Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.153

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.153.1

श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः ।
धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः ॥ १.१५३.१ ॥

パーンドゥの息子たちが英雄であり、力に優れ、大いなる威力をもつと聞いて、大地の守護者ドリタラーシュトラ王は憂えて思い沈んだ。

1.153.2

तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम् ।
कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रऽब्रवीद्वचः ॥ १.१५३.२ ॥

そこでドリタラーシュトラは、策略に通じ、王道の学問の意味を最もよく知り、大臣の中で最も優れたカニカを呼び、このように言った。

1.153.3

उत्सक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम ।
तत्र मे निश्चिततमं सन्धिविग्रहकारणम्।
कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव ॥ १.१५३.३ ॥

パーンダヴァたちは常に気概に満ちている。最も優れた再生者よ、私は彼らに嫉妬している。カニカよ、和平か戦争かの最も確かな原因をそこで私に教えてくれ。お前の言葉どおりにしよう。

1.153.4

दुर्योधनोऽथ शकुनिः कर्णदुःशासनावपि ।
कणिकं ह्युपसंगृह्य मन्त्रिणं सौबलस्य च ॥ १.१५३.४ ॥

その後、ドゥルヨーダナ、シャクニ、カルナ、ドゥッシャーサナもまた、スバラの息子(シャクニ)の大臣カニカに近づき、彼を捕らえた。

1.153.5

पप्रच्छुर्भरतश्रेष्ठ पाण्डवान्प्रति नैकधा ।
प्रबुद्धाः पाण्डवा नित्यं सर्वे तेभ्यस्त्रसामहे ॥ १.१५३.५ ॥

バラタ族の最も優れた者よ、彼らはパーンダヴァについて様々に尋ねた。パーンダヴァたちは常に警戒しており、我々は皆彼らを恐れている。

1.153.6

अनूनं सर्वपक्षाणां यद्भवेत्क्षेमकारकम् ।
भारद्वाज तदाचक्ष्व करिष्यामः कथं वयम् ॥ १.१५३.६ ॥

バラドヴァージャの子よ、すべての側にまったく安寧をもたらすものを私に告げよ。我々はどうやってそれを行おうか。

1.153.7

स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः ।
उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनम् ॥ १.१५३.७ ॥

彼に問われ、再生者の最上の人は心喜んで、王道の学の意味を示す鋭い言葉を語った。

1.153.8

शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ ।
न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम ॥ १.१५३.८ ॥

王よ、ここで私が語ることを聞け。無垢なるクル族の最上の者よ、これを聞いて私に敵意を抱いてはならない。

1.153.9

नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः ॥ १.१५३.९ ॥

王は常に罰の杖を振りかざし、常に男らしさを示すべきである。自らは欠点なく、他人の欠点を見て、その隙に従うべきである。

1.153.10

नित्यमुद्यतदण्डाद्धि भऋशमुद्विजते जनः ।
तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत् ॥ १.१५३.१० ॥

常に振り上げられた罰の杖によって人々は大いに怯える。それゆえ、すべての事は罰の杖によってのみ保つべきである。

1.153.11

नास्य च्छिद्रं परः पश्येच्छिद्रेण परमन्वियात् ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ १.१५३.११ ॥

彼の欠点を他人に見させてはならない。隙を通して他者を追うべきである。亀が手足を隠すように隠し、自らの隙を守るべきである。

1.153.12

नित्यं च ब्राह्मणाः पूज्या नृपेण हितमिच्छता ।
सृष्टो नृपो हि विप्रामां पालने दुष्टनिग्रहे ॥ १.१५३.१२ ॥

福祉を望む王は常にバラモンを敬うべきである。王は、バラモンを守り、悪人を抑えるために創られたからである。

1.153.13

उभाब्यां वर्धते धर्मो धर्मवृद्ध्या जितावुभौ ।
लोकश्चायं परश्चैव ततो धर्मं समाचरेत् ॥ १.१५३.१३ ॥

