Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.200

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.200.1

ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः ।
तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम्।
प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम् ॥ १.२००.१ ॥

于是,那五位如虎中之人的般度兄弟,让婆罗门走在前面,前往观看般遮罗公主的选婿大会,以及那片举行盛大庆典的国土。

1.200.2

ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् ।
ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा ॥ १.२००.२ ॥

那时,英勇的般度诸子在路上看见了那位大德、纯净、无瑕的毗耶娑(双岛仙)。

1.200.3

तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः ।
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥ १.२००.३ ॥

他们依礼敬奉了他,也受到他的敬待,谈话结束时得到许可,便向德鲁帕达的国土出发了。

1.200.4

पश्यन्तो रमणीयानि वनानि च सरांसि च ।
तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः ॥ १.२००.४ ॥

他们一边观赏美丽的森林和湖泊,一边在各处停留,这些大战车武士缓缓前行。

1.200.5

स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः ।
आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः ॥ १.२००.५ ॥

他们专心诵习吠陀,心地纯净,温和而言语悦人,般度之子依次抵达了般遮罗之地。

1.200.6

ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः ।
कुम्भकारस्य शालायां निवासं चक्रिरे तदा ॥ १.२००.६ ॥

般度诸子看见那座城市和营地后,便在一位陶工的屋棚里住了下来。

1.200.7

तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः ।
तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित् ॥ १.२००.७ ॥

他们在那里以婆罗门的生活方式乞讨化缘;那些到来的英雄,人们在任何地方都没有认出他们。

1.200.8

यज्ञसेनस्तु पाञ्चालो भीष्मद्रोमकृतागसम् ।
ज्ञात्वाऽऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमां ॥ १.२००.८ ॥

然而般遮罗王祠那塞那(德鲁帕达)曾被毗湿摩和德罗纳所伤害,他知道自己的处境,便忍耐着开始为自保而采取行动。

1.200.9

अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत् ।
स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत् ॥ १.२००.९ ॥

得到了德里斯塔俱姆那之后,他没有再去顾虑德罗纳;但因仇怨的牵连,他开始担心毗湿摩带来的危险。

1.200.10

कन्यादानात्तु शरणं सोऽमन्यत महीपतिः ।
यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने ॥ १.२००.१० ॥

那位国王认为,通过嫁女可以获得庇护;而般遮罗王祠那塞那的心愿,则在于戴冠的般度之子阿周那。

1.200.11

दास्यामि कृष्मामिति वै न चैनं विवृणोति सः ।
जामातृबलसंयोगं मेने हि बलवत्तरम् ॥ १.२००.११ ॥

他心想:“我要把克利希那(黑公主)嫁出去。”但他并没有将此告诉对方;因为他认为与女婿联合的力量更为强大。

1.200.12

सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय ।
दृढं धनुरथानम्यं कारयामास भारत ॥ १.२००.१२ ॥

般遮罗王为寻找贡蒂之子,命人制作了一张坚固的弓,此弓无法拉开。哦,瞻部洲之王,婆罗多的后裔,阁下啊。

1.200.13

वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः ।
तद्धनुः किन्धुरं नाम देवदत्तमुपानयत् ॥ १.२००.१३ ॥

维亚格拉帕底雅之后的斯如阇耶王,命人取来那把名为“坚都罗”的可怖神弓,那是诸神所赐。

1.200.14

आयसी तस्य च ज्याऽऽसीत्प्रतिबद्धा महाबला ।
न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत् ॥ १.२००.१४ ॥

它的弓弦是铁制的,紧紧缚着,极其坚韧;别人无法拉开此弦——它是最殊胜的大弓。

1.200.15

शङ्करेण वरं दत्तं प्रीतेन च महात्मना ।
तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः ॥ १.२००.१५ ॥

大心的湿婆(Śaṅkara)心悦而赐予恩惠;“此恩不可落空”——怀着这份信念,他前来了。

1.200.16

मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम् ।
इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम् ॥ १.२००.१६ ॥

