Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.3.1

सौतिरुवाच ।
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते।
तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति ।
तेषु तत्सत्रमुपासीनेष्वभ्यागच्छत्सारमेयः ॥ १.३.१ ॥

ソウティは言った:パリークシタの子ジャナメージャヤは、兄弟たちとともにクル野で長い祭祀を行っていた。彼には三人の兄弟がいた。シュルタセーナ、ウグラセーナ、ビーマセーナである。彼らがその祭祀に従事していたとき、一匹の犬が近づいてきた。

1.3.2

जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् ॥ १.३.२ ॥

ジャナメージャヤの兄弟たちに打たれ、それは泣き叫びながら母のもとへ行った。

1.3.3

तं माता रोरूयमाणमुवाच ।
किं रोदिषि केनास्यभिहत इति ॥ १.३.३ ॥

泣いているそれに母は言った。「なぜ泣くのか。誰がお前を打ったのか。」

1.3.4

स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति ॥ १.३.४ ॥

そう問われて、それは母に答えた。「ジャナメージャヤの兄弟たちに打たれたのです。」

1.3.5

तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति ॥ १.३.५ ॥

母は答えた。「きっとお前はそこで何かの過ちを犯したのだろう、だから打たれたのだ。」

1.3.6

स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति ॥ १.३.६ ॥

それは再び母に言った。「私は何の過ちも犯していません。供物を見もせず、舐めもしませんでした。」

1.3.7

तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते ॥ १.३.७ ॥

これを聞いて、息子の苦しみに打ちひしがれた母サラマーは、ジャナメージャヤが兄弟たちと長いサトラ祭を行っている祭場へ赴いた。

1.3.8

स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति ॥ १.३.८ ॥

すると、怒った彼女はそこで言った。「私の息子は何の過ちも犯していない。供物を見もせず、舐めもしない。なぜ打ったのか。」

1.3.9

न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति ॥ १.३.९ ॥

彼らは何も言わなかった。そこで彼女は言った。「この罪なき者が打たれたゆえ、おまえたちには見えぬ恐怖が降りかかるだろう。」

1.3.10

जनमेजय एवमुक्तो देवशुन्या सरमया भृशं संभ्रान्तो विषण्णश्चासीत् ॥ १.३.१० ॥

神の雌犬サラマーにこう言われ、ジャナメージャヤは大いに動揺し、気落ちした。

1.3.11

स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति ॥ १.३.११ ॥

その祭会が終わると、彼はハースティナープラに戻り、私のこの罪深い行いを鎮めうる適任の祭官を求めて大いに努めた。

1.3.12

स कदाचिन्मृगयां गतः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत् ॥ १.३.१२ ॥

ある時、パリークシタの子ジャナメージャヤは狩猟に出かけ、自国内のどこかで一つの庵(アーシュラマ)を見た。

1.3.13

तत्र कश्चिदृपिरासाञ्चक्रे श्रुतश्रवा नाम ।
तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम ॥ १.३.१३ ॥

そこには、シュルタシュラヴァスという名の聖仙が庵を構えていた。その息子のソーマシュラヴァスは苦行に専念している。

1.3.14

तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे ॥ १.३.१४ ॥

パリークシットの子ジャナメージャヤは、その息子のもとへ赴き、祭官の職としてその人を選んだ。

1.3.15

स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥ १.३.१५ ॥

彼はその聖仙に礼をして言った。「尊師よ、あなたのこの御子を私の祭官にしてください。」

1.3.16

स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्प्यां जातो महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः ॥ १.३.१६ ॥

そう問われると、彼はジャナメージャヤに答えた。「ジャナメージャヤよ、私のこの息子は雌蛇から生まれたのだ。彼は大苦行者で、ヴェーダの学習を備え、私の苦行の力から生じた。私の精液を飲んだその女の胎から生まれたのだ。」

1.3.17

समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् ॥ १.३.१७ ॥

マハーデーヴァの儀礼がなくとも、彼はあなたのあらゆる罪の行いを鎮めることができる。

1.3.18

अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति ॥ १.३.१८ ॥

ただし彼には一つ秘密の誓いがある。もしどのバラモンがその者に何かを求めても、彼はそれを与えねばならない。あなたがこれを受け入れる覚悟があるなら、彼を連れて行きなさい。

1.3.19

तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति ॥ १.३.१९ ॥

そう言われて、ジャナメージャヤは答えた。「尊者よ、そのようになるでしょう。」

1.3.20

स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच मयाऽयं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति ।
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः।
स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास ॥ १.३.२० ॥

彼はその祭官を連れて戻り、兄弟たちに言った。「私はこの方を師として選んだ。この方が言われることは、考えずに実行せよ。」兄弟たちは彼にそう言われて、そのとおりにした。兄弟たちにこう命じてから、彼はタクシャシラーへ向かい、その地を自分の支配下に置いた。

1.3.21

एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामापोदस्तस्य शिष्यास्त्रयो बभूवुः ॥ १.३.२१ ॥

そのころ、ダウミヤという名の聖仙がいた。またアーポダとも呼ばれ、彼には三人の弟子がいた。

1.3.22

उपमन्युरारुणिर्बैदश्चेति स एकं शिष्यंमारुणिं पाञ्चाल्यं प्रेषयामास गच्छ केदारखण्डं बधानेति ॥ १.३.२२ ॥

ウパマニユ、アールニ、バイダがその三人であった。彼はそのうちの一人、パーンチャーラのアールニを送り、言った。「行って、田の畦を修理せよ」。

1.3.23

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशकत् ।
स क्लिश्यमानोऽपश्यदुपायं भवत्वेवं करिष्यामीति ॥ १.३.२३ ॥

師に命じられたパーンチャーラのアールニはそこへ行ったが、田の畦を結び固めることができなかった。悩んだ彼は一つの方法を見いだし、「よし、そうしよう」と思った。

1.3.24

स तत्र संविवेश केदारखण्डे शयाने व तथा तस्मिंस्तदुदकं तस्थौ ॥ १.३.२४ ॥

彼はそこの畑の一区画に横たわった。そのため、そこの水はその場にとどまった。

1.3.25

ततः कदाचिदुपाध्याय आपोदो धौम्यः शिष्यावपृच्छत् क्व आरुणिः पाञ्चाल्यो गत इति ॥ १.३.२५ ॥

そののち、アーポダの子であるウパーディヤーヤ、ダウミヤは二人の弟子に尋ねた。「パーンチャーラのアールニはどこへ行ったのか?」

1.3.26

तौ तं प्रत्यूचतुर्भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति ।
स एवमुक्तस्तौ शिष्यौ प्रत्युवाच तस्मात्तत्र सर्वे गच्छामो यत्र स गत इति ॥ १.३.२६ ॥

二人は答えた。「尊いお方よ、あなたこそが彼を遣わされたのです。畑の区画を塞ぎに行けと。」そう言われて、彼は二人の弟子に言った。「ではみなで、彼の行った所へ行こう。」

1.3.27

स तत्र गत्वा तस्याह्वानाय शब्दं चकारः ।
भो आरुणे पाञ्चाल्य क्वासि वत्सैहीति ॥ १.३.२७ ॥

彼はそこへ行き、彼を呼ぶために声を上げた。「おい、パーンチャーラのアールニよ、どこにいるのか。来なさい、わが子よ!」

1.3.28

स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थायतमुपाध्यायमुपतस्थे ॥ १.३.२८ ॥

アールニは師の言葉を聞くと、すぐにその畑の区画から起き上がり、師の前に進み出て立った。

1.3.29

प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः ।
तदभिवादये भगवन्तमाज्ञापयतु भवान्कमर्थं करवाणीति ॥ १.३.२९ ॥

