ १.१४९.२८ ॥

在与德罗纳的仇恨中备受煎熬、沮丧、前来寻求庇护的我,被一名仅有婆罗门之名的人所煽动,刹帝利不应击败刹帝利。

1.149.29

तस्माद्द्रोणभयार्तं मां भवांस्त्रातुमिहार्हति ।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ॥ १.१४९.२९ ॥

因此,你理应在此保护被德罗纳之惧折磨的我。婆罗门啊,请以那种仪式,使我为了德罗纳之死而得子。

1.149.30

अर्जुनस्यापि वै भार्या भवेद्या वरवर्णिनी ।
स हि ब्रह्मविदां श्रेष्ठो ब्राह्मे क्षात्रेऽप्यनुत्तमः ॥ १.१४९.३० ॥

阿周那的妻子也将肤色美丽;他是梵知者中的最优秀者,无论在婆罗门学问还是刹帝利武艺上都无人能及。

1.149.31

ततो द्रोणस्तु माऽजैषीत्सखिविग्रहकारणात् ।
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः ॥ १.१४९.३१ ॥

于是德罗纳因与其友人的争端而击败了他。大地上没有与他相等的刹帝利;他是最杰出者。

1.149.32

भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः ।
द्रोणस्य शरजालानि रिपुदेहहराणि च ॥ १.१४९.३२ ॥

智者婆罗堕遮之子、婆罗多族的首席导师德罗纳的箭网,以及夺取敌人身体的武器。

1.149.33

षडरत्नि धनुश्चास्य खड्गमप्रतिम तथा ।
स हि ब्राह्मणवेषेण क्षात्रं वेगमसंशयम् ॥ १.१४९.३३ ॥

他的弓长六肘,他的剑无与伦比。虽然以婆罗门的模样出现,他无疑具有刹帝利的威势。

1.149.34

प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ।
कार्तवीर्यसमो ह्येष खट्वाङ्गप्रतिमो रणे ॥ १.१४९.३४ ॥

伟大的弓箭手、大心的婆罗堕遮(德罗纳)在战斗中反击。他与迦尔塔维利耶相当,在战争中如哈特万伽。

1.149.35

क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ॥ १.१४९.३५ ॥

他如同被指定铲除刹帝利阶层的嚓玛达耆尼之子(持斧罗摩)那样屹立。

1.149.36

सहितं क्षत्रवेगेन ब्रह्मवेगेन सांप्रतम् ।
उपपन्नं हि मन्येऽहं भारद्वाजं यशस्विनम् ॥ १.१४९.३६ ॥

我认为,兼具刹帝利之威与婆罗门之力的荣耀的婆罗堕遮,如今正相称。

1.149.37

नेषवस्तमपाकुर्युर्न च प्रासा न चासयः ।
ब्राह्मं तस्य महातेजो मन्त्राहुतिहुतं यथा ॥ १.१४९.३७ ॥

箭矢不能推开他,长矛与利剑也不能;他伟大的婆罗门光辉如同以咒语供奉之祭火。

1.149.38

तस्य ह्यस्त्रबलं घोरमप्रसह्यं परैर्भुवि ।
शत्रून्समेत्य जयति क्षत्रं ब्रह्मपुरस्कृतम् ॥ १.१४९.३८ ॥

他的兵器之力可怕,大地上的敌人无法承受;以婆罗门为先导的刹帝利迎敌而胜。

1.149.39

ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते ।
सोऽहं क्षत्रबलाद्दीनो ब्रह्मतेजः प्रपेदिवान् ॥ १.१४९.३९ ॥

婆罗门与刹帝利相合之时,婆罗门的光辉更为殊胜;我因刹帝利之力而衰弱,便转而归依婆罗门之光辉。

1.149.40

द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ॥ १.१४९.४० ॥

我来到您这位胜过德罗纳、最通晓梵者的面前,愿我能得到一个在战场上不可战胜、能杀死德罗纳的儿子。

1.149.41

द्रोणमृत्युर्यथा मेऽद्य पुत्रो जायेत वीर्यवान् ।
तत्कर्म कुरु मे याज निर्वपाम्यर्बुद्धं गवाम् ॥ १.१४९.४१ ॥

愿我今日得一英勇之子,能致德罗纳于死地,请为我行此祭仪,哦,祭主;我将奉献一亿头牛。

1.149.42

तथेत्युक्त्वा तुं तं याजो यज्ञार्थमुपकल्पयन् ।
गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥ १.१४९.४२ ॥

祭主说“就这样吧”,便为祭祀作准备;他说“为了老师”,便催促不情愿的副祭主。

1.149.43

द्रुपदं च महाराजमिदं वचनमब्रवीत् ।
मा भैस्त्वं संप्रदास्यामि कर्मणा भवतः सुतम् ॥ १.१४९.४३ ॥

他对大王德鲁帕达说了这些话:“不要害怕,我将借此仪式为你赐予一个儿子。”