両者によってダルマは増し、ダルマの増大によって現世と来世の両方が勝ち取られる。ゆえにダルマを実践すべきである。

1.153.14

कृतापराधं पुरुषं दृष्ट्वा यः क्षमते नृपः ।
तेनावमानमाप्नोति पापं चेह परत्र च ॥ १.१५३.१४ ॥

罪を犯した人を見て赦す王は、この世でも来世でも、不名誉と罪を得る。

1.153.15

यो विभूतिमवाप्योच्चै राज्ञो विकुरुतेऽधमः ।
तमानयित्वा हत्वा च दद्याद्धीनाय तद्धनम् ॥ १.१५३.१५ ॥

大きな富貴を得た後に王に対して悪を行う卑しい者は、連れてきて殺し、その財を貧しい者に与えるべきである。

1.153.16

नो चेद्धुरि नियुक्ता ये स्थास्यन्ति वशमात्मनः ।
राजा नियुञ्ज्यात्पुरुषानाप्तान्धर्मार्थकोविदान् ॥ १.१५३.१६ ॥

さもなければ、重責に任じられた者たちは自らを制御できないだろう。ゆえに王はダルマとアルタに通じた信頼できる人々を任命すべきである。

1.153.17

ये नियुक्तास्तथा केचिद्राष्ट्रं वा यदि वा पुरम् ।
ग्रामं जनपदं वापि बाधेयुर्यदि वा न वा ॥ १.१५३.१७ ॥

任命された者のうち誰かが、国、都市、村、地方を苦しめるかどうか——苦しめようと苦しめまいと。

1.153.18

परीक्षणार्थं विसृजेदानतांश्छन्नरूपिणः ।
परीक्ष्य पापकं जह्याद्धनमादाय सर्वशः ॥ १.१५३.१८ ॥

試すために、謙虚で変装した者たちを派遣すべきである。試みた後、悪人を退け、その財産をすべて取り上げるべきである。

1.153.19

नासम्यक्कृत्यकारी स्यादुपक्रम्य कदाचन ।
कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम् ॥ १.१५३.१९ ॥

始めたことは、決して不適切に行ってはならない。棘であっても、うまく切らなければ長く傷から膿を出し続けるからである。

1.153.20

वधमेव प्रशंसन्ति शत्रूणामपकारिणाम् ।
सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम् ॥ १.१५३.२० ॥

称賛されるのは、敵と害をなす者を滅ぼすことだけである。よく打ち散らすこと、よく武勇を示すこと、よく戦うこと、そしてよく逃れることも(よいとされる)。

1.153.21

आपद्यापदि काले कुर्वीत न विचारयेत् ।
नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथं चन ॥ १.१५३.२१ ॥

窮地においては、ふさわしい時に行動すべきであり、思案に暇をかけてはならない。わが子よ、敵は弱くとも決して侮ってはならない。

1.153.22

अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात् ।
अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् ॥ १.१५३.२२ ॥

小さな火でも、燃えるものを得れば森全体を焼き尽くす。闇の時には盲人のようになり、耳の聞こえぬふりさえしてよい。

1.153.23

कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।
सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितं ॥ १.१५३.२३ ॥

草の弓を作り、鹿のように寝床に横たわるべきである。しかし和睦などの方策によって、支配下にある敵を討つべきである。

1.153.24

दया न तस्मिन्कर्तव्या शरणागत इत्युत ।
निरुद्विग्नो हि भवति न हताज्जायते भयम् ॥ १.१५३.२४ ॥

たとえ庇護を求めて来ようとも、その者に慈悲をかけてはならない。敵が討たれてこそ人は憂いなくなり、討たれた者から恐れは生じないからである。

1.153.25

हन्यादमित्रं दानेन तथा पूर्वापकारिणम् ।
हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः ॥ १.१५३.२५ ॥

敵は贈り物によって滅ぼすべきである。先に害を与えた者も同様である。敵方の三人、五人、あるいは七人を、完全に滅ぼすべきである。

1.153.26

मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः ।
ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम् ॥ १.१५३.२६ ॥