彼は言った。「私はここ田の畦に横たわり、止めがたく流れ出る水を堰き止めていました。尊いお方のお言葉を聞くや、たちまち畦を破って、あなたの前に参りました。そこで尊いお方よ、あなたに礼をいたします。どのような務めをすべきか、お命じください。」

1.3.31

स एवमुक्त उपाध्यायः प्रत्युवाच यस्माद्भवान्केदारखण्डं विदार्योत्थितस्तस्मादुद्दालक एवनाम्ना भवान्भविष्यतीत्युपाध्यायेनानुगृहीतः ॥ १.३.३१ ॥

このように呼びかけられて、師は答えた。「お前は田の畦を破って起き上がったのだから、その名はウッダーラカとなるであろう。」師からこのように恵みを受けて……

1.3.32

यस्माच्च त्वया मद्वचनमनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि ।
सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ॥ १.३.३२ ॥

また、お前は私の言葉を実行したのだから、幸福を得るであろう。すべてのヴェーダとすべての法典は、お前にとって明らかになるであろう。

1.3.33

स एवमुक्त उपाध्यायेनेष्टं देशं जगाम ॥ १.३.३३ ॥

師にこのように言われて、彼は望む地へと去っていった。

1.3.34

अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्योपमन्युर्नाम ।
तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो गा रक्षस्वेति ॥ १.३.३४ ॥

さらにそのアーポダ・ダウミヤには、ウパマニユという別の弟子がいた。師は彼を遣わした。「わが子ウパマニユよ、牛を守れ。」

1.3.35

स उपाध्यायवचनादरक्षद्गाः स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥ १.३.३५ ॥

師の命により彼は牛を守った。昼に牛を守り、日暮れに師の家に来て、師の前に立ち礼をした。

1.3.36

तमुपाध्यायः पीवानमपश्यदुवाच चैनं वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति ॥ १.३.३६ ॥

師は彼がふっくらと健やかなのを見て言った。「愛しいウパマンニュよ、お前はどうやって生計を立てているのか。ずいぶん太っているではないか。」

1.3.37

स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच ॥ १.३.३७ ॥

彼は師に答えた。「先生、私は托鉢によって生計を立てています。」すると師は彼に答えた。

1.3.38

मय्यनिवेद्य भैक्ष्यं नोपयोक्तव्यमिति ।
स तथेत्युक्तो भैक्ष्यं चरित्वोपाध्यायाय न्यवेदयत् ॥ १.३.३८ ॥

「私に供えずに托鉢の食物を食べてはならない。」彼は「そのようにします」と言い、托鉢をして師に報告した。

1.3.39

स तस्मादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात् ।
स तथेत्युक्तः पुनररक्षद्गा अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥ १.३.३९ ॥

すると師は彼の托鉢の食物をすべて受け取った。「そのようにせよ」と言われた彼は再び牛を守り、昼に牛を守り、夜の初めに師の住まいに来て、師の前に立ち礼をした。

1.3.40

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच ।
वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति ॥ १.३.४० ॥

師は、それでもなお肥えているのを見て言った。「わが子ウパマンユよ、お前の施しはすべて私が受け取っている。では今、お前はどうやって生計を立てているのか。」

1.3.41

स एवमुक्त उपाध्यायं प्रत्युवाच ।
भगवते निवेद्य पूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच ॥ १.३.४१ ॥

そう問われて彼は師に答えた。「まず尊い方に捧げ、その残りを乞うて、それで生計を立てております。」そこで師は彼に言った。

1.3.42

नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि इत्येवं वर्तमानो लुब्धोऽसीति ॥ १.३.४२ ॥

これは師に対するふさわしい振る舞いではない。托鉢で生きる他の者の生計をも妨げている。そのように振る舞うお前は貪欲である。

1.3.43

स तथेत्युक्त्वा गा अरक्षद्रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥ १.३.४३ ॥

「承知しました」と言って彼は牛を守った。守り終えると再び師の家に来て、師の前に立ち、礼をした。

1.3.44

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच ।
वत्सोपमन्यो अहं ते सर्वं भैक्ष्यं गृह्णामि न चान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति ॥ १.३.४४ ॥

師は、彼がなお非常に肥えているのを見てまた言った。「わが子ウパマンユよ、お前の施しはすべて私が受け取っている。お前は他に何も乞わないのに、それでもひどく肥えている。いったいどうやって生計を立てているのか。」

1.3.45

स एवमुक्तस्तमुपाध्यायं प्रत्युवाच ।
भो एतासां गवां पयसा वृत्तिं कल्पयामीति।
तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं भवतो मया नाभ्यनुज्ञातमिति ॥ १.३.४५ ॥

そう言われて、彼は師に答えた。「先生、私はこれらの牛の乳で生計を立てましょう。」師は言った。「お前が乳を飲むのは正しくない。私はそれを許していない。」

1.3.46

स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥ १.३.४६ ॥

「承知しました」と約束して彼は牛を守り、再び師の家に戻り、師の前に立って礼をした。

1.3.47

तमुपाध्यायः पीवानमेव दृष्ट्वोवाच ।
वत्सोपमन्यो भैक्ष्यं नाश्नासि न चान्यच्चरसि पयो न पिबसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति ॥ १.३.४७ ॥

彼がこれほど肥えているのを見て師は言った。「愛しいウパマニユよ、お前は施しの食物を食べず、他のものも取らず、乳も飲まない。それなのにひどく太ってしまった。今いったい何で生計を立てているのか。」

1.3.48

स एवमुक्त उपाध्यायं प्रत्युवाच ।
भोः फेनं पिबापि यमिमे वत्सा मातॄणां स्तनात्पिबन्त उद्गिरन्ति ॥ १.३.४८ ॥

そう言われて、彼は師に答えた。「先生、この子牛たちが母親の乳房から吸った後に吐き出す泡をお飲みください。」

1.3.49

तमुपाध्यायः प्रत्युवाच ।
एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति।
तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः ।
फेनमपि भवान्न पातुमर्हतीति स तथेति प्रतिश्रुत्य निराहारः पुनररक्षद्गाः ॥ १.३.४९ ॥

師は彼に答えた。「おまえの慈悲によって、これらの徳ある子牛は大量の泡を吐き出している。だからおまえはそのようにふるまい、子牛の糧をも妨げているのだ。泡さえも飲んではならない。」彼は「そのとおりに」と約束し、断食をして再び牛を守った。

1.3.50

तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति न चान्यच्चरति पयो न पिबति फेनं नोपयुङ्क्ते स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् ॥ १.३.५० ॥

このように禁じられた彼は、乞食の食物を食べず、他所へも行かず、乳も飲まず、泡も用いなかった。ある時、森の中で空腹に苦しみ、アルカの葉を食べてしまった。

1.3.51

स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव ।
ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत्
अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत् ॥ १.३.५१ ॥

そのアルカの葉はアルカリ性で苦く、辛く、渋く、効き目の激しいものだった。食べると彼の目は傷つき、彼は盲目になった。それから盲目のまま歩き回るうちに、彼は井戸に落ちた。太陽が西の山に傾いても彼が戻らなかったので、師は弟子たちに言った。

1.3.53

मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरगतस्त्विति ।
ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार भो उपमन्यो क्वासि वत्सैहीति ॥ १.३.५३ ॥

私はウパマニユをあらゆる面で禁じた。だから彼は怒って、長い間戻ってこないのだ。「彼を探さねばならない」と言って、弟子たちと共に森へ行き、彼を呼んだ。「おお、ウパマニユよ、どこにいるのか。子よ、来なさい!」

