摩诃婆罗多 · 章 1.61
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.61.1
शृणु राजन्यथा वीरा भ्रातरः पञ्च पाण्डवाः ।
विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः ॥ १.६१.१ ॥
国王啊,请听:五位英勇的般度兄弟如何与心怀恶意的持国之子陷入了敌对。
1.61.2
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः ।
संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥ १.६१.२ ॥
先以心、智与定力向师尊致敬,并恭敬供养所有再生者(婆罗门)及其他博学之人。
1.61.3
महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ १.६१.३ ॥
我将讲述这位大仙人毗耶娑的完整见解——他在此世及一切世界中享有盛名,智慧超群,威光无量。
1.61.4
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् ।
गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे ॥ १.६१.४ ॥
国王啊,你有资格聆听这部婆罗多故事。老师口唇的动作,让我的心大为振奋。
1.61.5
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् ।
राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च ॥ १.६१.५ ॥
国王啊,请听:库鲁族与般度族之间的裂痕如何产生,以及为争夺王国而因赌博引发的林居流放如何发生。
1.61.6
यथा च युद्धमभवत्पृथिवीक्षयकारकम् ।
तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ ॥ १.६१.६ ॥
至于那场导致大地毁灭的战争是如何发生的,我将告诉你,你既然问起,婆罗多族的雄牛啊。
1.61.7
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् ।
नचिरादेव विद्वांसो वेदे धनुषि चाभवन् ॥ १.६१.७ ॥
父亲死后,那些英雄从森林回到自己的家中,不久便精通吠陀与弓术。
1.61.8
तांस्तथा सत्ववीर्यौजःसंपन्नान्पौरसंमतान् ।
नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥ १.६१.८ ॥
看到般度之子具备勇力、威能与活力,受市民尊敬,光荣与名声兼备,俱卢族无法容忍。
1.61.9
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः ।
तेषां निग्रहनिर्वासान्विविधांस्ते समारभन् ॥ १.६१.९ ॥
于是残暴的难敌与迦尔纳及娑婆罗(沙恭尼)一同着手,设法种种压制并放逐他们。
1.61.10
ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः ।
पाम्डवान्विविधोपायै राज्यहेतोरपीडयत् ॥ १.६१.१० ॥
于是残暴的难敌遵从俱林伽(迦尔纳)的意见,为了王国,以种种手段折磨般度之子。
1.61.11
ददावथ विषं पापो भीमाय धृतराष्ट्रजः ।
जरयामास तद्वीरः सहान्नेन वृकोदरः ॥ १.६१.११ ॥
于是持国之子这个罪人给了毗摩veneno;但那位英雄狼腹(毗摩)将毒药与食物一同消化了。
1.61.12
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् ।
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥ १.६१.१२ ॥
他在普拉马纳科提将深睡的狼腹(毗摩)重新捆绑,把毗摩投入恒河水中,然后回城去了。
1.61.13
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् ।
उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः ॥ १.६१.१३ ॥
昆提之子醒来,斩断束缚,大臂的怖军无痛地站了起来。
1.61.14
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् ।
सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा ॥ १.६१.१४ ॥
他沉睡之时,被毒蛇在全身各处咬噬,然而这位杀敌者并未死去。
1.61.15
तेषां तु विप्रकारेषु तेषु तेषु महामतिः ।
मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत् ॥ १.६१.१५ ॥
面对他们种种加害,以及为解脱与补救之事,大智的维杜罗始终保持警觉。
1.61.16
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः ।
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥ १.६१.१६ ॥
犹如居于天界的因陀罗为世间众生带来幸福,维杜罗也永远为般度五子带来幸福。
1.61.17
यदा तु विविधोपायैः संवृतैर्विवृतैरपि ।
नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥ १.६१.१७ ॥
当他们以种种明暗手段也无法杀死他们时,因为他们受到天命所定之目的的守护。
1.61.18
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः ।
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥ १.६१.१८ ॥
随后,他与大臣如伐茹沙、难降等商议,获得持国王的许可,下令建造一座漆宫。
1.61.19
तत्र तान्वासयामास पाण्डवानमितौजसः ।
सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः।
ततो विवासयामास राज्यभोगबुभुक्षया ॥ १.६१.१९ ॥
他在那里安置了威力无穷的般度之子。随后,那位寻求儿子欢心的安比卡之子国王,出于贪求王国享乐之心,将他们放逐了。
1.61.20
ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात् ।
प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम् ॥ १.६१.२० ॥
他们一同离开了名为那伽萨婆耶的城市,在这些大德的出行中,他们的谋士是管家(毗杜罗)。
1.61.21
तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम् ।
ततः संप्राप्य कौन्तेया नगरं वारणावतम् ॥ १.६१.२१ ॥
在他的帮助下,他们在午夜从漆屋逃入森林。随后,贡蒂之子抵达了婆罗那瓦陀城。
1.61.22
न्यवसन्त महात्मानो मात्रा सह परन्तपाः ।
धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे ॥ १.६१.२२ ॥
那些令敌人灼热的大德与母亲一同居住在那里;他们遵照持国的命令住在漆屋中。
1.61.23
पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः ।
सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः ॥ १.६१.२३ ॥
他们提防着布罗昌那,保持警觉整整一年;在毗杜罗的催促下,他们命人挖掘了一条地道。
1.61.24
आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम् ।
प्राद्रवन्भयसंविग्ना मात्रा सह पन्तपाः ॥ १.६१.२४ ॥
他们点燃了漆屋,烧死了布罗昌那,在恐惧中与母亲一同逃走;他们是灼烧敌人的人。
1.61.25
ददृशुर्दारुमं रक्षो हिडिम्बं वननिर्झरे ।
हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात् ॥ १.६१.२५ ॥
他们在林中溪边看见了残酷的罗刹希迪巴。杀死那罗刹王后,他们因共同醒来而感到恐惧。
1.61.26
निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः ।