敵方の根をまず初めから常に断つべきである。その後、その助力者と、その側のすべての者を断つべきである。

1.153.27

छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः ।
कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ ॥ १.१५३.२७ ॥

根と基盤が断たれれば、そこに生きていた者は皆殺される。木の根が断たれたなら、枝はどうして残れようか。

1.153.28

एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥ १.१५३.२८ ॥

王は常に集中し、自らを明かさず、敵の隙を見張るべきである。王よ、敵対者に対しては常に不安を抱いて振る舞うべきである。

1.153.29

अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः ।
लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥ १.१५३.२९ ॥

聖火の点火、祭祀、ふじ色の衣、もつれた髪、鹿皮によって人々の信頼を得た後、狼のように彼らを略奪すべきである。

1.153.30

अङ्कुशं शोचमित्याहुरर्थानामुपधारणे ।
आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत् ॥ १.१५३.३० ॥

財を保つ手段は鉤(こう)と清浄であると言われる。実のなった枝をたわめて、熟した実を一つずつ摘み取るべきである。

1.153.31

फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम् ।
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः ॥ १.१५३.३१ ॥

これは果実を得るための努力である。世の賢者は時の巡りが来るまで、敵を肩に担ぐべきである。

1.153.32

ततः प्रत्यागते काले भिन्द्याद्धृटमिवाश्मनि ।
अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् ॥ १.१५३.३२ ॥

その後、時が来たら、石の上の壺を砕くように敵を砕くべきである。哀れっぽく多くを語っても、解放してはならない。

1.153.33

कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम् ।
हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः ॥ १.१५३.३३ ॥

彼に慈悲をかけてはならない。害をなした者は必ず殺すべきである。敵は懐柔によって、さらに贈り物によっても打ち倒すべきである。

1.153.34

तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत् ।
कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः ॥ १.१५३.३४ ॥

同様に、離間と罰によって、あらゆる手段で敵を制圧すべきである。だが、懐柔、贈り物、離間、罰のうち、どのようにすべきか。

1.153.35

अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथातथम् ।
शृणु राजन्यथा वृत्तं वने निवसतः पुरा ॥ १.१५३.३५ ॥

敵をどのように殺せるのか、ありのままに私に語れ。王よ、昔、森に住んでいた者たちに起きたことを聞け。

1.153.36

जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः ।
अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः ॥ १.१५३.३६ ॥

偉大な王よ、政治学の書の意味を見抜いた一匹の山犬の話を聞け。それは機転の利く知恵者で、自らの利益に長けた山犬であった。

1.153.37

सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभ्रुभिः ।
तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम् ॥ १.१५३.३७ ॥

彼は虎、鼠、狼、褐色の山犬という友と共に暮らしていた。その森で彼らは、強い鹿の群れの王を見た。

1.153.38

अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन् ।
असकृद्यतितो ह्येष हन्तुं व्याघ्र वने त्वया ॥ १.१५३.३८ ॥

彼を捕らえられず、彼らは相談した。虎よ、お前は森の中で幾度も彼を殺そうと努めてきた。

1.153.39

युवा वै जवसंपन्नो बुद्धिशाली न शक्यते ।
मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम् ॥ १.१५३.३९ ॥

彼は若く、素早く、賢いので捕らえられない。鼠よ、眠っている彼の足をかじるがよい。

1.153.40

अथैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः ।
ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः ॥ १.१५३.४० ॥

その足をかじられた後、虎が彼を捕らえるがよい。その後、我々は皆喜んで彼を食べよう。

1.153.41

जम्बुकस्य तु तद्वाक्यं तथा चक्रः समाहिताः ।
मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा ॥ १.१५३.४१ ॥

皆は注意深く、山犬の言葉どおりにした。そこで虎は、鼠に足をかじられた鹿を殺した。

1.153.42

दृष्ट्वैवाचेष्टमानं तु भूमौ मृगकलेवरम् ।
स्नात्वाऽऽगच्छत भद्रं वोरक्षामीत्याह जम्बुकः ॥ १.१५३.४२ ॥