1.3.54

स उपाध्यायस्य आह्वानवचनं श्रुत्वा प्रत्युवाचोच्चैरयमस्मिन्कूपे पतितोऽहमिति ।
तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन्कूपे पतित इति ॥ १.३.५४ ॥

師の呼びかけの言葉を聞いて、彼は大きな声で答えた。「私はこの井戸に落ちました。」師は彼に言った。「どうしてお前はこの井戸に落ちたのか。」

1.3.55

स उपाध्यायं प्रत्युवाच अर्कपत्राणि भक्षयित्वान्धीभूतोस्म्यतश्चङ्क्रम्यमाणः कूपे पतित इति ।
तमुपाध्यायः प्रत्युवाच ॥ १.३.५५ ॥

彼は師に答えた。「アルカの葉を食べて私は盲目になりました。それで歩いているうちに井戸に落ちたのです。」師は彼に言った。

1.3.56

अश्विनौ स्तुहि तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्ताराविति ।
स एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिर्ऋग्भिः ॥ १.३.५६ ॥

「神々の医者である二人のアシュヴィンを讃えよ。彼らはお前に視力を取り戻させるだろう。」師がこう言うと、ウパマニユは言葉と詩節によって神々であるアシュヴィンを讃え始めた。

1.3.57

प्रपूर्वगौ पूर्वजौ चित्रभानू ।
गिरा वां शंसामि तपसा ह्यनन्तौ।
दिव्यौ सुपर्णौ विरजौ विमाना-
वधिक्षिपन्तौ भुवनानि विश्वा ॥ १.३.५७ ॥

苦行と言葉によって、あなたがた二人を讃えます。先を行く者、最初に生まれた者、驚くべき光輝を持つ者、無限なる者、神聖な者、美しい翼を持つ者、汚れなき者、空の乗り物に乗る者、あらゆる世界を超える者よ。

1.3.58

हिरण्मयौ शकुनी सांपरायौ ।
नासत्यदस्रौ सुनसौ वैजयन्तौ।
शुक्लं वयन्तौ तरसा सुवेमा-
वधिव्ययन्तावसितं विवस्वतः ॥ १.३.५८ ॥

黄金色で、鳥の姿をし、来世へ導く者たち、ナーサティヤとダスラ、美しい鼻を持ち、勝利の旗を掲げ、白い布を速やかに織り、太陽の黒い糸を織る者たちよ。

1.3.59

ग्रस्तां सुपर्णस्य बलेन वर्तिका-
ममुञ्चतामश्विनौ सौभगाय।
तावत्सुवृत्तावनमं तमाय या-
वसत्तमा गा अरुणा उदावहत् ॥ १.३.५९ ॥

アシュヴィンの二神は、ガルダの力に捕らえられた灯火(太陽)を幸運のために解き放った。完璧な運行を持ち、闇に屈しないその二人は、最も優れた住人であり、赤い光の牛群を高く掲げた。

1.3.60

षष्टिश्च गावस्त्रिशताश्च धेनव ।
एकं वत्सं सुवते तं दुहन्ति।
नानागोष्ठा विहिता एकदोहना-
स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥ १.३.६० ॥

六十と三百の乳牛は一頭の子牛を産み、その子のために乳を搾られる。多くの牛舎に置かれ、一度の搾乳で乳を出す牛たちから、あの二人のアシュヴィンは、讃えられるべき熱い乳の供物(ガルマ)を搾り出す。

1.3.61

एकां नाभिं सप्त सथा अराः श्रिताः ।
प्रधिष्वन्या विंशतिरर्पिता अराः।
अनेमि चक्रं परिवर्ततेऽजरं ।
मायाऽश्विनौ समनक्ति चर्षणी ॥ १.३.६१ ॥

一つの轂には七本の輻が付き、外輪にはさらに二十本の輻が付いている。外輪のない不老の車輪は回転する。アシュヴィンの二神は、その幻力によって生きとし生けるものを結びつける。

1.3.62

एकं चक्रं वर्तते द्वादशारं ।
षण्णाभिमेकाक्षममृतस्य धारणम्।
यस्मिन्देवा अधि विश्वे विषक्ता-
स्तावश्विनौ मुञ्चतो मा विषीदतम् ॥ १.३.६२ ॥

十二の輻、六つの轂と一つの軸を持つ一つの車輪が回る。それは不死を支える。そこには諸神がすべて依存している。アシュヴィン双神よ、私を解き放ち、絶望させないでください。

1.3.63

अश्विनाविन्दुममृतं वृत्तभूयौ ।
तिरोधत्तामश्विनौ दासपत्नी।
हित्वा गिरिमश्विनौ गामुदाचरन्तौ ।
तद्वृष्टिमह्नात्प्रस्थितौ बलस्य ॥ १.३.६३ ॥

回転するアシュヴィン双神は不死のソーマを隠した。奴隷の妻のように、山を離れ牛の方へ進み、二神は昼にバラの雨とともに出立した。

1.3.64

युवां दिशो जनयथो दशाग्रे ।
समानं मूर्ध्नि रथयानं वियन्ति।
तासां यातमृषयोऽनुप्रयान्ति ।
देवा मनुष्याः क्षितिमाचरन्ति ॥ १.३.६४ ॥

あなた方二神は第十の先に方位を生み出す。頭上には共通の車の道があり、それらは分かれる。その道を進め。聖仙たちが後を追い、神々と人間が大地を歩む。

1.3.65

युवां वर्णान्विकुरुथो विश्वरूपां-
स्तेऽधिक्षियन्ते भुवनानि विश्वा।
ते भानवोऽप्यनुसृताश्चरन्ति ।
देवा मनुष्याः क्षितिमाचरन्ति ॥ १.३.६५ ॥

あなた方二神は万象の色彩を作り出す。それらはすべての世界の上に留まる。それらの光もまた後を追って進み、神々と人間が大地を歩む。

1.3.66

तौ नासत्यावश्विनौ वां महेऽहं ।
स्रजं च यां बिभृथः पुष्करस्य।
तौ नासत्वावमृतावृतावृधा-
वृते देवास्तत्प्रपदे न सूते ॥ १.३.६६ ॥

その二神ナーサティヤのアシュヴィンに私は讃歌を捧げ、あなた方が蓮から身に着ける花環にも捧げる。その二神ナーサティヤは不死で、真理を増す者である。真理なくして神々はその道に生まれ出ない。

1.3.67

मुखेन गर्भं लभतां युवानौ ।
गतासुरेतत्प्रपदेन सूते।
सद्यो जातो मातरमत्ति गर्भ-
स्तावश्विनौ मुञ्चथौ जीवसे गाम् ॥ १.३.६७ ॥

若者たちよ、口から胎児を得よ。命のないこの胎児は足から先に生まれ、生まれるやいなや母を食らう。アシュヴィンよ、二人で彼を、そして牛を解き放ち、生きられるようにせよ。

1.3.68

स्तोतुं न शक्नोमि गुणैर्भवन्तौ ।
चक्षुर्विहीनः पथि संप्रमोहः।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे ।
युवां शरण्यौ शरणं प्रपद्ये ॥ १.३.६८ ॥

お二人の徳をほめたたえる力は私にはありません。道で盲目となり、すっかり途方に暮れています。この苦難の中で、私は井戸に落ちてしまいました。お二人こそ庇護に値する方々です。私はお二人に帰依いたします。

1.3.69

सौतिरुवाच ।
एवमृग्भिश्चान्यैरस्तुवत्।
इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैं प्रीतौ स्व एष तेऽपूपोशानैनमिति ॥ १.३.६९ ॥

ソウティは言った。彼はこのようにリグ詩句や他の讃歌で讃えた。彼に讃えられて、アシュヴィンたちは来て、喜んで言った。「これがおまえの菓子だ。食べなさい。」

1.3.70

स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भगवन्तौ नत्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति ॥ १.३.७० ॥

