Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.172

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.172.1

न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् ।
न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ॥ १.१७२.१ ॥

你绝不应像普通人那样悲伤;现在不是悲伤的时候,因为你是有智慧的人。

1.172.2

अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः ।
अवश्यभाविन्यर्थे वै संतापो नेह विद्यते ॥ १.१७२.२ ॥

在这个世界上,所有人必定都要经历死亡;对于必然会发生的事,这里不存在悲伤。

1.172.3

भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते ।
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च ॥ १.१७२.३ ॥

妻子、儿子与女儿,都是为了自己才被珍视的。你应以明智之心抛开痛苦;我自己也将前往那里。

1.172.4

एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।
प्राणानपि परित्यज्य यद्भर्तुर्हितमाचरेत् ॥ १.१७२.४ ॥

这是女子在世间最高且永恒的职责:即使舍弃性命,也要为丈夫的利益而行事。

1.172.5

तच्च तत्र कृतं कर्म तवापीदं सुखावहम् ।
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥ १.१७२.५ ॥

在那里所做的那件事,也会为你带来幸福;它在来世是不朽的,在今世也带来美名。

1.172.6

एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव ।
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥ १.१७२.६ ॥

我将向你宣说的这一重大的法,正是如此;在此处,你的利益与你的法都显得更加重大。

1.172.7

यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि ।
कन्या चैका कुमारश्च कृताहमनृणा त्वया ॥ १.१७२.७ ॥

娶妻所求之事,你已在我身上实现。有一女一子;因你,我已免于债务。

1.172.8

समर्थः पोषणे चासि सुतयो रक्षणे तथा ।
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥ १.१७२.८ ॥

你既能养育,也能护佑两个孩子;而我却无力护佑和养育这两个孩子。

1.172.9

मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर ।
कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम् ॥ १.१७२.९ ॥

我一切生命与财富的主人啊!失去你,我那两个幼子将如何生活?我又该如何抚养他们?

1.172.10

कथं हि विधवाऽनाथा बालपुत्रा विना त्वया ।
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥ १.१७२.१० ॥

我身为寡妇、无依无靠,失去你,带着幼子,站在你已踏上善人之路的路途上,我又怎能养活这一双儿女?

1.172.11

अहं कृतावलेपैश्च प्रार्थ्यमानामिमां सुताम् ।
अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम् ॥ १.१७२.११ ॥

当傲慢而不配与你结亲的人纷纷求娶这个女儿时,我又如何能保护她?

1.172.12

उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः ।
प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम् ॥ १.१७२.१२ ॥

如同飞禽争抢掷在地上的肉,众人也都觊觎失去丈夫的女子。

1.172.13

साऽहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः ।
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥ १.१७२.१३ ॥

我被摇动,被恶人觊觎,无法在路上站稳啊,善人所爱的人,再生者中最优秀的人。

1.172.14

स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले ।
मातापित्रोर्वशे कन्या प्रौढा भर्तृवशे तथा ॥ १.१७२.१४ ॥

夫君啊,在充满恶人的世间,女子的出生是被人鄙视的。少女受父母支配,成年妇人受丈夫支配。

1.172.15

अभावे चानयोः पुत्रे खतन्त्रा स्त्री विगर्हिता ॥ १.१७२.१५ ॥

若此二者不在,即使有儿子,独立的女子也会受到责备。

1.172.16

अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत् ।
वस्त्रखण्डं घृताक्तं हि यथा संकृष्यते श्वभिः ॥ १.१७२.१६ ॥

无人保护对女子而言,便是为恶人敞开的大门,正如涂满酥油的布片被狗拖来拽去。

1.172.17

कथं तव कुलस्यैकमिमं बालमनागसम् ।
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥ १.१७२.१७ ॥

我怎敢将你家族中这唯一无辜的孩子,引上先父先祖的道路?