地上でのたうつ鹿の体を見て、山犬は言った。「行って沐浴せよ、幸いあれ。私が見張っていよう。」

1.153.43

शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः ।
स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः ॥ १.१५३.४३ ॥

ジャッカルの言葉によって、彼らは皆川へ去った。そしてそのジャッカルは深い思い悩みに沈み、そこに立ち尽くした。

1.153.44

अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः ।
ददर्श जम्बुकं चैव चिन्ताकुलितमानसम् ॥ १.१५३.४४ ॥

そのとき、大力の虎は沐浴をしてまず到着し、不安に心を乱されたジャッカルを見た。

1.153.45

किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः ।
अशित्वा पिशितान्यद्य विहरिष्यामहे वयम् ॥ १.१५३.४५ ॥

大いなる賢者よ、我々知恵ある者の中で最も優れた君がなぜ嘆くのか。今日肉を食べて、我々は遊び歩こう。

1.153.46

शृणु मे त्वं महाबाहो यद्वाक्यं मूषिकोऽब्रवीत् ।
धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः ॥ १.१५३.४६ ॥

大腕の方よ、ネズミが言った言葉を聞け。「獣の王の力に恥あれ!今日、私がこの鹿を殺したのだ。」

1.153.47

मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति ।
तस्यैवं गर्जितं श्रुत्वा ततो भक्ष्यं न रोचये ॥ १.१५३.४७ ॥

私の腕の力を頼みにして、彼は今日満足するだろう。彼のそのような咆哮を聞いて、私は食べ物を欲しいとは思わない。

1.153.48

ब्रवीति यदि स ह्येवं काले ह्यस्मि प्रबोधितः ।
स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान् ॥ १.१५३.४८ ॥

もし彼がそう言うのなら、ちょうどよい時に私は目覚めたのだ。自分の腕の力を頼みにして、私は森の住人たちを殺してやろう。

1.153.49

खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितोवनम् ।
एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह ॥ १.१५३.४९ ॥

「そこで肉を食べよう」と言って、彼は森へ出発した。ちょうどその時、ネズミもやって来た。

1.153.50

तमागतमभिप्रेक्ष्य शृगालोऽप्यब्रवीद्वचः ।
शृणु मीषिक भद्रं ते नकुलो यदिहाब्रवीत् ॥ १.१५३.५० ॥

彼が来たのを見て、ジャッカルもまた言った。「ネズミよ、聞け。お前に幸いあれ。ここでマングースが言ったことを聞け。」

1.153.51

मृगमांसं न खादेयं गरमेतन्न रोचते ।
मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम् ॥ १.१५३.५१ ॥

鹿の肉は食べない。それは毒のように私には合わない。ネズミを食べよう——どうかそれを認めてくれ。

1.153.52

तच्छ्रुत्वा मूषिको वाक्यं संत्रस्तः प्रगतो बिलम् ।
ततः स्नात्वा स वै तत्र आजगाम वृको नपृ ॥ १.१५३.५२ ॥

その言葉を聞いて、ネズミは怯えて穴へ逃げ込んだ。そして王よ、狼は水浴びをしてそこへやって来た。

1.153.53

तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा ।
मृगराजो हि संक्रुद्धो न ते साधु भविष्यति ॥ १.१५३.५३ ॥

彼が来たのを見て、ジャッカルはこう言った。「獣の王、獅子は激怒している。お前にとって良いことにはならないだろう。」

1.153.54

सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम् ।
एवं संचोदितस्तेन जम्बुकेन तदा वृकः ॥ १.१५३.५४ ॥

「妻を連れてここへ来い。それから、なすべきことをせよ。」そのジャッカルにそう促された狼は、

1.153.55

ततोऽवलुम्पनं कृत्वा प्रयातः पिशिताशनः ।
एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह ॥ १.१५३.५५ ॥

そして略奪を終えて肉食者は去った。ちょうどその時、ナクラ(マングース)もやって来た。

1.153.56

तमुवाच महाराज नकुलं जम्बुको वने ।
स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः ॥ १.१५३.५६ ॥