そう言われて彼は答えた。「尊きお二人よ、あなた方は偽りを語ってはいません。しかし、先生に捧げずにこの菓子を食べる気にはなれません。」

1.3.71

ततस्तमश्विनावूचतुः ।
आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपोदत्त उपयुक्तः स तेनानिवेद्य गुरवे त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति ॥ १.३.७१ ॥

するとアシュヴィンたちは彼に言った。「おまえが私たち二人を讃えたので、先に、おまえの師も同じようにして菓子を得た。彼は師に捧げずにそれを食べた。おまえも師がしたとおりにせよ。」

1.3.72

स एवमुक्तः प्रत्युवाच एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुमिति ॥ १.३.७२ ॥

そう言われて彼は答えた。「アシュヴィン双神よ、私はそれを断ります。師に告げずにこの菓子を食べる気はありません。」

1.3.73

तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या ।
उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसि श्रेयश्चावाप्स्यसीति ॥ १.३.७३ ॥

喜んだアシュヴィン双神は彼に言った。「汝に幸いあれ。この師への帰依によって、汝の師の鉄の歯は金となり、汝の歯も金となるであろう。汝は視力を得て、吉祥を得るであろう。」

1.3.74

स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत् ॥ १.३.७४ ॥

アシュヴィン双神にそう告げられた彼は視力を取り戻し、師のもとに来て恭しく礼拝した。

1.3.75

आचचक्षे च स चास्य प्रीतिमान्बभूव ॥ १.३.७५ ॥

彼はすべてを語った。師は彼に満足した。

1.3.76

आह चैनं यथाऽश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति ॥ १.३.७६ ॥

そして彼に言った。「アシュヴィン双神が言ったとおり、汝も吉祥を得るであろう。」

1.3.77

सर्वे च ते वेदाःप्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ।
एषा तस्यापि परीक्षोपमन्न्योः ॥ १.३.७७ ॥

「汝には一切のヴェーダと一切の法典が明らかとなるであろう。」これはウパマニユの試練でもあった。

1.3.78

अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्य बैदो नाम तमुपाध्यायः समादिदेश वत्स बैद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति ॥ १.३.७८ ॥

次に、同じアーポダ・ダウミヤの別の弟子でバイダという者に、師は命じた。「愛しいバイダよ、しばらく私の家に留まり、奉仕しなさい。それはお前のためになる。」

1.3.79

स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् ।
गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महतात्कालेन गुरुः परितोषं जगाम ॥ १.३.७९ ॥

「承知しました」と言って、彼は長いあいだ師の家に住み、師に仕えることに専念した。くびきにつながれた牛のように、毎日師に働かされ、寒さ、暑さ、飢えと渇きの苦しみに耐え、どこでも逆らわなかった。長い時が経って、師は満足した。

1.3.80

तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप ।
एषा तस्यापि परीक्षा बैदस्य ॥ १.३.८० ॥

師の満足によって、彼は幸福と全知を得た。これもバイダの試練であった。

1.3.81

स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत ।
तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा वेति।
दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष ॥ १.३.८१ ॥

彼は師の許しを得て師の家での修行を終え、家住期に入った。自宅に住む中で三人の弟子を得たが、師の家での生活の苦しみを知っていたので、弟子に何の仕事も師への奉仕も命じようとはしなかった。彼らを苦しめたくなかったからである。

1.3.82

अथ कस्मिंश्चित्काले बैदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयाञ्चक्रतुः ॥ १.३.८२ ॥

ある時、二人のクシャトリヤ、ジャナメージャヤとパウシャが、バイダ・バラモンのもとを訪れ、彼を自分たちの師(司祭)として選んだ。

1.3.83

स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कनामानं शिष्यं नियोजयामास ॥ १.३.८३ ॥

ある時、祭祀の用務で出発するにあたり、彼はウッタンカという名の弟子を(家の管理に)任命した。

1.3.84

भोयत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणमिति स एवं प्रतिसंदिश्योत्तङ्कं बैदः प्रवासं जगाम ॥ १.३.८४ ॥

「ウッタンカよ、我が家に何か欠けたものがあれば、欠けないように汝がそれをしてくれることを私は望む。」こうウッタンカに言い置いて、バイダは旅に出た。

1.3.85

अथोत्तङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्म ।
स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः ॥ १.३.८५ ॥

そこで奉仕を喜ぶウッタンカは師の命に従い、師の家に住んだ。そこに住んでいると、師は妻たちと共に彼を呼び、語った。

1.3.86

उपाध्यायानी ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथाऽयमृतुर्वन्ध्यो न भवति तथा क्रियतामेषा विषीदतीति ॥ १.३.८६ ॥

「師の妻は妊娠しやすい時期にあり、師は旅に出ている。この時期が無駄にならぬよう、そうしなさい。彼女は悲しんでいる」と。

1.3.87

एवमुक्तस्ताः स्त्रियः प्रत्युवाच ।
न मया स्त्रीणां वचनादिदमकार्यं करणीयम्।
न ह्यहमुपाध्यायेन संदिष्टोऽकार्यमपि त्वया कार्यमिति ॥ १.३.८७ ॥

そう言われて、彼はその女たちに答えた。「女の言葉によって、私はこの不善の行いをしない。師は私に、あなたのために不善の行いをせよとは命じていない」と。

1.3.88

तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात् ।
स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् ॥ १.३.८८ ॥

やがて時が経ち、師はその旅から家に帰ってきた。彼は弟子の振る舞いのすべてを知り、喜んだ。

1.3.89

उवाच चैनं वत्सोत्तङ्कं किं ते प्रियं करवाणीति ।
धर्मतो हि शुश्रूषितोऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तदनुजाने भवन्तं सर्वानेव कामानवाप्स्यसि गम्यतामिति ॥ १.३.८९ ॥

彼はヴァトソッタンカに言った。「あなたのために何か喜ばしいことをしようか。あなたはダルマにしたがって私に仕えた。だから私たちの間に互いの愛情が育った。よって私はあなたを許す。あなたはすべての願いを得るだろう。さあ行きなさい。」

1.3.90

स एवमुक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवं ह्याहुः ॥ १.३.९० ॥

そう言われて彼は答えた。「あなたのために何か喜ばしいことをしようか。」人々はそう言うのである。

1.3.91

यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥ १.३.९१ ॥

不正に語る者と不正に問う者、その二人のうち一方は滅び、敵意を招く。

1.3.92

सोहमनुज्ञातो भवता इच्छामीष्टं गुर्वर्थमुपहर्तुमिति ।
तेनैवमुक्त उपाध्यायः प्रत्युवाच वत्सोत्तङ्क उष्यतां तावदिति ॥ १.३.९२ ॥

「あなたの許しを得て、師のために望まれるものを持って来たいのです。」と。そう言われて師は答えた。「ウッタンカよ、ひとまず留まりなさい。」

1.3.93

स कदाचित्तमुपाध्यायमाहोत्तङ्क आज्ञापयतु भवान्किं ते प्रियमुपाहरामि गुर्वर्थमिति ॥ १.३.९३ ॥

ある時、ウッタンカはその師に言った。「どうぞご命じください。師のためにあなたの喜ばれるものを持って参りましょう。」

1.3.94

तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायानीं पृच्छ किमुपाहरामीति एषा यद्ब्रवीति तदुपाहरस्वेति ॥ १.३.९४ ॥

師は彼に言った。「親愛なるウッタンカよ、お前は何度も私に、師のために持ってくると急かす。では中に入り、師の妻に私が何を持ってくるべきか尋ねなさい。彼女が言うものを持ってきなさい。」

