Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.183

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.183.1

एतच्छ्रुत्वा ततः सर्वे पाण्डवा भरतर्षभ ।
मनसा द्रौपदीं जग्मुरनङ्गशरपीडिताः ॥ १.१८३.१ ॥

众般evenly听闻此言,婆罗多族的雄牛啊,般度五子皆为爱神之箭所伤,心中向德劳帕蒂而去。

1.183.2

ततस्तां रजनीं राजञ्छल्यविद्धा इवाभवन् ।
सर्वे चास्वस्थमनसो बभूवुस्ते महाबलाः ॥ १.१८३.२ ॥

王啊,那一夜,所有那些大力者仿佛被尖刺所刺,心神不宁。

1.183.3

ततः कुन्ती सुतान्दृष्ट्वा सर्वांस्तद्गतचेतसः ।
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥ १.१८३.३ ॥

于是,言语诚实的贡蒂见诸子心皆系于彼,便对坚战说了这些话。

1.183.4

चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने ।
रममाणाः पुरे रम्ये लब्धभैक्षा महात्मनः ॥ १.१८३.४ ॥

我们在此一位婆罗门家中住了很久,在这美丽的城中欢乐,从那位伟大的人那里得到了施食。

1.183.5

यानीह रमणीयानि वनान्युपवनानि च ।
सर्वाणि तानि दृष्टानि पुनःपुनररिन्दम ॥ १.१८३.५ ॥

此地所有可爱的森林与园林,敌人的制服者啊,我们已一再观看。

1.183.6

पुनर्दृष्टानि तानीह प्रीणयन्ति न नस्तथा ।
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥ १.१८३.६ ॥

此地虽再次见到它们,却不再如以前那样令我们欢喜;而施食,英雄啊,库鲁之乐啊,也不再像以前那样容易得到。

1.183.7

ते वयं साधु पञ्चालान्गच्छाम यदि मन्यसे ।
अपूर्वदर्शनं वीर रमणीयं भविष्यति ॥ १.१८३.७ ॥

若你认为可以,我们便去般遮罗国吧;英雄啊,那里将有前所未见的景象,令人愉悦。

1.183.8

सुभिक्षाश्चैव पञ्चालाः श्रूयन्ते शत्रुकर्शन ।
यज्ञसेनश्च राजाऽसौ ब्रह्मण्य इति सुश्रुम ॥ १.१८३.८ ॥

降敌者啊,我们听说般遮罗国丰饶乞食有所得,而那位国王祭那(Yajñasena)敬重婆罗门,这是我们所闻。

1.183.9

एकत्र चिरवासश्च क्षमो न च मतो मम ।
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ॥ १.१८३.९ ॥

在一处久留,依我看不合适;所以孩子,若你认为可行,我们便去那里吧。

1.183.10

भवत्या यन्मतं कार्यं तदस्माकं परं हितम् ।
अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥ १.१८३.१० ॥

你所认为应当做的,对我们便是最大的利益;但我不知道我的弟弟们是否愿意去。

1.183.11

ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा ।
उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ॥ १.१८३.११ ॥

于是贡蒂对婆罗摩萨那、阿周那和双生子说,他们也便说:“好,我们去。”

1.183.12

तत आमन्त्र्य तं विप्रं कुन्ती राजसुतैः सह ।
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥ १.१८३.१२ ॥

随后,贡蒂向那位婆罗门告别,与王子们一同启程,前往高尚的德鲁帕达的美丽城市。