大王よ、森でジャッカルがマングースに言った。「自らの腕の力を頼みとして彼らは勝ち、敗れた者たちは他所へ去った。」

1.153.57

मम दत्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम् ।
मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः ॥ १.१५३.५७ ॥

私と争いを挑み、望むままに肉を食べよ。獣王(獅子)も狼も、そして賢い鼠さえも打ち負かされたのだ。

1.153.58

निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् ।
न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत् ॥ १.१५३.५८ ॥

「お前が打ち負かした勇士たちがいる以上、お前はさらに勇者だ。お前とさえ戦う勇気は私にはない」。そう言って、彼もまた去った。

1.153.59

एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः ।
खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात्।
एवं समाचरन्नित्यं सुखमेधेत भूपतिः ॥ १.१५३.५९ ॥

彼らがこのように去ると、心の喜んだジャッカルは良き策の決断により、ひとりで肉を食べた。このように常に行う王は幸福の中で栄える。

1.153.60

भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा ।
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा ॥ १.१५३.६० ॥

臆病者は恐怖によって、勇者は合掌の礼によって、貪欲者は財を与えることによって離間すべきである。そして力によって、対等な者も劣る者も分断すべきである。

1.153.61

एवं ते कथितं राजन् शृणु चाप्यपरं तथा ॥ १.१५३.६१ ॥

王よ、このようにあなたに語られた。もう一つのことも同じように聞きなさい。

1.153.62

पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः ।
रिपुस्यानेषु वर्तन्तो हन्तव्या भूतिमिच्छता ॥ १.१५३.६२ ॥

息子であれ、友であれ、兄弟であれ、父であれ、師であれ、敵の立場にある者は、繁栄を望む者によって殺されるべきである。

1.153.63

शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः ।
विषेण मायया वापि नोपेक्षेते कथंचन।
उभौ चेत्संशयोपेतौ श्रद्धवांस्तत्र वर्धते ॥ १.१५३.६३ ॥

誓いによって、あるいは財の贈与によって、さらには毒や策略によっても敵を討つべきであり、いかなる場合も軽んじてはならない。両者が疑いに囚われているならば、そこでは信じる者が栄える。

1.153.64

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ १.१५३.६४ ॥

師であっても、慢心し、なすべきことと、なすべきでないことを知らず、邪道に踏み入った者には、懲らしめを与えるのが正しい。

1.153.65

क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषिता ।
न चैनं क्रोधसंदीप्तं विद्यात्कश्चित्कथंचन।
न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः ॥ १.१५३.६५ ॥

怒っていても、怒らぬ様子を装い、まず微笑んで語るべきである。誰にも怒りに燃えていると知られてはならず、怒りに満ちていても、決して他人を破滅させてはならない。

1.153.66

प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत ।
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव ॥ १.१५३.६६ ॥

バラタの子孫よ、打とうとする者は好ましい言葉を語るべきである。打ちながらも好ましい言葉を語り、打ち終えてもなお好ましい言葉を語るべきである。嘆き、泣いているかのように。

1.153.67

आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः ।
अथ तं प्रहरेत्काले तथा विचलितं पथि ॥ १.१५३.६७ ॥

和らげる言葉、法、利益、振る舞いによって相手を安心させ、その後、適切な時に、道で揺らいだ相手を打つべし。

1.153.68

अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः ।
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः ॥ १.१५३.६८ ॥

恐ろしい罪を犯した者でも、法に依って立つならば、その過ちは黒雲に覆われる山のように覆い隠される。

1.153.69

यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत् ।
अधनान्नास्तिकांश्चोरान्विषकर्मसु योजयेत् ॥ १.१५३.६९ ॥

死に値する者の家には火を放つべし。貧しい者、無神論者、盗賊を毒の仕事に就かせるべし。

1.153.70

प्रत्युत्थानासनाद्येन संप्रदानेन केनचित् ।
अतिविश्रब्धघाती स्यात्तीक्ष्णंदष्ट्रो निमग्नकः ॥ १.१५३.७० ॥