1.3.95

स एवमुक्त उपाध्यायेनोपाध्यायानीमपृच्छद्भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुमिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुं तदाज्ञापयतु भवती किमुपाहरामि गुर्वर्थमिति ॥ १.३.९५ ॥

師がそう言うと、彼は師の妻に尋ねた。「奥様、師は私に帰宅を許されました。師のために、あなたが望むものを持って来て、負債なく帰りたいのです。どうか命じてください。師のために私は何を持ってくればよいのでしょうか。」

1.3.96

सैवमुक्तोपाध्यायानी तमुत्तङ्कं प्रत्युवाच गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे ॥ १.३.९६ ॥

そう言われて、師の妻はウッタンカに答えた。「行きなさい。パウシャ王のところへ行って、その王の刹帝利の妃が身に着けている耳飾りを乞いなさい。」

1.3.97

आनयस्वेतश्चतुर्थेऽहनि पुण्यकर्म भविता ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि ।
तत्संपादयस्व एवं हि कुर्वतः श्रेयो भविताऽन्यथा कुतः श्रेय इति ॥ १.३.९७ ॥

四日後にそれらを持って来なさい。それは善き行いとなるでしょう。それらを身に着けた時、私は輝きながらバラモンたちに食事を給したいのです。これを果たしなさい。そうすれば善が得られるのです。さもなければ、どこから善が来るでしょうか。

1.3.98

स एवमुक्तस्तयोपाध्यायान्या प्रातिष्ठतोत्तङ्कः स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव स पुरुष उत्तङ्कमभ्यभाषत ॥ १.३.९८ ॥

師の妻にこのように言われて、ウッタンカは出発した。道を行くと、途方もなく大きな牡牛と、その上に乗った途方もなく大きな男が見えた。その男がウッタンカに話しかけた。

1.3.99

भोउत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत् ॥ १.३.९९ ॥

「ウッタンカよ、この牡牛のこの糞を食べよ」と言われたが、彼は望まなかった。

1.3.100

तमाह पुरुषो भूयो भक्षयस्वोत्तङ्क मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति ।
स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृपभस्य मूत्रं पुरीषं च भक्षयित्वोत्तङ्कः संभ्रमाढुत्थित एवापोऽनुस्पृश्य प्रतस्थे ॥ १.३.१०० ॥

その男は再び彼に言った。「ウッタンカよ、食べよ、ためらうな。師も、お前が先に食べたものを食べたのだから。」そう言われて彼は「よろしい」と言い、その牡牛の尿と糞を食べた後、ウッタンカは慌てて立ち上がり、水に触れてから出発した。

1.3.102

यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुत्तङ्कः ।
स उत्तङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच ॥ १.३.१०२ ॥

その武士プシュヤのいる所に着くと、ウッタンカは彼が座っているのを見た。そこでウッタンカは彼に近づき、祝福の言葉で挨拶して言った。

1.3.103

अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच ।
भगवन्पौष्यः खल्वहं किं करवाणीति ॥ १.३.१०३ ॥

「私は頼み事をする者としてあなたのもとに参りました」と言い、彼は敬礼して言った。「尊きお方よ、私はまさしくプシュヤです。何をすればよいでしょうか。」

1.3.104

स तमुवाच गुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मि ।
ये वै ते क्षत्रिया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति ॥ १.३.१०४ ॥

彼は言った。「師のため、耳飾りのために私は来ました。あなたがつけているその耳飾りを、あなたは私に与えるべきです。」

1.3.105

तं प्रत्युवाच पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति ।
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् ॥ १.३.१०५ ॥

パウシャは彼に答えた。「奥の間に入って、クシャトリヤの女たちに求めなさい。」そう言われて彼は奥の間に入ったが、クシャトリヤの女性は見当たらなかった。

1.3.106

स पौष्यं पुनरुवाच न युक्तं भवताऽहमनृतेनोपचरितुं न हि तेऽन्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि ॥ १.३.१०६ ॥

彼は再びパウシャに言った。「偽りであなたが私を扱うのは相応しくありません。あなたの奥の間には、クシャトリヤの女性は見当たりません。私には彼女が見えません。」

1.3.107

स एवमुक्तः पौष्यः क्षणमात्रं विमृश्योत्तङ्कं प्रत्युवाच ।
नियतं भवानुच्छिष्टः स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति ॥ १.३.१०७ ॥

そう言われて、パウシャは一瞬考え、ウッタンカに答えた。「あなたは確かに、残り物を食べて不浄になっている。それを覚えておきなさい。残り物を食べて不浄な者には、今すぐあの女性を見ることはできない。彼女は夫に貞節なので、不浄な者の姿を受けないのだ。」

1.3.108

अथैवमुक्त उत्तङ्कः स्मृत्वोवाचास्ति खलु मया तु भक्षितं नोपस्पृष्टमागच्छतेति ।
तं पौष्यः प्रत्युवाच एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवति शीघ्रमागच्छतेति ॥ १.३.१०८ ॥

そう言われて、ウッタンカは思い出して言った。「確かに私は何か食べてしまい、清めの水による浄化をしていない。来てください。」パウシュヤは答えた。「それはあなたの過ちだ。立ち上がった者の浄化は完全ではない。急いで来なさい。」

1.3.109

अथोत्तङ्कस्तं तथेत्युक्त्वा प्राङ्मुख उपावेश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्य चान्तःपुरं प्रविवेश ॥ १.३.१०९ ॥

ウッタンカは「よし」と言い、東を向いて座り、手足と顔をよく洗い、音を立てず、泡がなく、温かくなく、心臓まで届く水を三度飲み、二度拭い、感覚器官の孔を水で触れてから、奥の間に入った。

1.3.110

ततस्तां क्षत्रियामपश्यत्सा च दृष्ट्वैवोत्तङ्कं प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति ॥ १.३.११० ॥

そこで彼はその王族の女性を見た。彼女はウッタンカを見るやすぐに立ち上がり、礼をして言った。「尊き方よ、ようこそおいでくださいました。ご命令ください。私は何をいたしましょうか。」

1.3.111

स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति ।
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छदाह चैनमेते कुण्डले तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति ॥ १.३.१११ ॥

彼は彼女に言った。「私は師のために、この二つの耳飾りを施しとして求めている。あなたは与えるべきだ。」彼の善意に喜び、これは尊ぶべき受施者で、ないがしろにしてはならないと考えて、彼女は耳飾りを外して彼に与え、言った。「ナーガの王タクシャカがこれを強く望んでいます。注意して持って行ってください。」

1.3.112

स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भवती सुनिर्वृता भवतु ।
न मां शक्तस्तक्षको नागराजो धर्षयितुमिति ॥ १.३.११२ ॥

そう言われて、彼はその刹帝利の女性に答えた。「どうかご安心ください。ナーガの王タクシャカは、私を害することはできません。」

1.3.113

स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् ।
आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तङ्कं पौष्यः प्रत्युवाच ॥ १.३.११३ ॥

こう言って、その刹帝利の女性に別れを告げ、彼はパウシャのもとへ戻った。彼に言った。「ああパウシャよ、私は喜んでいます。」するとパウシャがウッタンカに答えた。

1.3.114

भगवंश्चिरेण पात्रमासाद्यते भवाश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति ॥ १.३.११४ ॥

「尊者よ、ふさわしい受施者は長い時を経てようやく得られるものです。あなたは徳のある客人です。ですから私はシュラーッダを行いたいと思います。どうか少しお待ちください。」

1.3.115

तमुत्तङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि यथोपपन्नमन्नमुपस्कृतं भवतेति स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास ॥ १.३.११५ ॥