1.149.44

क्षिप्रमुत्तिष्ठ चाव्यग्रः संभारानुपकल्पय ।
एवमुक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः ॥ १.१४९.४४ ॥

“快快起来,从容地准备祭品。”说完这些并许下承诺后,这位仙人便承担起了这项祭仪。

1.149.45

ब्राह्मणो द्विपदां श्रेष्ठो यथाविधि कथाक्रमम् ।
याजो द्रोणविनाशाय याजयामास तं नृपम् ॥ १.१४९.४५ ॥

婆罗门中最优秀的亚惹让那位国王依照规则、按照次第举行祭祀,以求杀死德罗纳。

1.149.46

गुर्वर्थेऽयोजयत्कर्म याजस्यापि समीपतः ।
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ॥ १.१४९.४६ ॥

为了上师,他在亚惹近旁开始了祭仪;随后,大苦行者乌帕亚惹上前。

1.149.47

आचव्यौ कर्म वैतानं तथा पुत्रफलाय वै ।
इह पुत्रो महावीर्यो महातेजा महाबलः।
इष्यते यद्विधो राजन्भविता स तथाविधः ॥ १.१४९.४७ ॥

为求子嗣之果,他举行了吠陀纳祭仪。“这里所求的儿子,将是大勇猛、大光辉、大力量的,大王,他将如此。”

1.149.48

भारद्वाजस्य हन्तारं सोऽभिसन्धाय पार्थिवः ।
आजहेऽथ तदा राजन्द्रुपदः कर्म सिद्धये ॥ १.१४९.४८ ॥

德鲁帕达王决心得到杀死婆罗堕遮之子的人,大王啊,于是为了成就此事,便开始了祭仪。

1.149.49

ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि ।
कौसवी नाम तस्यासीद्या वै तां पुत्रगृद्धिनः ॥ १.१४९.४९ ॥

那位人中最优秀的婆罗门依法献祭。他的妻子名叫高娑维,她渴望有一个儿子。

1.149.50

सौत्रामणिं तथा पत्नीं ततः कालेऽभ्ययात्तदा ।
याजस्तु सवनस्यान्ते देवीमाह्वापयत्तदा ॥ १.१४९.५० ॥

随后,在适当的时候,为了索特拉玛尼祭,他走近妻子;在萨瓦纳祭的末尾,祭司耶遮于是召唤了王后。

1.149.51

प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ।
कुमारश्च कुमारी च पितृवंशविवृद्धये ॥ १.१४९.५१ ॥

王后普里沙蒂啊,来到我这里;你面前有一对——一子一女,为了父系家族的繁盛。

1.149.52

नालिप्तं वै मम मुखं पुण्यान्गन्धान्बिभर्मि च ।
न पत्नी तेऽस्मि सूत्यर्थे तिष्ठ याज मम प्रिये ॥ १.१४९.५२ ॥

我的嘴尚未涂抹,我佩戴着纯净的香料;我不是你的妻子,不能参与压榨——请等待,哦耶遮,我的爱人。

1.149.53

याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् ।
कथं कामं न संदध्यात्पृषति प्रेहि तिष्ठ वा ॥ १.१४९.५३ ॥

耶遮所煮、优婆耶遮以咒语加持的祭品——它怎会不能满足愿望呢?哦普里沙蒂,来或留。

1.149.54

एवमुक्त्वा तु याजेन हुते हविषि संस्कृते ।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥ १.१४९.५४ ॥

耶遮说完这番话,祭品被献上、供物被加持之后,从那火中升起一位如天神般的少年。

1.149.55

ज्वालावर्णो घोररूपः किरीटी वर्म धारयन् ।
वीरः सखङ्गः सशरो धनुष्मान्स नदन्मुहुः ॥ १.१४९.५५ ॥

他色如火焰,形貌可怖,戴着冠冕,披着铠甲,是一位英雄,持剑、持箭、持弓,反复地吼叫。

1.149.56

सोऽभ्यरोहद्रथवरं तेन च प्रययौ तदा ।
जातमात्रे कुमारे च वाक्किलान्तर्हिताब्रवीत् ॥ १.१४९.५६ ॥

他登上那辆上好的战车,随即驾车前行;王子刚一出生,便有一个隐形的声音说话。

1.149.57

एष शिष्यश्च मृत्युश्च भारद्वाजस्य जायते ।
भयापहो राजपुत्रः पाञ्चालानां यशस्करः ॥ १.१४९.५७ ॥

此人生为婆罗堕遮(德罗纳)的弟子,也是他的死亡;这位王子驱除恐惧,为般遮罗人带来荣耀。

1.149.58

राज्ञः शोकापहो जात एष द्रोणवधाय हि ।
इत्यवोचन्महद्भूतमदृश्यं खेचरं तदा ॥ १.१४९.५८ ॥