立って迎え、席などを勧め、あるいは何らかの贈り物によって、深く信頼する者を殺す者となるべし。鋭い牙を持ち、水中に潜む蛇のように隠れて。

1.153.71

अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः ।
अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति ॥ १.१५३.७१ ॥

疑わしくない者にさえ警戒し、疑わしい者には万事に警戒すべし。疑われぬ所から生じた恐れもまた、根を断ち切る。

1.153.72

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ १.१५३.७२ ॥

信頼できない者を信頼してはならず、信頼できる者にも過度に信頼すべきでない。信頼から生じた恐れもまた、根を断ち切る。

1.153.73

चारः सुविहितः कार्य आत्मनश्च परस्य वा ।
पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत् ॥ १.१५३.७३ ॥

自国と他国の両方に、よく任命された間諜を置くべきである。異端の修行者や苦行者などを他国へ派遣せよ。

1.153.74

उद्यानेषु विहारेषु देवतायतनेषु च ।
पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ ॥ १.१५३.७४ ॥

庭園、遊興の場、神々の寺院、酒場、通り、そしてすべての聖なる沐浴場にも。

1.153.75

चत्वरेषु च कूपेषु पर्वतेषु वनेषु च ।
समवायेषु सर्वेषु सरित्सु च विचारयेत् ॥ १.१५३.७५ ॥

辻、井戸、山、森、集会、そしてすべての川で、調査させるべきである。

1.153.76

वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः ।
स्मितपूर्वाभिभाषी स्यात्सृष्टो रौद्रस्य कर्मणः ॥ १.१५३.७६ ॥

言葉はきわめて謙虚で、心は剃刀のように鋭くあれ。微笑みから話し始め、残酷な行いに遣わされた者であれ。

1.153.77

अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम् ।
आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता ॥ १.१५३.७७ ॥

合掌、誓い、慰めの言葉、頭を足に伏せて礼拝、希望を与えること——繁栄を望む者はこのように振る舞うべきである。

1.153.78

सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।
आमः स्यात्पक्वसङ्काशो नच जीर्येत कर्हिचित् ॥ १.१५३.७८ ॥

花が満開でも実のない木のように、実を結んでも登りにくい木のように。未熟でも熟したように見え、決して衰えないように。

1.153.79

त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धास्तथैव च ।
अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत् ॥ १.१५३.७९ ॥

三つの目的には三種の苦があり、その結果もまた同様である。吉なる結果は知るべきであり、苦は避けるべきである。

1.153.80

धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति ।
अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः ॥ १.१५३.८० ॥

法を歩む者の苦もまた二つによって抑えられる。財に貪欲な者は財によって、欲に過ぎて奔走する者は欲によって。

1.153.81

अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता ।
अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सहा ॥ १.१५३.८१ ॥

慢心なく、自制し、和らぎをそなえ、妬まず、事を見極め、心の清らかな者は、再生族と相談すべきである。

1.153.82

कर्मणा येन केनैव मृदुना दारुणेन च ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ १.१५३.८२ ॥

いかなる行為によっても、柔らかくとも厳しくとも、卑しめられた自己を引き上げるべきである。力ある者は法を行うべきである。

1.153.83

न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥ १.१५३.८३ ॥

危うさに踏み入らない人は幸運を見ない。危うさに踏み入って生き延びた者は、それを見る。

1.153.84

यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम् ॥ १.१५३.८४ ॥

判断を乱された者は過去によって鎮め、愚かな者は未来によって、賢者は現在によって諭すべきである。

1.153.85

योऽरिणा सह सन्धाय शयीत कृतकृत्यवत् ।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥ १.१५३.८५ ॥

敵と和約を結び、務めを果たした者のように眠る者は、木の梢で眠っていて落ちた人のように目を覚ます。

1.153.86

मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता ।
आकारमभिरक्षेत चारेणाप्यनुपालितः ॥ १.१५३.८६ ॥

