Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.220

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.220.1

दुर्योधनेनैवमुक्तः कर्णेन च विशांपते ।
पुत्रं च सूतपुत्रं च धृतराष्ट्रोऽब्रवीदिदम् ॥ १.२२०.१ ॥

诸王之主啊,难敌与迦尔纳如此说罢,持国王便对儿子和御者之子说了这番话。

1.220.2

अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम् ।
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ॥ १.२२०.२ ॥

我也想做你们二人所希望的事,但我不想在维杜拉面前透露你们的意图。

1.220.3

ततस्तेषां गुणानेव कीर्तयामि विशेषतः ।
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः ॥ १.२२०.३ ॥

因此我将特别称赞他们的德行,使维杜拉即使从我的手势中也无法察觉我的意图。

1.220.4

यच्च त्वं मन्यसे प्राप्तं तद्ब्रवीहि सुयोधन ।
राधेय मन्यसे यच्च प्राप्तकालं वदाशु मे ॥ १.२२०.४ ॥

苏耶陀那啊,你认为已经得到的,请说出来;罗陀之子啊,你认为合乎时机的,请快快告诉我。

1.220.5

अद्य तान्कुशलैर्विप्रैः सुगुप्तैराप्तकारिभिः ।
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ॥ १.२२०.५ ॥

今天,让我们借助熟练、隐秘而可靠的婆罗门,在贡提之子与摩德利之子两位般度子之间挑起不和。

1.220.6

अथवा द्रुपदो राजा महद्भिर्वित्तसंचयैः ।
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ॥ १.२२०.६ ॥

或者,让国王德鲁帕达以巨额财富来收买,也让他的儿子们和大臣们全面地被收买。

1.220.7

परित्यजेद्यथा राजा कुन्तीपुत्रं युधिष्ठिरम् ।
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ॥ १.२२०.७ ॥

如同国王抛弃贡蒂之子坚战,或让他们就在那里选择住处。

1.220.8

इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् ।
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ॥ १.२२०.८ ॥

让他们在此分别描述其有过失的住处;让般度之子们在那里分化,改变心意。

1.220.9

अथवा कुशळाः केचिदुपायनिपुणा नराः ।
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ॥ १.२२०.९ ॥

或者让一些精通权谋、善用手段的人,借助亲近之情,使普利塔之子彼此离间。

1.220.10

व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् ।
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ॥ १.२२०.१० ॥

或者让人使黑天女(德罗波蒂)离开他们——因为他们人多,这很容易;或者让般度五子因她而彼此离间。

1.220.11

भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः ।
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ॥ १.२२०.११ ॥

大王啊,或者让精通权谋的人暗中安排毗摩森那之死;因为他是他们之中最有力量的。

1.220.12

तमाश्रित्य हि कौन्तेयः पुरा चास्मान्न मन्यते ।
सहि तीक्ष्णश्च शूरश्च तेषां चैव परायणम् ॥ १.२२०.१२ ॥

凭借他,贡蒂之子从前就不把我们放在眼里;他凶猛而勇武,确实是他们的依靠。

1.220.13

तस्मिंस्त्वभिहते राजन्हतोत्साहा हतौजसः ।
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ॥ १.२२०.१३ ॥

大王啊,他一旦被杀,他们将丧失斗志与力量;因为他是他们的依靠,他们便不会再为王国而努力。

1.220.14

अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे ।
तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक् ॥ १.२२०.१४ ॥

在战场上阿周那不可战胜,后方则由狼腹(婆罗多之子怖军)守护;没有他,频伽那在战争中便不敌罗陀之子。

1.220.15

ते जानानास्तु दौर्बल्यं भीमसेनमृते महत् ।
अस्मान्बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः ॥ १.२२०.१५ ॥

他们知道没有怖军自己便十分软弱,又知道我们强大,这些弱者便不会再努力。

1.220.16

इहागतेषु वा तेषु निदेशवशवर्तिषु ।
प्रवर्तिष्यामहे राजन्यथाशास्त्रं निबर्हणम् ॥ १.२२०.१६ ॥

或者他们来到此地并服从命令,大王啊,我们便依照经典行事,去制伏他们。

1.220.17

दर्पं वा वदतां तेषां केचिदत्र मनस्विनः ।
द्रुपदस्यात्मजा राजन्प्रभिद्यन्ते ततः परैः ॥ १.२२०.१७ ॥

或者他们中间那些高傲的人口出狂言,大王啊,那么德鲁帕达的某些儿子便会被他人从他们之中分离出去。

1.220.18

अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् ।
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् ॥ १.२२०.१८ ॥

或者用美丽的女子去诱惑他们;让每一位昆提之子都在那里被诱惑,然后让黑天女(德劳帕蒂)对他们心生厌离。

1.220.19

प्रेष्यतां चैव राधेयस्तेषामागमनाय वै ।
तैस्तैः प्रकारैः सन्नीय पात्यन्तामाप्तकारिभिः ॥ १.२२०.१९ ॥

也派遣罗陀之子迦尔纳去迎接他们。用种种方法将他们聚集,再由可靠的人使他们陷落。

1.220.20

एतेषामप्युपायानां यस्ते निर्दोषवान्मतः ।
तस्य यप्रोगमातिष्ठ पुरा कालोऽतिवर्तते ॥ १.२२०.२० ॥

这些方法中,你认为无可非议的,就去实行;时间已经在流逝了。

1.220.21

यावद्ध्यकृतविश्वासा द्रुपदे पार्थिवर्षभे ।
तावदेव हि ते शक्या न शक्यास्तु ततः परम् ॥ १.२२०.२१ ॥

只要尚未赢得国王中的雄牛德鲁帕达的信任,他们才可能被制服;此后便不可能了。

1.220.22

एषा मम मतिस्तात निग्रहाय प्रवर्तते ।
साध्वी वा यदि वाऽसाध्वी किं वा राधेय मन्यसे ॥ १.२२०.२२ ॥

父亲,这是我的意见,旨在制服他们。无论它恰当与否,罗陀之子啊,你以为如何?