这位能消除国王忧愁的人,是为杀死德罗纳而生的——天空中行走的一位不可见的大神灵如此说道。

1.149.59

ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधुसाध्विति ।
द्वितीयायां च होत्रायां हुते हविषि मन्त्रिते ॥ १.१४९.५९ ॥

于是欢喜的般遮罗人高声喊道“善哉,善哉!”——此时第二次祭供中,经咒语加持的供品被奉献。

1.149.60

कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता ।
प्रत्याख्याते पृषत्या च याजके भरतर्षभ ॥ १.१४९.६० ॥

婆罗多族的雄牛啊,少女般遮利(德罗波蒂)也从祭坛中央站起,此前普利沙蒂和主祭已将她拒绝。

1.149.61

पुनः कुमारी पाञ्चाली सुभगा वेदिमध्यगा ।
अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा ॥ १.१४९.६१ ॥

那少女般珍贵的般遮罗公主,吉祥端庄,立于祭坛中央,从祭场之内涌现而出;那少女极其可爱。

1.149.62

श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।
मानुषं विग्रहं कृत्वा साक्षाच्छ्रीरिव वर्णिनी ॥ १.१४९.६२ ॥

肤色黝黑,眼如莲花瓣,发色深蓝而卷曲;化作人身,宛如吉祥女神亲临,光彩照人。

1.149.63

ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा ।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति ॥ १.१४९.६३ ॥

指甲高挺呈铜红色,眉目秀美,双乳丰满优美;她的芬芳如青莲,远达一俱卢舍之外。

1.149.64

या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ।
देवदानवयक्षाणामीप्सिता वरवर्णिनी ॥ १.१४९.६४ ॥

她拥有至上的容貌,世间无可比拟;为天神、檀那婆与夜叉所倾慕,肤色极为美好。

1.149.65

तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रस्य नेष्यति ॥ १.१४९.६५ ॥

关于那位新生的、腰肢美好的少女,一个无形之声说道:「这位克里希纳,乃诸女之最,将导致刹帝利种姓的毁灭。」

1.149.66

सुरकार्यमियं काले करिष्यति सुमध्यमा ।
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥ १.१४९.६६ ॥

这位腰肢纤细的女子,将在适当的时候完成诸神的使命;因她之故,刹帝利将生起巨大的恐惧。

1.149.67

तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् ।
न चैनान्हर्षसंपन्नानियं सेहे वसुन्धरा ॥ १.१४९.६७ ॥

众般阇罗闻此,如狮群般吼叫;充满喜悦的他们,连大地也承受不住。

1.149.68

तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः ।
कुमारश्च कुमारी च मनोज्ञौ तौ नरर्षभौ ॥ १.१४९.६८ ॥

就这样,伟大的德鲁波陀生下一对孩子:一子一女,二人都十分可爱,是人中的雄牛。

1.149.69

श्रिया परमया युक्तौ क्षात्रेण वपुषा तथा ।
तौ दृष्ट्वा पृषती याजं प्रपेदे सा सुतार्थिनी ॥ १.१४९.६९ ॥

见到这两位具有至上美貌与刹帝利体态者,渴望有子的普利沙提便前往耶阇处。

1.149.70

न वै मदन्यां जननीं जानीयातामिमाविति ।
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ॥ १.१४९.७० ॥

“这两人不可把我以外的人认作母亲。”——说“好”,耶阇为了取悦国王,便对她说。

1.149.71

तयोस्तु नामनी चक्रुर्द्विजाः संपूर्णमानसाः ।
धृष्टत्वादप्रधृष्यत्वात् द्युम्नाद्युत्संभवादपि ॥ १.१४९.७१ ॥

心满意足的再生者为二人命名:因其无畏,因其不可战胜,也因其生于火焰般的光辉之中。

1.149.72

धृष्टद्युम्नः कुमारोऽयं द्रुपद्सय भवत्विति ।
कृष्णेत्येवाभवत्कन्या कृष्णा भूत्सा हि वर्णतः ॥ १.१४९.७२ ॥

“愿此子为德鲁波陀之子德里斯塔德于穆纳。”而那女孩被称为黑天女(克里希那),因为她肤色黝黑。

1.149.73

तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ।
वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्तदा ॥ १.१४९.७३ ॥

就这样,这对双生子在德鲁帕达的大祭祀中诞生了。那时,德里斯塔尤姆那已精通吠陀的学习。

1.149.74

धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम् ।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥ १.१४९.७४ ॥

婆罗堕阇之子、威力非凡的德罗纳,将般遮罗王子德里斯塔尤姆那接到自己家中,开始教他使用兵器之术。

1.149.75

अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥ १.१४९.७५ ॥

德罗纳认为天命不可逃避,将要发生的终将发生,这位大智之人为了守护自己的名声,便这样做了。

1.149.76

सर्वास्त्राणि स तु क्षिप्रमाप्तवान्परया धिया ॥ १.१४९.७६ ॥

他以至高的智慧,很快便掌握了所有兵器。