“我现在必须完成那困难的射中目标之事。”心中如此决定后,他命人制作了一个极佳的靶子。

1.200.17

यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् ।
तेन यन्त्रेण सहितं राजँल्लक्ष्यं च काञ्चनम् ॥ १.२००.१७ ॥

他又命人制作了一个悬于空中的人造机关;大王啊,与此机关相连的,是一个金色的靶子。

1.200.18

इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः ।
अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति ॥ १.२००.१८ ॥

谁拉开此弓,以这些备好的箭射穿靶子而过,谁便能得到我的女儿。

1.200.19

इति स द्रुपदो राजा स्वयंवरमघोषयत् ।
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥ १.२००.१९ ॥

于是德鲁帕达王宣布了自选夫婿大会。诸王闻讯,齐聚于彼,婆罗多啊。

1.200.20

ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः ।
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ॥ १.२००.२० ॥

渴望观看自选夫婿大会的大德仙人前来,以难敌为首、偕同迦尔纳的俱卢族人也来了,国王啊。

1.200.21

यादवा वासुदेवेन सार्धमन्धकवृष्णयः ।
ततोऽर्चिता राजगुणा द्रुपदेन महात्मना ॥ १.२००.२१ ॥

耶达瓦、安陀迦与毗叙尼族人与婆苏提婆同来;随后,大德德鲁帕达以礼款待了他们。

1.200.22

उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम् ।
ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् ॥ १.२००.२२ ॥

坐在看台上、渴望观看自选夫婿大会的人,以及从各地前来的大福德婆罗门,都来了。

1.200.23

ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन् ।
त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्न्यवस्थिताः ॥ १.२००.२३ ॥

般度五子与婆罗门一同就座;三十三位天神全都乘着天车,停驻在空中。

1.200.24

ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः ।
शिंशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः ॥ १.२००.२४ ॥

于是城中百姓,如海潮般喧声震天,到达鳄首门,入内就座;诸王也是如此。

1.200.25

प्रागुत्तरेण नगराद्भूमिभागे समे शुभे ।
समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥ १.२००.२५ ॥

在城市的东北方,于一块平坦吉祥的土地上,集会场(samāja-vāṭa)光彩照人,四周环绕着建筑。

1.200.26

प्राकारपरिखोपेतो द्वारतोरणमण्डितः ।
वितानेन विचित्रेण सर्वतः समलङ्कृतः ॥ १.२००.२६ ॥

设有城墙和护城河,以门户和牌坊装饰,四周以五彩华盖精心妆点。

1.200.27

तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः ।
चन्दनोदकसिक्तश्च माल्यदामोपशोभितः ॥ १.२००.२७ ॥

充满数百道乐器之声,以上等沉香焚香熏染,洒有檀香水,并以花环增辉。

1.200.28

कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः ।
सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै ॥ १.२००.२८ ॥

四周环绕着洁白、精工建造的高耸宫殿,它们如同冈仁波齐峰的山顶,几乎擦过天空。

1.200.29

सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः ।
सुखारोहणसोपानैर्महासनपरिच्छदैः ॥ १.२००.२९ ॥

四周环绕金色格栅,以嵌宝地面装饰,有易于攀登的台阶,并配备着大型座椅的陈设。

1.200.30

स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः ।
हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः ॥ १.२००.३० ॥

覆以串串花环,散发上等沉香的芬芳,有许多如天鹅光辉般洁白的殿宇,香气远播一由旬之地。

1.200.31

असंबाधशतद्वारैः शयनासनशोभितैः ।
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥ १.२००.३१ ॥

有百门,宽敞,以卧榻和座席装饰,犹如喜马拉雅的山峰,身披众多矿物的色彩。

1.200.32

तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः ।
स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः ॥ १.२००.३२ ॥