協議の秘密を守ることに常に努めるべきであり、嫉妬や非難を交えてはならない。間者に守られていても、外に現れる態度を慎むべきである。

1.153.87

न रात्रौ मन्त्रयेद्विद्वान्न च कैश्चिदुपासितः ।
प्रासादाग्रे शिलाग्रे वा विशाले विजनेपि वा ॥ १.१५३.८७ ॥

賢者は夜に協議してはならず、誰かに見られている時にも協議してはならない。宮殿の屋上、岩の頂、広い場所、あるいは人里離れた所でさえも協議してはならない。

1.153.88

समन्तात्तत्र पश्यद्भिः सहाप्तैरेव मन्त्रयेत् ।
नैव संवेशयेत्तत्र मन्त्रवेश्मनि शारिकाम् ॥ १.१५३.८८ ॥

そこでは四方を見張る信頼できる者とだけ協議すべきであり、協議の部屋にはムクドリさえ入れてはならない。

1.153.89

शुकान्वा शारिका वापि बालमूर्खजडानपि ।
प्रविष्टानपि निर्वास्य मन्त्रयेद्धार्मिकैर्द्विजैः ॥ १.१५३.८९ ॥

オウムやムクドリ、子供、愚か者や鈍い者は、たとえ入ってきていても追い出し、正しいバラモンたちと協議すべきである。

1.153.90

नीतिज्ञैर्न्यायशास्त्रज्ञैरितिहासे सुनिष्ठितैः ।
रक्षां मन्त्रस्य निश्छिद्रां मन्त्रान्ते निश्चयेत्स्वयम् ॥ १.१५३.९० ॥

政略と法学に通じ、歴史物語に深く精通した者たちと協議すべきである。協議の守秘は隙なく保ち、協議の終わりに自ら決断すべきである。

1.153.91

वीरोपवर्णितात्तस्माद्धर्मार्थाभ्यामथात्मना ।
एकेन वाथ विप्रेण ज्ञातबुद्धिर्विनिश्चयेत् ॥ १.१५३.९१ ॥

それゆえ、英雄たちが称えた法と利によって、あるいは自分自身で、あるいは知性の確かな一人のバラモンと共に、人は確固たる決断をすべきである。

1.153.92

तृतीयेन न चान्येन व्रजेन्निश्चयमात्मवान् ।
षट्कर्णश्छिद्यते मन्त्र इति नीतिषु पठ्यते ॥ १.१५३.९२ ॥

自制の人は、第三者や他の者と決定に至るべきではない。政治論書には「六つの耳に達した謀は壊れる」と伝えられている。

1.153.93

निःसृतो नाशयेन्मन्त्रो हस्तप्राप्तामपि श्रियम् ।
स्वमतं च परेषां च विचार्य च पुनःपुनः।
गुणवद्वाक्यमादद्यान्नैव तृप्येद्विचक्षणः ॥ १.१५३.९३ ॥

漏れた謀は、手に入りかけた繁栄さえも滅ぼす。自分の意見と他人の意見を何度も熟考し、良い言葉だけを受け入れるべきである。賢者は自分だけに満足してはならない。

1.153.94

नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ १.१५३.९४ ॥

敵の急所を断たず、残酷な行いをせず、漁師のように打ち殺すことをしなければ、人は大いなる繁栄を得ることはない。

1.153.95

कर्शितं व्याधितं क्लिन्नमपानीयमघासकम् ।
परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम् ॥ १.१५३.९५ ॥

敵軍が弱り、病み、濡れ、水がなく、苦しみの中で眠り、すっかり油断して鈍っているときに、打ちかかるべきである。

1.153.96

नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति सङ्गतम् ।
तस्मात्सर्वाणि साध्यानि सावशेषाणि कारयेत् ॥ १.१५३.९६ ॥

富を求める者は、同じく富を求める者には近づかない。目的を遂げた者とは関係が絶えるものである。ゆえに、すべての事は少し残しておいて成し遂げさせるべきである。

1.153.97

संग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता ।
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥ १.१५३.९७ ॥