ウッタンカは答えた。「私はちょうどよい時に来ました。ある食物を早く用意してください。」彼は「承知した」と言い、手元にあった食物で客をもてなした。

1.3.116

अथोत्तङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच ।
यस्मान्मे अशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति ॥ १.३.११६ ॥

するとウッタンカは髪の入った冷たい食物を見て、「これは不浄だ」と思い、パウシュヤに言った。「お前は私に不浄な食物を与えたのだから、盲目になるだろう。」

1.3.117

तं पौष्यः प्रत्युवाच ।
यस्मात्त्वमदुष्टमन्नंदूषयसि तस्मादनपत्यो भविष्यसीति तमुत्तङ्कः प्रत्युवाच ॥ १.३.११७ ॥

パウシュヤは彼に答えた。「清浄な食物を汚すお前は、子孫のない者となるだろう。」そこでウッタンカは彼に答えた。

1.3.118

न युक्तं भवताऽन्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु ।
ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास ॥ १.३.११८ ॥

ウッタンカは言った。「不浄な食物を与えておきながら、返しに呪いを与えるのは相応しくない。だから食物そのものを示せ。」するとパウシュヤはその不浄な食物を見て、その不浄さを明らかにした。

1.3.119

अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुत्तङ्कं प्रसादयामास ॥ १.३.११९ ॥

すると、髪を振り乱した女が運んできた食物が冷たく、髪が入っているのを見て、「これは不浄だ」と思い、聖仙ウッタンカの機嫌を取ろうとした。

1.3.120

भघवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं च ।
तत्क्षामये भवन्तं न भवेयमन्ध इति।
तमुत्तङ्कः प्रत्युवाच ॥ १.३.१२० ॥

尊者よ、無知のためにこの食物は髪が混じり、冷たいまま運ばれました。ですから私は盲目にならないよう、あなたに赦しを請います。ウッタンカはこう答えた。

1.3.121

न मृषा ब्रवीमि भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति ।
ममापि शापो भवता दत्तो न भवेदिति ॥ १.३.१२१ ॥

私は偽りを言っていない。あなたは盲目になるが、やがて盲目ではなくなる。そしてあなたが私にかけた呪いも無駄にはならない。

1.3.122

तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरद्याप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते ।
यथा ॥ १.३.१२२ ॥

パウシュヤは彼に答えた。私は呪いを取り消すことができない。今もなお私の怒りは静まっていないのだ。お前はこれを知らないのか。たとえば……

1.3.123

नवनीतं हृदयं ब्राह्मणस्य ।
वाचि क्षुरो निहितस्तीक्ष्णधारः।
तदुभयमेतद्विपरीतं क्षत्रियस्य ।
वाङ्नवनीतं हृदयं तीक्ष्णधारम्॥ इति ॥ १.३.१२३ ॥

バラモンの心はバターのようで、その言葉には鋭い刃の剃刀が置かれている。これらはクシャトリヤには逆で、クシャトリヤの言葉はバター、心は鋭い刃である。

1.3.124

तदेवंगते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथाकर्तुं गम्यतामिति ।
तमुत्तङ्कः प्रत्युवाच ॥ १.३.१२४ ॥

したがってこうなった以上、私は鋭い心ゆえにその呪いを変えることはできない。今は去れ。ウッタンカはこう答えた。

1.3.125

भवताऽहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः ।
प्राक् च तेऽभिहितं यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति।
दुष्टे चान्ने नैष मम शापो भविष्यतीति ॥ १.३.१२५ ॥

あなたによって食べ物の不浄を見て、私は宥められた。以前あなたに告げた。汚れていない食べ物を汚すのだから、あなたは子を持たぬことになる、と。そして汚れた食べ物の中では、これは私の呪いにはならない。

1.3.126

साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा ।
सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च ॥ १.३.१२६ ॥

「今はこれを成し遂げよう」と言って、ウッタンカは耳環を持って出発した。すると道で、裸の耆那教の苦行者が来るのを見た。その者は何度も現れては見えなくなった。

1.3.127

अथोत्तङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे ।
एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् ॥ १.३.१२७ ॥

そこでウッタンカは耳環を地面に置き、水で清めの儀式を始めた。その間にあの苦行者が急いで近づき、耳環を奪って逃げた。

1.3.128

तमुत्तङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात् ॥ १.३.१२८ ॥

ウッタンカは水の儀式を終え、清浄で自制し、神々と師に礼拝してから、非常な速さで彼を追った。

1.3.129

तस्य तक्षको दृढमासन्नः सतं जग्राह ।
गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश ॥ १.३.१२९ ॥

タクシャカは彼をしっかりと捕らえた。捕らえられるや否や、彼は自分の姿を捨て、タクシャカの姿をとって、突然、大地に開いていた大きな穴へと入っていった。

1.3.130

प्रविश्य च नागलोकं स्वभवनमगच्छत् ।
अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत् ॥ १.३.१३० ॥

蛇の世界に入ると、彼は自分の住まいへ去った。そこでウッタンカは、あのクシャトリヤの女性の言葉を思い出し、タクシャカの後を追った。

1.3.131

स तद्बिलं दण्डकाष्ठेन चखान न चाशकत् ।
तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास।
गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति ॥ १.३.१३१ ॥

彼は木の棒でその穴を掘ろうとしたが、できなかった。苦しむ彼を見て、インドラは雷杵を遣わした。「行け、このバラモンを助けよ」と。

1.3.132

अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत् ॥ १.३.१३२ ॥

すると雷杵は木の棒に入り込み、その穴を裂き開いた。

1.3.133

तमुत्तङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत् ॥ १.३.१३३ ॥

ウッタンカも同じ穴を通り、彼の後に続いて入った。蛇の世界に入ると、そこは果てしなく、さまざまな宮殿や楼閣、露台や数百の張り出したバルコニーで埋め尽くされ、高低さまざまな不思議な遊興の場所が点在しているのを見た。

1.3.134

स तत्र नागांस्तानस्तुवदेभिः श्लोकैः ।
य ऐरावतराजानः सर्पाः समितिशोभाः।
क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः ॥ १.३.१३४ ॥

そこで彼はこれらの詩節によってそのナーガたちを讃えた。アイラーヴァタの末裔である蛇の王たち、戦場に輝き、稲妻と風に駆られた雲のように降り注ぐ者たち。

1.3.135

सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः ।
आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥ १.३.१३५ ॥

美しく、多様な姿を持ち、斑模様の耳飾りをつけ、アイラーヴァタから生まれたナーガたちは、天の背で太陽のように輝いた。

1.3.136

बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे ।
तत्रस्थानपि संस्तौमि महतः पन्नगानहम् ॥ १.३.१३६ ॥

ガンガーの北岸には多くのナーガの住居がある。そこに住む偉大な蛇たちをも私は讃える。

1.3.137

इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ।
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः ॥ १.३.१३७ ॥

アイラーヴァタなしに太陽の光線の軍勢の中を進もうと望む者があろうか。(その数は)百、八十、八、そして二万。

1.3.138

सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदैजति ।
ये चैनमुपसर्पन्ति ये च दूरपथं गताः ॥ १.३.१३८ ॥

ドリタラーシュトラが動くとき、蛇たちの手綱は進む。彼に近づく者も、遠い道へ去った者も。

1.3.139

अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ।
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा ॥ १.३.१३९ ॥

私はアイラーヴァタの長兄たちに礼拝を捧げる。彼らの住まいは昔、クルクシェートラとカーンダヴァにあった。

1.3.140

तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम् ।
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ ॥ १.३.१४० ॥