在那里,所有王者在各式华美的宫殿中坐下,彼此相互争胜。

1.200.33

तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः ।
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥ १.२००.३३ ॥

在那里,平民看见了端坐的诸王:王中雄狮,大智大福,以黑沉香装饰。

1.200.34

महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः ।
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥ १.२००.३४ ॥

大恩慈,敬重婆罗门,守护自国,为世界所爱,以善行和吉祥之业。

1.200.35

मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः ।
कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन् ॥ १.२००.३५ ॥

在最好的高台上,城市与乡村的人们从四面八方坐下,为了得见黑天。

1.200.36

ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् ।
ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥ १.२००.३६ ॥

与婆罗门一同,般度五子坐下,瞻仰般遮罗王那无与伦比的盛况。

1.200.37

ततः समाजो ववृधे स राजन्दिवसान्बहून् ।
रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥ १.२००.३७ ॥

于是,大王,此盛会持续了许多日子,宝物布施丰盛,并有演员与舞者增添光彩。

1.200.38

वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे ।
मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः।
पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः ॥ १.२००.३८ ॥

盛会正在进行之时,在那美好的第十六日,于弥陀罗吉时,精通古礼、有子嗣、衣着华美的王妃们开始为她梳妆。

1.200.39

वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा ।
सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः ॥ १.२००.३९ ॥

此时,坐在琉璃宝座上的德罗波蒂,在乐声中,以盛于金瓶的水为她沐浴。

1.200.40

तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम् ।
निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम् ॥ १.२००.४० ॥

沐浴既毕,她身着两件丝衣,被引至饰有宝石柱的华美祭坛。

1.200.41

निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः ।
केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन् ॥ १.२००.४१ ॥

她们使她面向东方,欢喜地坐下,满眼惊叹的侍女们彼此相视,议论着该以何种饰物装扮她。

1.200.42

धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन् ।
बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः ॥ १.२००.४२ ॥

借香烟的暖气,她们拭去发上的湿气,并以芬芳的花环绾好她的发髻。

1.200.43

दूर्वामधूकरचितं माल्यं तस्या ददुः करे ।
चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये ॥ १.२००.४३ ॥

他们把一串以dūrvā草和madhūka花编成的花环放入她手中,又用黑沉香在她双乳上画出叶形纹饰。

1.200.44

रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा ।
अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ ॥ १.२००.४४ ॥

她光彩照人,印有cakravāka鸟的标记,金色而修长,如同河流中最殊胜的一条;她卷曲的发丝映衬着盛开般的面容,熠熠生辉。

1.200.45

आसक्तभृङ्गं कुसुमं शशिम्बिम्बं जिगाय तत् ।
कालाञ्जनं नयनयोराचारार्थं समादधुः ॥ १.२००.४५ ॥

她的面容如同沾满蜜蜂的花朵,甚至胜过月轮;依照习俗,他们为她的双眼涂上黑色眼膏。

1.200.46

भूषणं रत्नखचितैरलंचक्रुर्यथोचितम् ।
माता च तस्याः पृषती हरितालमनश्शिलाम् ॥ १.२००.४६ ॥

他们用镶嵌宝石的饰物恰当地装饰她;她的母亲Pṛṣatī则给了雄黄和雌黄。

1.200.47

अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे ।
अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः ॥ १.२००.४७ ॥

她用两根手指取来,在她的脸上点了一个提拉卡印记;看到盛装的新娘,女人们都欢喜起来。

1.200.48

माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति ।
सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः ॥ १.२००.४८ ॥

她的母亲并不欢喜,心想:“她的丈夫将会是怎样的人?”随后,依德鲁帕达的命令,索维达拉们聚集而来。

1.200.49

एनामारोपयामासुः करिणीं कुचभूषिताम् ।
ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन् ॥ १.२००.४९ ॥