蓄財にも戦いにも努力すべきであり、妬みを抱いてはならない。繁栄を望む者は、努力と共に気概も保つべきである。

1.153.98

नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा ।
आरब्धान्येव पश्येरन्सुपर्यवसितान्यपि ॥ १.१५३.९८ ॥

彼の企ては友にも敵にも知られてはならない。彼らには始められたことだけを見せるべきで、完全に成し遂げられていても同様である。

1.153.99

भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ १.१५३.९९ ॥

危険がまだ来ないうちは怯えたように振る舞うべきである。しかし危険が来て目の前に見えたなら、恐れないかのように打ち込むべきである。

1.153.100

दैवेनोपहतं शत्रुमनुगृह्णाति यो नरः ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ १.१५३.१०० ॥

運命によって打ち倒された敵に情けをかける人は、雌騾馬が胎を宿すように、死を抱きしめるのである。

1.153.101

अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम् ।
न तु बुद्धिक्षयात्किंचिदतिक्रामेत्प्रयोजनम् ॥ १.१५३.१०१ ॥

まだ来ていないことと目の前の務めを、あらかじめ理解すべきである。知恵の衰えによって、いかなる目的をも取り逃してはならない。

1.153.102

उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ।
विभज्य देशकालौ च दैवं धर्मादयस्त्रयः।
नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः ॥ १.१५३.१०२ ॥

繁栄を望む者は、努力と共に気概も保つべきである。場所と時、運命、そして法を筆頭とする三つを区別して考えるべきである。場所と時こそ至上の幸福をもたらすものと知るべきである。これが確立された教えである。

1.153.103

तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः ।
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान् ॥ १.१५३.१०३ ॥

ヤシの木が根を張るように、軽視された幼い敵は根を張る。深い森に放たれた火のように、たちまち大きくなる。

1.153.104

अग्निस्तोकमिवात्मानं सन्धुक्षयति यो नरः ।
स वर्धमानो ग्रसते महान्तमपि संचयम् ॥ १.१५३.१०४ ॥

火花のように自らを燃え立たせる人は、成長して大きな蓄えさえも呑み込む。

1.153.105

आदावेव ददानीति प्रियं ब्रूयान्निरर्थकम् ॥ १.१५३.१०५ ॥

最初にはただ「与えよう」と心地よい言葉を言うべきだが、それは無意味であるべきだ。

1.153.106

आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् ।
विघ्नं निमित्ततो ब्रूयान्निमित्तं वाऽपि हेतुतः ॥ १.१५३.१०६ ॥

希望を時に結びつけ、時を障害に結びつけよ。障害は口実によって語り、口実は理由によって語れ。

1.153.107

क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः ।
प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः ॥ १.१५३.१०७ ॥

剃刀となって、鋭く、時の道具となり、隠れて、毛を剃り、敵を四方から切り裂き、その命を奪え。

1.153.108

पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह ।
वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर ॥ १.१५३.१०८ ॥

クルの最良の者よ。パーンダヴァ兄弟にも他の者にも正しく振る舞い、沈んではならない。そのように自らの務めを果たせ。

1.153.109

सर्वकल्याणसंपन्नो विशिष्ट इति निश्चयः ।
तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप ॥ १.१५३.१०९ ॥

あらゆる吉祥の徳を備え、卓越していることは確かである。ゆえに人の王よ、パーンドゥの息子たちからご自身を守れ。

1.153.110

भ्रातृव्या बलवन्तस्ते पाण्डुपुत्रा नराधिप ।
पश्चात्तापो यथा न स्यात्तथा नीतिर्विधीयताम् ॥ १.१५३.११० ॥

人の王よ、あなたの従兄弟であり敵である、パーンドゥの息子たちは強大だ。後悔が生じないよう、策を講じよ。

1.153.111

एवमुक्त्वा संप्रतस्थे कणिकः स्वगृहं ततः ।
धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत ॥ १.१५३.१११ ॥

このように語って、カニカは自分の家へ向かった。そしてクル族の末裔ドリタラーシュトラもまた悲しみに打ちひしがれた。