耳飾りのために、私はあの蛇王タクシャカを讃えた。タクシャカとアシュヴァセーナの二者は常に連れ立っている。

1.3.141

कुरुक्षेत्रं च वसतां नदीमिक्षुमतीमनु ।
जघन्यजस्तक्षकस्य श्रुतसेनेति यः सुतः ॥ १.३.१४१ ॥

クルクシェートラとイクシュマティー川沿いに住む者たちのうち、タクシャカの末子でシュルタセーナという者。

1.3.142

अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ।
करवाणि सदा चाहं नमस्तस्मै महात्मने ॥ १.३.१४२ ॥

大いに輝き、蛇の中での首位を望みつつ住まうその者に、私は常に仕えよう。その偉大な魂に礼拝あれ。

1.3.143

सौतिरुवाच ।
एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान्।
नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत् ॥ १.३.१४३ ॥

スティ(ソウティ)は言った。こうして諸蛇の最上者たちを讃えたが、バラモン仙人ウッタンカはあの耳飾りを得られず、そこで憂いに沈んだ。

1.3.144

एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदाऽपश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ ।
तस्मिंस्तन्त्रे कृष्णाः सिताश्च तन्तवश्चक्रं चापश्यद्द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम् ॥ १.३.१४४ ॥

このように蛇たちを讃えても、あの耳飾りを得られなかったとき、彼は織機に布をかけて織っている二人の女性を見た。その織機には黒と白の糸があった。六人の少年が回している十二のスポークの輪を見、一人の男と美しい馬をも見た。

1.3.145

स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः ॥ १.३.१४५ ॥

彼はこれらの真言の詩句によって、彼ら全てを讃えた。

1.3.146

त्रीण्यर्पितान्यत्र शतानि मध्ये ।
षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्।
चक्रे चतुर्विंशतिपर्वयोगे ।
षड्वै कुमाराः परिवर्तयन्ति ॥ १.३.१४६ ॥

三百六十がここの中央に置かれ、この不動の軸の上を常に巡る。二十四の節をもつこの輪を六人の少年が回している。

1.3.147

तन्त्रं चेदं विश्वरूपे युवत्यौ ।
वयतस्तन्तून्सततं वर्तयन्त्यौ।
कृष्णान्सितांश्चैव विवर्तयन्त्यौ ।
भूतान्यजस्रं भुवनानि चैव ॥ १.३.१४७ ॥

この機織りは「ヴィシュヴァルーパー」という二人の若い女が織る。彼女たちは糸を絶えず織り、黒と白の糸を繰り返し回し、そうして生きものと世界が絶えず生じる。

1.3.148

वज्रस्य भर्ता भुवनस्य गोप्ता ।
वृत्रस्य हन्ता नमुचेर्निहन्ता।
कृष्णे वसानो वसने महात्मा ।
सत्यानृते यो विविनक्ति लोके ॥ १.३.१४८ ॥

金剛を持つ者、世界の守護者、ヴリトラの殺し手、ナムチの滅ぼし手;黒い衣をまとった偉大なる魂、世において真実と虚偽を見分ける者。

1.3.149

यो वाजिनं गर्भमपां पुराणं ।
वैश्वानरं वाहनमभ्युपैति।
नमोऽस्तु तस्मै जगदीश्वराय ।
लोकत्रयेशाय पुरंदराय ॥ १.३.१४९ ॥

宇宙の主、三界の王、プランダラに礼拝あれ。水の古き胎である速き者、ヴァイシュヴァーナラの火を乗り物とする者に。

1.3.150

ततः स एनं पुरुषः प्राह प्रीतोऽस्मि तेऽहसनेन स्तोत्रेण किं ते प्रियं करवाणीति ।
स तमुवाच नागा मे वशमीयुरिति ॥ १.३.१५० ॥

するとその人は彼に言った。「この讃歌によってお前に満足した。お前の望むことを何でもしてやろう。」彼は答えた。「ナーガたちが私の支配下に来ますように。」

1.3.151

स चैनं पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति ।
ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्रोतोभ्यः पावकार्चिषः सधूमा निष्पेतुः ॥ १.३.१५१ ॥

するとその男は再び彼に言った。「この馬の後部に息を吹き込め」。彼が馬の後部に息を吹き込むと、吹かれた馬のあらゆる穴から煙を伴った炎が噴き出した。

1.3.153

ताभिर्नागलोक उपधूपितेऽथ संभ्रान्तस्तक्षकोऽग्नेस्तेजोभयाद्विषण्णः कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योत्तङ्कमुवाच ॥ १.३.१५३ ॥

その炎によって蛇の世界は煙で満たされた。すると火の威力への恐怖に動揺し意気消沈したタクシャカは、耳環を手に取って突然住処から出てきて、ウッタンカに語りかけた。

1.3.154

इमे कुण्डले गृह्णातु भवानिति ।
स ते प्रतिजग्राहोत्तङ्कः प्रतिगृह्य च कुण्डलेऽचिन्तयत् ॥ १.३.१५४ ॥

「どうかこの耳環をお受け取りください」とタクシャカは言った。彼はそれを受け取り、耳環を受け取ったウッタンカは考え始めた。

1.3.155

अद्य तत्पुण्यकमुपाध्यायान्या दूरं चाहमभ्यागतः स कथं संभावयेयमिति ॥ १.३.१५५ ॥

今日その功徳ある行いを果たさなければならず、私は師の妻のために遠くから来た。その務めをどのように成し遂げるべきか。——とウッタンカは考えた。

1.3.156

उत्तङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति ॥ १.३.१५६ ॥

「ウッタンカよ、この馬に乗れ。これは一瞬であなたを師の家に連れて行くだろう」。そこで、考え込んでいる彼にその男は言った。

1.3.157

स तथेन्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलं ।
उपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे ॥ १.३.१५७ ॥

彼は「よかろう」と言い、その馬に乗って師の家へ戻った。師の妻は沐浴をし、髪を整えさせながら座っていたが、「ウッタンカは来ない」と思い、彼を呪うことにした。

1.3.158

अथैतस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलं उपाध्यायानीमभ्यवादयत्ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच ॥ १.३.१५८ ॥

その間にウッタンカは師の家に入り、師の妻に礼拝した。彼は二つの耳飾りを彼女に渡し、彼女は彼に答えた。

1.3.159

उत्तङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स इदानीं यद्यनागतोसि कोपितया मया शप्तो भविष्यसि श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति ॥ १.३.१५९ ॥

ウッタンカよ、あなたは良い場所に良い時に来てくれた。子よ、ようこそ。もし遅れていたなら、私は怒ってあなたを呪っていたでしょう。あなたの幸運は目前にある。成就を得なさい。

1.3.160

अथोत्तङ्क उपाध्यायमभ्यवादयत् ।
तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतमिति ॥ १.३.१६० ॥

するとウッタンカは師に礼拝した。師は彼に答えた。「子ウッタンカよ、ようこそ。なぜこんなに長く時間をかけたのか。」

1.3.161

तमुत्तङ्क उपाध्यायं प्रत्युवाच ।
भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनास्मि नागलोकं गतः ॥ १.३.१६१ ॥

ウッタンカは師に答えた。「師よ! この務めにおいて、蛇王タクシャカが私に妨げを与えました。それゆえ私は蛇の世界へ行ったのです。」

1.3.162

तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिंश्च कृष्णाः सिताश्च तन्तवः ।
किं तत् ॥ १.३.१६२ ॥

そこで私は機織りの台で布を織っている二人の女を見た。その中には黒と白の糸があった。それは何だったのか。

1.3.163

तत्र च मया चक्रं दृष्टं द्वादशारं षट्चैनं कुमाराः परिवर्तयन्ति तदपि किं ।
पुरुषश्चापि मया दृष्टः स चापि कः।
अश्वश्चातिप्रमाणो दृष्टः स चापि कः ॥ १.३.१६३ ॥

