摩诃婆罗多 · 章 1.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.30.1
स्पष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा ।
अभज्यत तरोः शाखा भग्नां चैकामधारयत् ॥ १.३०.१ ॥
强大的迦卢达用她的双脚折断了树的一根枝条,她抓住了其中一根断枝。
1.30.2
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन् ।
अथात्रं लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥ १.३०.२ ॥
他折断那根大树枝后,微笑着环顾,然后看见了倒挂的瓦拉基利亚仙人。
1.30.3
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन् ।
तपोरतांल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः ॥ १.३०.३ ॥
这里悬挂着的是仙人,我不可伤害他们。他看见那些沉浸于苦行、倒悬着的梵仙,于是——
1.30.4
हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः ।
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ ॥ १.३०.४ ॥
他想:“这根坠落的树枝会杀死他们。”于是这位英雄用爪子紧紧抓住了大象和乌龟。
1.30.5
स तद्विनाशसंत्रासादभिपत्य स्वगाधिपः ।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया ॥ १.३०.५ ॥
因恐惧他们遭毁灭,群鸟之王俯冲下来,用喙衔住了树枝,只是出于对他们的敬意。
1.30.6
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः ।
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे ॥ १.३०.६ ॥
众大仙见他这超凡的功绩,心中又惊又颤,便为这大鸟取了一个名字。
1.30.7
गुरुं भारं समासाद्योड्डीन एष विहङ्गमः ।
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः ॥ १.३०.७ ॥
此鸟负起沉重的重担而飞起。鸟中之王迦楼罗,因此是以蛇为食者。
1.30.8
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन् ।
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः ॥ १.३०.८ ॥
于是他缓缓飞翔,以双翼震动群山,如此扑向许多地方,连同大象与龟。
1.30.9
दयार्थं वालखिल्यानां न च स्थानमविन्दत ।
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा ॥ १.३०.९ ॥
为怜悯婆罗基利亚仙人,他找不到合适的地方。他迅速前往山中至尊的乾陀摩陀那山。
1.30.10
ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ।
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् ॥ १.३०.१० ॥
他在那里看见父亲迦叶波正在苦行中站立。父亲也看见了这只具有神圣形貌的鸟。
1.30.11
तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ।
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् ॥ १.३०.११ ॥
具足光辉、勇力与力量,疾如意念与风,如山峰一般,又如高举的梵杖。
1.30.12
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम् ।
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम् ॥ १.३०.१२ ॥
不可思议、不可观想,令一切众生恐惧,承载大力,暴烈,如同亲自升起的火焰。
1.30.13
अप्रधृष्यमजेयं च देवदानवराक्षसैः ।
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम् ॥ १.३०.१३ ॥
诸神、檀那婆与罗刹皆不能攻克、不能征服;他能摧毁山峰,能使海水干涸。
1.30.14
लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ।
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा।
विदित्वा चास्यं संकल्पमिदं वचनमब्रवीत् ॥ १.३०.१४ ॥
震撼世界、可怖、形如死神。见他来到,尊贵的迦叶知晓其意图,于是说了这番话。
1.30.15
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् ।
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः ॥ १.३०.१५ ॥
孩子,不要做这鲁莽之事,你立刻就会遭受苦难。愿愤怒的、饮光的婆罗希尔亚不要焚烧你。
1.30.16
ततः प्रसादयामास कश्यपः पुत्रकारणात् ।
वालखिल्यान्महाभागांस्तपसा हतकल्मषान् ॥ १.३०.१६ ॥
于是,迦叶为了儿子,安抚了那些因苦行而罪业尽除的大福德婆罗希尔亚。
1.30.17
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः ।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥ १.३०.१७ ॥
诸位苦行富足者啊,迦楼罗此举是为了众生的福利;他想完成一件大事,你们应当允许他。
1.30.18
