Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.256

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.256.1

ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः ।
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥ १.२५६.१ ॥

当大火熊熊燃烧时,沙朗伽鸟深感悲痛、惶恐不安,找不到任何庇护之所。

1.256.2

निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी ।
जरिता शोकदुःखार्ता विललाप सुदुःखिता ॥ १.२५६.२ ॥

看到年幼的儿子们,他们的母亲苦行女जरिता被悲痛折磨,极度悲伤地哀叹起来。

1.256.3

अयमग्निर्दहन्कक्षमित आयाति भीषणः ।
जगत्संदीपयन्भीमो मम दुःखविवर्धनः ॥ १.२५६.३ ॥

这场可怕的大火正焚烧着灌木丛向这里蔓延而来;这燃遍世界的恐怖烈火,加重了我的痛苦。

1.256.4

इमे च मां कर्षयन्ति शिशवो मन्दचेतसः ।
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः ॥ १.२५६.४ ॥

这些心智愚钝的幼崽拉扯着我;它们没有羽翼,双足也无力,却是我们祖先的依靠。

1.256.5

त्रासयंश्चायमायाति लेलिहानो महीरुहान् ।
अजातपक्षाश्च सुता न शक्ताः सरणे मम ॥ १.२५६.५ ॥

这火焰舔舐着树木,散布恐怖而来;我那尚未长出羽翼的儿子们无法逃走。

1.256.6

आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना ।
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे ॥ १.२५६.६ ॥

我抱起儿子们也无法独自带他们脱险,却又不忍心抛下他们;我的心仿佛在焚烧。

1.256.7

कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ।
किंनु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् ॥ १.२५६.७ ॥

我该舍弃哪个儿子,又该带走哪个?孩子们,我该怎么办?请想想该如何是好。

1.256.8

चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन ।
छादयिष्यामि वो गात्रैः करिष्ये मरणं सह ॥ १.२५६.८ ॥

我反复思索,却找不到使你们脱离的办法。我将用身体遮盖你们,与你们一同死去。

1.256.9

जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम् ।
सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः ॥ १.२५६.९ ॥

在遮利塔的家族中,这一世系因长子而得以确立。愿萨里斯利克诞生,为祖先的家族增光。

1.256.10

स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदां वरः ।
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥ १.२५६.१० ॥

愿斯坦巴弥特罗修苦行,愿通晓梵的最优者德罗纳也修苦行。说完这话,你们那无情的父亲早已离去。

1.256.11

कमुपादाय शक्येयं गन्तुं कष्टाऽऽपदुत्तमा ।
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला।
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् ॥ १.२५६.११ ॥

我能带着谁离去呢?这是多么痛苦而极大的灾难!做什么才能完成该做的事?

1.256.12

एवं ब्रुवाणां शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ।
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् ॥ १.२५६.१२ ॥

母亲这样说时,沙尔伽诸子回答她:“母亲,请舍弃恋慕,去往火焰无法到达之处吧。”

1.256.13

अस्मास्विह विनष्टेषु भवितारः सुतास्तव ।
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ॥ १.२५६.१३ ॥

若我们在此毁灭,你的儿子们仍会存在;但母亲啊,若你毁灭,我们家族的延续便不复存在。

1.256.14

अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः ।
तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥ १.२५६.१४ ॥

权衡这两者,凡能为我家族带来福祉的,才应当去做;母亲啊,这正是你做此事的最好时机。

1.256.15

मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः ।
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥ १.२५६.१५ ॥

不要因对我们的爱而成为众人毁灭的根源;这件事对于愿世界安好的我们的父亲而言,不会徒劳。

1.256.16

इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः ।
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥ १.२५६.१६ ॥

这棵树旁的地下有一个鼹鼠洞;你们快快进入其中,在那里你们不必畏惧火焰。

1.256.17

ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः ।
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥ १.२५६.१७ ॥

然后我会用尘土将洞口封住,孩子们;我想这样便是对那燃烧着、走着黑色道路的火焰的报复。

1.256.18

तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुशंचयम् ।
रोचतामेष वो वादो मोक्षार्थं च हुताशनात् ॥ १.२५६.१८ ॥

待火焰过去后,我便来清除那堆尘土;愿你们喜欢这个主意,以及这个摆脱火焰的办法。

1.256.19

अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् ।
पश्यमाना भयमिदं प्रवेष्टुं नात्र शक्नुमः ॥ १.२५६.१९ ॥

我们是血肉之躯,不配;食肉的老鼠会毁灭我们。见到这种恐惧,我们无法进入此处。

1.256.20

कथमग्निर्न नो धक्ष्येत्कथमाखुर्न नाशयेत् ।
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥ १.२५६.२० ॥

火怎么会不烧我们?老鼠怎么会不毁灭我们?我们的父亲怎会徒劳,我们的母亲又怎会得以供养?

1.256.21

बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् ।
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥ १.२५६.२१ ॥

老鼠洞中有毁灭,而飞行于天空者则因火而毁灭。权衡二者,焚烧胜于被吞食。

1.256.22

गर्हितं मरणं नः स्यादाखुना भक्षिते बिले ।
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥ १.२५६.२२ ॥

若在洞中被老鼠吞食,我们的死将可耻。智者所规定的舍弃身体,是通过火来完成的。

1.256.23

अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः ॥ १.२५६.२३ ॥

然而在火中焚烧,必定可得通往梵天世界的确定归宿。