1.172.18

कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान् ।
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥ १.१७२.१८ ॥

我无人依靠、四面受损,如何能在这孩子身上培育所期望的美德?正如你曾是洞察法的人。

1.172.19

इमामपि च ते बालामनाथां परिभूय माम् ।
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥ १.१७२.१९ ॥

你的这个少女也将在轻视我之后,被不配的首陀罗所渴求,如同他们渴求聆听吠陀。

1.172.20

तां चेदहं न दित्सेयं सद्गुणैरुपबृंहिताम् ।
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥ १.१७२.२० ॥

如果我不把她——虽具善德——嫁出,他们会强行夺走她,如同乌鸦从祭祀中夺走供品一样。

1.172.21

संप्रेक्षमाणा पुत्रीं ते नानुरूपमिवात्मनः ।
अनर्हवशमापन्नामिमां चापि सुतां तव ॥ १.१७२.२१ ॥

看到你的女儿,她与她的身份不相称,落入不配者的掌控之中,还有你这个女儿也是如此。

1.172.22

अवज्ञाता च लोकेषु तथान्मानमजानती ।
अवलिप्तैरैर्ब्रह्मन्मरिष्यामि न संशयः ॥ १.१७२.२२ ॥

在诸世界中受到轻视,不认识自己,婆罗门啊,我将死于傲慢者之手,这毫无疑问。

1.172.23

तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ ।
विनश्येतां न सन्देहो मत्स्याविव जलक्षये ॥ १.१७२.२३ ॥

那两个孩子,被我和你所遗弃——你的儿子——将会灭亡,就像水干时的两条鱼。这毫无疑问。

1.172.24

त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् ।
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥ १.१७२.२४ ॥

这三人无疑都将如此灭亡。因此你应当抛弃我,因为没有你……

1.172.25

व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः ।
ननु ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः ॥ १.१७२.२५ ॥

这是女子的至上福祉;丈夫是她最初、最高的依靠。婆罗门啊,知法者说,对于有子之妇,正是如此。

1.172.26

अनिष्टमिह पुत्राणां विषये परिवर्तितुम् ।
हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती ॥ १.१७२.२६ ॥

在此,儿子之事不应遭遇不幸;忠贞的妻子,佩戴姜黄、眼膏、花朵等吉祥之饰。

1.172.27

मरणं याति या भर्तुस्तद्दत्तजलपायिनी ।
भर्तृपादार्पितमनाः सा याति गिरिजापदम् ॥ १.१७२.२७ ॥

丈夫死去时,饮其所赐之水,心意奉献于丈夫足下的女子,便往生于雪山女(帕尔瓦蒂)的居所。

1.172.28

गिराजायाः सखी भूत्वा मोदते नगकन्यया ।
मितं ददाति हि पिता मितं माता मितं सुतः ॥ १.१७२.२८ ॥

她成为雪山女的朋友,与山神之女同乐。父亲给予有限,母亲给予有限,儿子也给予有限。

1.172.29

अमितस्य हि दातारं का पतिं नाभिनन्दति ।
आश्रमाश्चाग्निसंस्कारा जपहोमव्रतानि च ॥ १.१७२.२९ ॥

哪位女子不会赞美给予无限的丈夫呢?四行期、火祭、念诵、献祭与誓愿,皆因他而成就。

1.172.30

स्त्रीणां नैते विधातव्या विना पतिमनिन्दितम् ।
क्षमा शौचमनाहारमेतावद्विहितं स्त्रियाः ॥ १.१७२.३० ॥

没有无可指摘的丈夫,女子不应行此。女子所被规定的,只有忍耐、清净与禁食这些。

1.172.31

परित्यक्तः सुतश्चायं दुहितेयं तथा मया ।
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥ १.१७२.३१ ॥

我也舍弃了这个儿子和这个女儿,为了你舍弃了亲属,也舍弃了我的生命。

1.172.32

यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा ।
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥ १.१७२.३२ ॥

妻子始终安于丈夫所喜爱与有益之事,这胜过祭祀、苦行、戒律以及种种布施。

1.172.33

तदिदं यच्चिकीर्षामि धर्मं परमसंमतम् ।
इष्टं चैव हितं चैव तव चैव कुलस्य च ॥ १.१७२.३३ ॥

因此我想做的,是最为人所称许的法,既为你和家族所愿,也对你们有益。

1.172.34

इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः ।
आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम् ॥ १.१७२.३४ ॥