他们把她扶上一头胸前饰有装饰的母象,于是吉祥的乐器响起,直上天空。

1.200.50

विलासिनीजनाश्चापि प्रवरं करिणीशतम् ।
माङ्गल्यगीतं गायन्त्यः पार्स्वयोरुभयोर्ययुः ॥ १.२००.५० ॥

美丽的女子们也与数百头优良的母象一起,唱着吉祥的歌,行走在两旁。

1.200.51

जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः ।
कोलाहलो महानासीत्तस्मिन्पुरवरे तदा ॥ १.२००.५१ ॥

忙于驱散人群的守门人先行而去;那时,在那座优越的城中,响起了巨大的喧哗。

1.200.52

धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत ।
द्रुपदो रङ्गदेशे तु बलेन महता युतः ॥ १.२००.५२ ॥

婆罗多之子啊,德利斯塔德尤姆那骑马走在前面;而德鲁波达率领庞大军队前往竞技场。

1.200.53

तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः ।
आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम् ॥ १.२००.५३ ॥

他布下大军的阵列站立,由坚强的弓箭手守卫;她身体沐浴洁净,衣着华美,佩戴全部饰物。

1.200.54

मालां च समुपादाय काञ्चनीं समलङ्कृताम् ।
आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम् ॥ १.२००.५४ ॥

她手持一串装饰精美的金色花环而来;所有人都看见她走入装饰一新的竞技场。

1.200.55

अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ।
तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले।
प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा ॥ १.२००.५५ ॥

婆罗多之牛啊,then德劳帕蒂走下赛场,站在赛场圆圈中,以羞涩的斜视望着所有欢喜的国王,对观看者而言极为迷人。

1.200.56

पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः ।
परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा ॥ १.२००.५६ ॥

索摩迦的祭司,精通咒语的纯洁婆罗门,此时铺开圣草,依仪轨以酥油向火中献祭。

1.200.57

संतर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च ।
वारयामास सर्वाणि वादित्राणि समन्ततः ॥ १.२००.५७ ॥

他既以祭品满足了熊熊之火,又让婆罗门诵念祝福吉语,随即令四方所有乐器停止。

1.200.58

निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशांपते ।
कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः ॥ १.२००.५८ ॥

人主啊,当那里完全寂静之后,声如云雷与鼓声的德里斯塔德尤姆纳依礼带着黑公主,

1.200.59

रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा ।
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥ १.२००.५९ ॥

他走到赛场中央,以如云般低沉的声音大声说出这些优美、柔和而富有意义的话语。

1.200.60

इदं धनुर्लक्ष्यमिमे च बाणाः ।
शृण्वन्तु मे भूपतयः समेताः।
छिद्रेण यन्त्रस्य मसर्पयध्वं ।
शरैः शितैर्व्योमचरैर्दशार्धैः ॥ १.२००.६० ॥

这是弓,这是靶,这些是箭。请集会的诸王听我说:借着机关的孔眼,以锐利、飞翔于天空的箭,十支或半十支地向前射击。

1.200.61

एतन्महत्कर्म करोति यो वै ।
कुलेन रूपेण बलेन युक्तः।
तस्याद्य भार्या भगिनी ममेयं ।
कृष्णा भवित्री न मृषा ब्रवीमि ॥ १.२००.६१ ॥

谁能完成这一伟大之举,并具备高贵的出身、容貌与力量,谁今日便将成为我妹妹黑天女(Kṛṣṇā)的夫婿。我所言不虚。

1.200.62

तानेवमुक्त्वा द्रुपदस्य पुत्रः ।
पश्चादिदं तां भगिनीमुवाच।
नाम्ना च गोत्रेण च कर्मणा च ।
संकीर्तयन्भूमिपतीन्समेतान् ॥ १.२००.६२ ॥

德鲁帕达之子对众人如此说罢,随后又对他的妹妹说了这番话,同时宣述在场各位地上君主的名号、族系与功业。