摩诃婆罗多 · 章 1.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.21.1
ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ ।
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥ १.२१.१ ॥
此后,夜尽天明,太阳升起时,迦德卢与毗娜塔这两位姐妹,啊,苦行丰盛的仙人!
1.21.2
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा ।
स्मगरस्य परं पारं वेलावनविभूषितम्।
जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात् ॥ १.२१.२ ॥
于是二人心怀怨怒、极为激动,以奴役为赌注,从近处前往海的远岸,那里被岸边的树林装点,去看神马乌伽伊什拉瓦斯。
1.21.3
ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम् ।
महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम् ॥ १.२१.३ ॥
于是她们在那里看见大海,那水之宝藏,广大、水深不可测,翻腾起伏,发出巨大的轰鸣。
1.21.4
तिमिंगिलझषाकीर्णं मकरैरावृतं तथा ।
सत्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् ॥ १.२१.४ ॥
布满帝明伽罗与鱼类,被摩伽罗环绕,同样被成千上万种形态各异的生物所覆盖。
1.21.5
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा ।
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥ १.२१.५ ॥
可怖、丑陋,还有其他恐怖的水栖生物,凶猛的生物,始终不可侵犯,充满龟与鳄鱼。
1.21.6
आकरं सर्वरत्नानामालयं वरुणस्य च ।
नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥ १.२१.६ ॥
一切宝石之矿,伐楼那的居所,龙族可爱而至上的住处,诸河之主。
1.21.7
पातालज्वलनावासमसुराणां च बान्धवम् ।
भयंकरं च सत्त्वानां पयसां निधिमर्णवम् ॥ १.२१.७ ॥
地底火焰的住所,阿修罗的亲族,令众生恐惧,水之宝库,大海。
1.21.8
शुभं दिव्यममर्त्यानाममृतस्याकरं परम् ।
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥ १.२१.८ ॥
吉祥而神圣,是不死者甘露的至上源泉,不可度量,不可思议,水极为纯净,奇妙无比。
1.21.9
घोरं जलचरारावरौद्रं भैरवनिःस्वनम् ।
गम्भीरावर्तकलिलं सर्वभूतभयंकरम् ॥ १.२१.९ ॥
可怖的,因水族的咆哮而狂暴,发出恐怖的声响,充满深邃的漩涡,令一切众生恐惧。
1.21.10
वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम् ।
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः ॥ १.२१.१० ॥
被摇动海岸的风吹得颠簸,因骚动与不安而高高涌起,仿佛以移动的波浪之手四处起舞。
1.21.11
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिसमाकुलम् ।
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥ १.२१.११ ॥
随月之盈亏而翻涌,波涛汹涌,是般遮衍那海螺的诞生之地,宝石之矿,无与伦比。
1.21.12
गां विन्दता भगवता गोविन्देनामितौजसा ।
वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥ १.२१.१२ ॥
当具有无量威力的世尊戈文达,以野猪之形夺回大地时,搅动并使内部的水变得浑浊。
1.21.13
ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा ।
अनासादितगाधं च पातालतलमव्ययम् ॥ १.२१.१३ ॥
持戒的梵仙阿特里经过百年,仍未能探到那不朽大海的深度,其底直达冥界。
1.21.14
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः ।
युगादिकालशयनं विष्णोरमिततेजसः ॥ १.२१.१४ ॥
无量光明的毗湿奴、脐生莲花者,在每一劫之初沉入内在瑜伽之眠。
1.21.15
वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम् ।
डिम्बाहवार्दितानां च असुराणां परायणम् ॥ १.२१.१५ ॥
他庇护被金刚杵击打所惊吓的摩奈迦,并成为在雷姆巴之战中受苦的阿修罗的归宿。
1.21.16
बडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम् ।
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥ १.२१.१६ ॥
以水为祭品供奉巴达瓦穆卡炽烈之火,吉祥、深不可测、无边无际、广阔、不可度量,是河流之主。
1.21.17
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः ।
अभिसार्यमाणमनिशं ददृशाते महार्णवम्।
आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः ॥ १.२१.१७ ॥
仿佛相互竞争,成千上万条大河不停地奔向那片大海;二人看见它满溢着,仿佛随波起舞。
1.21.18
गम्भीरं तिमिमकरोग्रसंकुलं तं ।
गर्जन्तं जलचररावरौद्रनादैः।
विस्तीर्णं ददृशतुरम्बरप्रकाशं ।
तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥ १.२१.१८ ॥
深邃、充满凶猛的提弥鱼与摩羯鱼、以水族的凶暴吼声咆哮、广阔而如天空般光明——二人看见那无法探测、浩大无边的水之宝藏。