एवमुक्ता भगवता मुनयस्ते समभ्ययुः ।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्त तपोऽर्थिनः ॥ १.३०.१८ ॥
众仙人听了尊贵者这样的话,怀着修苦行的愿望,离开树枝,前往神圣的喜马拉雅山。
1.30.19
ततस्तेष्वपयातेषु पितरं विनतासुतः ।
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥ १.३०.१९ ॥
他们离去后,口被树枝阻塞的毗娜塔之子向父亲迦叶波发问。
1.30.20
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम् ।
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम ॥ १.३०.२० ॥
尊者,我该把这树枝放在何处?请尊者告诉我一个没有人类的地方。
1.30.21
ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम् ।
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥ १.३०.२१ ॥
于是迦叶波为他描述了一座无人之山,洞穴被积雪封闭,即使他人以心念也无法抵达。
1.30.22
तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः ।
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥ १.३०.२२ ॥
这大鸟塔尔克希亚以目标指向那座多洞的山,携着树枝、大象与乌龟,急速俯冲而下。
1.30.23
न तां वध्री परिणहेच्छतचर्मा महातनुम् ।
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥ १.३०.२३ ॥
那只有百层皮的弱小之鸟无法握住那巨大的身躯;这鸟抓着所攀住的那根大树枝飞走了。
1.30.24
स ततः शतसाहस्रं योजनान्तरमागतः ।
कालेन नातिमहता गरुडः पतगेश्वरः ॥ १.३०.२४ ॥
于是鸟王迦鲁达在不太长的时间内,便飞到了十万由旬之外。
1.30.25
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः ।
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः ॥ १.३०.२५ ॥
他听从父亲之命,瞬间到达那座山,在那里以巨响落下一根大树枝。
1.30.26
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् ।
मुमोच पुष्पवर्षं च समागलितपादप ॥ १.३०.२६ ॥
被翅膀的风所袭,那山王颤抖起来;它洒下花雨,树木也被连根拔起。
1.30.27
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः ।
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥ १.३०.२७ ॥
那山的峰顶四面崩裂,那些以宝石和黄金装饰的山峰,本来使这座大山增辉。
1.30.28
शाखिनो बहवश्चापि शाखयाऽभिहतास्तया ।
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥ १.३०.२८ ॥
许多树木也被那树枝所击,以金色花朵闪耀,如同带着闪电的云。
1.30.29
ते हेमविकचा भूमौ युताः पर्वतधातुभिः ।
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥ १.३०.२९ ॥
那些开着金花的树木躺在地上,与山中矿石混在一起,被阳光染成五彩,在那里闪耀。
1.30.30
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः ।
भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥ १.३०.३० ॥
随后,迦鲁达——鸟中之王——登上那座山的峰顶,吞食了那两者,即大象与乌龟。
1.30.31
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ ।
ततः पर्वतकूटाग्रादुत्पपात महाजवः ॥ १.३०.३१ ॥
吞食了那龟与象二者之后,那迦鲁达以极大的速度从山峰之巅腾空而起。
1.30.32
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः ।
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः ॥ १.३०.३२ ॥
于是诸天中开始出现预示恐惧的凶兆;因为恐惧,因陀罗心爱的金刚杵燃烧起来。
1.30.33
सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता ।
तथा वसूनां रुद्राणामादित्यानां च सर्वशः ॥ १.३०.३३ ॥
带着烟雾与火焰,流星从天空坠落;同样,从诸婆苏、楼陀罗与阿底提耶等处,四面八方皆然。
1.30.34
साध्यानां मरुतां चैव ये चान्ये देवतागणाः ।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥ १.३०.३४ ॥
诸萨迪耶、诸摩录多以及其他天神群体,各自的兵器彼此相互冲击。
1.30.35
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च ।
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः ॥ १.३०.३५ ॥
在那场前所未有的诸神与阿修罗之战中,伴随雷鸣的狂风吹起,成千上万的流星坠落。
1.30.36
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम् ।
देवानामपि यो देवः सोऽप्यवर्षत शोणितम् ॥ १.३०.३६ ॥
虽无云彩,天空仍以巨响轰鸣;诸神之中的那位天神,也降下了血雨。