心爱的子女、财富和亲爱的朋友;为了从灾难之法中解脱,妻子在善人看来也可舍弃。

1.172.35

आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १.१७२.३५ ॥

为了应对灾难应当守护财富;妻子即使以财富也应守护;自己则应时常以妻子与财富来守护。

1.172.36

दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम् ।
सर्वमेतद्विधातव्यं बुधानामेष निश्चयः ॥ १.१७२.३६ ॥

为了可见与不可见的果报,妻子、儿子、财富与家室都应当照顾;这是智者的定见。

1.172.37

एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः ।
उभयोः कोधिको विद्वन्नात्मा चैवाधिकः कुलात् ॥ १.१७२.३७ ॥

一边是整个家族,一边是增益家族的自我。智者啊,二者之中,自我确实胜过家族。

1.172.38

आत्मनो विद्यमानत्वाद्भुवनानि चतुर्दश ।
विद्यन्ते द्विजशार्दूल आतमा रक्ष्यस्ततस्त्वया ॥ १.१७२.३८ ॥

因为自我存在,十四个世界才存在。婆罗门中的猛虎啊,因此你应当守护自我。

1.172.39

आत्मन्यविद्यमाने चेदस्य नास्तीह किंचन ।
एतज्जगदिदं सर्वमात्मना न समं किल ॥ १.१७२.३९ ॥

若自我不存在,此人在此便一无所有。这整个世界确实不能与自我相比。

1.172.40

स कुरुष्व मया कार्यं तारयात्मानमात्मना ।
अनुजानीही मामार्य सुतौ मे परिपालय ॥ १.१७२.४० ॥

因此,请通过我履行你的职责;以你自己救度你自己。尊贵者啊,请允许我离去,并保护我的两个儿子。

1.172.41

अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये ।
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥ १.१७२.४१ ॥

精通法者在裁定法时说,女人不可杀害;关于懂法的罗刹,他们说他也不该杀我。

1.172.42

निःसंशयं वधः पुंसां स्त्रीणां संशयितो वधः ।
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥ १.१७२.४२ ॥

杀害男子是确定的,杀害女子则是可疑的。因此,懂法者啊,你应当派我去。

1.172.43

भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया ।
त्वच्छुश्रूषणसंभूता कीर्तिश्चाप्यतुला मम।
त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितं ॥ १.१७२.४३ ॥

我享受了可爱的快乐,践行了法;因侍奉你,我获得了无与伦比的名声。从你所生的可爱子嗣已为我所得;没有你而活着,也不会让我痛苦。

1.172.44

जातपुत्रा च वृद्धा च प्रियकामा च ते सदा ।
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥ १.१७२.४४ ॥

儿子已经出生,我也年老了,并且一直希望你快乐。仔细考虑了这一切之后,我下定了这个决心。

1.172.45

उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम् ।
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥ १.१७२.४५ ॥

高贵者啊,即便你抛弃我,你也会再娶另一位妻子;那时你的法将再次确立。

1.172.46

न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् ।
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥ १.१७२.४६ ॥

善良者啊,男子拥有多位妻子并非罪过;但女子背弃前夫却是极大的罪过。

1.172.47

एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् ।
आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ ॥ १.१७२.४७ ॥

仔细考虑这一切之后,请放弃这可鄙的自我牺牲;现在就快快拯救你自己、家族,以及这两个儿子。

1.172.48

एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत ।
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥ १.१७२.४८ ॥

她这样说了之后,婆罗多啊,丈夫拥抱了她,极其悲伤地与妻子一同慢慢流下了眼泪。

1.172.49

मैवं वद त्वं कल्याणि तिष्ठ चेह सुमध्यमे ।
न तु भार्यां त्यजेत्प्राज्ञः पुत्रान्वापि कदाचन ॥ १.१७२.४९ ॥

善良的女子啊,不要这样说;苗条的女子啊,留在这里吧。智者绝不应抛弃妻子或儿子。

1.172.50

विशेषतः स्त्रियं रक्षेत्पुरुषो बुद्धिमानिह ।
त्यक्त्वा तु पुरुषो जीवेन्न हातव्यानिमान्सदा।
न वेत्ति कामं धर्मं च अर्थं मोक्षं च तत्त्वतः ॥ १.१७२.५० ॥

智慧的人尤其应当保护妻子。若抛弃她们而生活的人,决不应舍弃这些人。不能真正了解欲望、法、财富与解脱的人,便是迷惑的。