そこで私はまた、六人の少年が回している十二の輻を持つ車輪を見た。それは何か。私はまた一人の男も見た。彼は誰か。そして極めて大きな馬も見た。それは誰か。

1.3.164

पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनास्मि सोपचारमुक्त उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति ॥ १.३.१६४ ॥

道を歩いている時、私は一頭の雄牛を見た。その上には一人の男が乗っていた。彼は丁寧に私に言った。「ウッタンカよ、この牛の糞を食べなさい。お前の師匠もそれを食べたのだ。」

1.3.165

ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः ।
तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति।
स तेनैवमुक्त उपाध्यायः प्रत्युवाच ॥ १.३.१६५ ॥

そこで彼の言葉に従って、私はその雄牛の糞を食べた。「彼は誰か。そしてあなたが教えてくださったこれは何か。ぜひ聞きたい。」こう彼に問われて、師匠は答えた。

1.3.166

ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी ।
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति तेपि षड्ऋतवः द्वादशारा द्वादश मासाः संवत्सरश्चक्रम् ॥ १.३.१६६ ॥

その二人の女性は創造者と配置者であり、黒と白の糸は夜と昼である。六人の少年が回す十二の輻を持つ車輪は六季であり、十二の輻は十二か月、その車輪こそが年である。

1.3.167

यः पुरुषःस पर्जन्यः योऽश्वः सोऽग्निः य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट् ॥ १.३.१६७ ॥

あの男はパルジャニヤ、あの馬はアグニ、そして道中で見た雄牛は蛇王アイラーヴァタであった。

1.3.168

यश्चैनमधिरूढः पुरुषः स चेन्द्रः यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम् ॥ १.३.१६८ ॥

その上に乗っていた男はインドラであり、あなたが食べたあの雄牛の糞は甘露であった。それゆえあなたは蛇の住処で滅びなかったのだ。

1.3.169

स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनुग्रहं कृतवान् ।
तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि ॥ १.३.१६९ ॥

その尊きインドラは私の友である。あなたへの憐れみから、彼はこの恩恵を与えたのだ。ゆえに、耳輪を取って、あなたは戻ってきたのである。

1.3.170

तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति ।
स उपाध्यायेनानुज्ञातो भगवानुत्तङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे ॥ १.३.१७० ॥

ゆえに善き者よ、行くがよい。私はあなたに許可を与える、あなたは幸福を得るであろう。こうして師の許しを得た尊きウッタンカは、怒りに燃えてタクシャカへの復讐を望み、ハースティナプラへと出発した。

1.3.171

स हास्तिनपुरं प्राप्य नचिराद्विप्रसत्तमः ।
समागच्छत राजानमुत्तङ्को जनमेजयम् ॥ १.३.१७१ ॥

ハースティナプラに着いたそのバラモンの最上の者ウッタンカは、まもなく王ジャナメージャヤのもとに赴いた。

1.3.172

पुरा तक्षशिलासंस्थं निवृत्तमपराजितम् ।
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ॥ १.३.१७२ ॥

王を見た。王は以前タクシャシラに住み、無敗のまま完全な勝利者として戻り、四方を大臣たちに囲まれていた。

1.3.173

तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः ।
उवाचैनं वचः काले शब्दसंपन्नया गिरा ॥ १.३.१७३ ॥

まず礼に従って勝利の祝福を与え、ふさわしい時に響きの良い言葉で彼にこう語った。

1.3.174

अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम ।
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम् ॥ १.३.१७४ ॥

王の中の最良の者よ、別の仕事をなすべきであったにもかかわらず、礼に従って敬意を表し、最も優れた再生者に答えた。

1.3.175

सौतिरुवाच ।
एवमुक्तस्तु विप्रेण स राजा जनमेजयः।
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम् ॥ १.३.१७५ ॥

スータは言った。バラモンにこう言われ、王ジャナメージャヤは礼に従って敬意を表し、最も優れた再生者に答えた。

1.3.176

आसां प्रजानां परिपालनेन ।
स्वं क्षत्रधर्मं परिपालयामि।
प्रव्रूहि मे किं करणीयमद्य ।
येनासि कार्येण समागतस्त्वम् ॥ १.३.१७६ ॥

これらの臣民を守ることで、私は戦士としての義務を果たしている。あなたが何のために来たのか、今日私は何をすべきか告げてほしい。

1.3.177

सौतिरुवाच ।
स एवमुक्तस्तु नृपोत्तमेन
द्विजोत्तमः पुण्यकृतां वरिष्ठः ।
उवाच राजानमदीनसत्वं
स्वमेव कार्यं नृपते कुरुष्व ॥ १.३.१७७ ॥

スータは言った。最良の王にこう言われ、善行を積んだ者の中で最も優れた再生者は、剛毅な心の王に告げた。王よ、汝自身の務めを果たせ。

1.3.178

तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता ।
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥ १.३.१७८ ॥

大地の主よ、汝の父を殺した、悪意に満ちた蛇タクシャカに対して、汝は報復せよ。

1.3.179

कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः ।
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ॥ १.३.१७९ ॥

運命によって定められた行為の時が来たと私は思う。ゆえに王よ、あの偉大なる父への報復に行け。

1.3.180

तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना ।
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ॥ १.३.१८० ॥

その邪悪な心の者が無実の王を噛み、王は雷に打たれた木のように死んだ。

1.3.181

बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः ।
अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥ १.३.१८१ ॥

力の驕りに膨れ上がった、蛇の中で最も卑しいタクシャカは、あの不当な行いをした。すなわちお前の父を噛んだのだ。

1.3.182

राजर्षिवंशगोप्तारममरप्रतिमं नृपम् ।
यियासुं काश्यपं चैव न्यवर्तयत पापकृत् ॥ १.३.१८२ ॥

その悪人は、王仙の血統を守る神々に等しい王を、そしてカーシュヤパをも、出発しようとしたところで引き返させた。

1.3.183

होतुमर्हसि तं पापं ज्वलिते हव्यवाहने ।
सर्पसत्रे महाराज त्वरितं तद्विधीयताम् ॥ १.३.१८३ ॥

偉大な王よ、その悪人を燃え盛る供犠の火に供物として投じるべきだ。蛇祭にて速やかにそれを執り行え。

1.3.184

एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि ।
मम प्रियं च सुमहत्कृतं राजन् भविष्यति ॥ १.३.१८४ ॥

こうしてお前は父への報いを果たすことになる。そして王よ、私にとって非常に大切な大事業も成就されるのだ。

1.3.185

कर्मणः पृथिवीपाल मम येन दुरात्मना ।
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥ १.३.१८५ ॥

大地の守護者よ、邪悪な心の者が、師のために歩んでいた私の行いに妨げを置いたのです。偉大な王よ、無垢なる者よ。

1.3.186

सौतिरुवाच ।
एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप ह।
उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥ १.३.१८६ ॥

これを聞いた王は蛇王タクシャカに激怒した。ちょうど酥油の供物を注がれて火が燃え上がるように、ウッタンカの言葉という供物によって王は燃え上がったのである。

1.3.187

अपृच्छत्स तदा राजा मन्त्रिणः स्वान्सुदुःखितः ।
उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ॥ १.३.१८७ ॥

そのとき、深く悲しんだ王は、ウッタンカの面前で、父が天界へ行ったことについて自らの大臣たちに尋ねた。

1.3.188

तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् ।
यदैव वृत्तं पितरमुत्तङ्कादशृणोत्तदा ॥ १.३.१८८ ॥

まさにそのとき、父に起きたことをウッタンカから聞いた王者の中の王は、悲しみと嘆きに打ちのめされた。