1.30.37
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि ।
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु ॥ १.३०.३७ ॥
诸神的花环枯萎了,他们的光辉也消失了。可怖的凶兆之云降下了大量鲜血。
1.30.38
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ।
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः।
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥ १.३०.३८ ॥
扬起的尘土玷污了他们的王冠。于是百祭之主因陀罗与诸神一同惊恐不安,望着可怖的凶兆,对布里哈斯帕蒂这样说道。
1.30.39
किमर्थं भगवन्घोरा उत्पाताः सहसोत्थिताः ।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥ १.३०.३९ ॥
尊贵者啊,这些可怖的凶兆为何突然出现?我看不到任何能在战场上攻击我们的敌人。
1.30.40
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो ।
तपसा वालखिल्यानां महर्षीणां महात्मनाम् ॥ १.३०.४० ॥
诸神之主啊,百祭的因陀罗,这是由于你的过失和疏忽,也由于伟大的婆罗基利耶圣仙们的苦行而起。
1.30.41
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः ।
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक् ॥ १.३०.४१ ॥
迦叶仙人与毗娜塔之子,翱翔天空、强大、能随意变化形象者,已前来夺取苏摩。
1.30.42
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः ।
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥ १.३०.४२ ॥
那只鸟,力量最强者之首,能够夺取苏摩。在他身上,我认为一切皆有可能;他甚至能完成不可能之事。
1.30.43
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः ।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥ १.३०.४३ ॥
因陀罗听闻此言,对甘露的守护者说:这只拥有大勇猛与力量的鸟,此刻正打算夺取苏摩。
1.30.44
युष्मान्संबोधयाम्येष गृहीत्वावरणायुधान् ।
परिवार्यामृतं सर्वे यूयं मद्वचनादिह ॥ १.३०.४४ ॥
我提醒你们:他身披铠甲、手持兵器而来。依我之言,你们都来围住这里的甘露。
1.30.45
रक्षध्वं विबुधा वीरा यथा न स हरेद्बलात् ।
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह ॥ १.३०.४५ ॥
英勇的诸神啊,守护它,免得他以力量夺走甘露;因为他的力量无可比拟,brihaspati曾如此说。
1.30.46
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः ।
परिवार्यामृतं तस्थूर्वज्री चेन्द्रः प्रतापवान् ॥ १.३०.४६ ॥
诸神听闻此言,惊讶之余尽力行事,围住甘露而立;手持金刚杵的威猛因陀罗也立于其中。
1.30.47
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः ।
कवचानि महार्हाणि वैदूर्यविकृतानि च ॥ १.३०.४७ ॥
坚毅的诸神身披种种华美的金色铠甲,极为珍贵,并饰以青金石。
1.30.48
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च ।
विविधानि च शस्त्राणि घोररूपाण्यनेकशः ॥ १.३०.४८ ॥
身上闪耀着坚固的盾牌,还有许多形状可怖的各式兵器。
1.30.49
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमः ।
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः ॥ १.३०.४९ ॥
最优秀的天神举起锋利的刃尖兵器,四面八方,伴随着火星、火焰和烟雾。
1.30.50
चक्राणि परघांश्चैव त्रिशूलानि परश्वधान् ।
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्।
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥ १.३०.५० ॥
他们拿起圆盘、铁棍、三叉戟、战斧、各种锐利的长矛、明亮的刀剑,以及形状如自身身体的可怖棍棒。
1.30.51
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः ।
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥ १.३०.५१ ॥
众天神手持那些闪亮的兵器,身披神圣的饰物,光辉灿烂,纯洁无瑕地站立着。
1.30.52
अनुपमबलवीर्यतेजसो ।
धृतमनसः परिरक्षणेऽमृतस्य।
असुरपुरविदारणाः सुरा ।
ज्वलनसमिद्धवपुःप्रकाशिनः ॥ १.३०.५२ ॥
具有无比力量、勇气与光辉的天神,坚定守护甘露,摧毁阿修罗的城池,身躯如燃烧的烈火般光辉照耀。
1.30.53
इति समरवरं सुराः स्थितास्ते ।
परिघसहस्रशतैः समाकुलम्।
विगलितमिव चाम्बरान्तरं ।
तपनमरीचिविकाशितं बभासे ॥ १.३०.५३ ॥
诸天神便这样站立在那片优良的战场上,那里布满了成百上千的铁棍,被太阳的光芒照耀,仿佛天空的中央已经裂开。