प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः ॥ १.६१.२६ ॥
夜间,般度诸子因惧怕持国之子而仓皇逃走。希迪巴与毗摩一同到达了迦陀迦却出生的地方。
1.61.27
एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः ।
वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः ॥ १.६१.२७ ॥
随后,他们在一轮城杀死了(那罗刹),般度之子们坚守誓愿、精通吠陀,成为梵行者。
1.61.28
ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः ।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥ १.६१.२८ ॥
那些自律的人中之雄,与母亲一起在一轮城的一位婆罗门家中住了一段时间。
1.61.29
तत्राससाद क्षुधितं पुरुषादं वृकोदरः ।
भीमसेनो महाबाहुर्बकं नाम महाबलम् ॥ १.६१.२९ ॥
在那里,大臂的毗摩森那(狼腹)遇到了一个饥饿的食人罗刹,名叫巴迦,力量强大。
1.61.30
तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः ।
निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत् ॥ १.६१.३० ॥
那位人中之虎、般度的英雄,凭借双臂的勇力,迅速将他也杀死,并充分安慰了城中百姓。
1.61.31
ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम् ।
श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम् ॥ १.६१.३१ ॥
于是他们听说在般遮罗国将举行选婿大会,求娶黑公主(Kṛṣṇā)。听到后,他们前往那里,并得到了她。
1.61.32
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः ।
विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः ॥ १.६१.३२ ॥
他们在那里得到德罗波蒂,居住满一年后,征服敌人者们得到通知,便返回象城(Hāstinapura)。
1.61.33
ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च ।
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥ १.६१.३३ ॥
国王持国(Dhṛtarāṣṭra)与善身之子(毗湿摩)对他们说:"亲爱的孩子,你们与兄弟之间怎会没有争执?"
1.61.34
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ।
तस्माज्जनपदोपेतं सुविभक्तमहापथम् ॥ १.६१.३४ ॥
我们已经为你们考虑了在Khāṇḍavaprastha的住所,那里有领土,并有划分得当的大道。
1.61.35
वासाय स्वाण्डवप्रस्थं व्रजध्वं गतमत्सराः ।
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः ॥ १.६१.३५ ॥
"去Khāṇḍavaprastha居住吧,要摒除嫉妒。"听了他们二人的话,他们便与所有亲近的人一同前往。
1.61.36
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ।
तत्र ते न्यवसन्पार्थाः संवत्सरगणांन्बहून् ॥ १.६१.३६ ॥
普利塔之子们带着所有珠宝,在Khāṇḍavaprastha城中居住了许多年。
1.61.37
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः ।
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः ॥ १.६१.३७ ॥
以兵器之威使其他诸王臣服,他们以法为首,专心于真实誓言,如此生活。
1.61.38
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून् ।
अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः ॥ १.६१.३८ ॥
警觉、备战、忍耐,烧灼许多敌人,大名远扬的怖军征服了东方。
1.61.39
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ।
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा ॥ १.६१.३९ ॥
英雄阿周那征服北方,那昆罗同样征服西方,杀敌英雄的萨哈德瓦征服南方。
1.61.40
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ।
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता ॥ १.६१.४० ॥
如此,他们全都使整个大地臣服:五人如太阳般光耀,还有那照耀的太阳。
1.61.41
षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः ।
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः ॥ १.६१.४१ ॥
由于真勇的般度五子,大地如同六个太阳。随后因某事,法王坚战...
1.61.42
वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः ।
प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम् ॥ १.६१.४२ ॥
光辉而真勇的他,将比生命更亲爱的兄弟萨维亚萨钦(阿周那)送入森林。
1.61.43
अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम् ।
स वै संवत्सरं पूर्णं मासं चैकं वने वसन् ॥ १.६१.४३ ॥
人中之虎、心志坚定、具足美德的阿周那,在林中住了整整一年零一个月。
1.61.44
तीर्थयात्रां च कृतवान्नागकन्यामवाप च ।
पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यांसहोषितः ॥ १.६१.४४ ॥
他去朝圣,又娶得一位龙女;在那里又得到潘提亚王的女儿,并与她们同居。
1.61.45
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ।
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् ॥ १.६१.४५ ॥
后来有一次,他前往德瓦拉卡见希利溪舍(黑天),在那里比跋蹉(阿周那)得到了一位莲花眼的妻子。
1.61.46
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ।
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता ॥ १.६१.४६ ॥
婆修提婆之妹苏婆陀罗,言语吉祥,与因陀罗结合如舍质,与黑天结合如吉祥天女。
1.61.47
सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह ।
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् ॥ १.६१.४७ ॥
苏婆陀罗欢喜地与般度之子阿周那结合;而贡蒂之子在迦湿婆林中使持祭火的阿耆尼获得满足。
1.61.48
बीभत्सुर्वासुदेवेन सहितो नृपस्तम ।
नातिभारो हि पार्थस्य केशवेन सहाभवत् ॥ १.६१.४८ ॥
诸王之最!与婆修提婆同行的比跋蹉(阿周那)并无过重的负担;与迦舍婆同在,对普利塔之子而言并不沉重。
1.61.49
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ।
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् ॥ १.६१.४९ ॥
正如毗湿奴在歼灭敌人的事业中相助,火神也将最好的弓——甘狄拔(Gāṇḍīva)赐给了贝尔塔(阿周那)。
1.61.50
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ।
मोक्षयामास बीभत्सुर्मयं यत्र महासुरम् ॥ १.६१.५० ॥
比毗呾苏(阿周那)从大阿修罗摩耶所在之处,取回了两个箭囊、无尽的箭以及绘有猴旗标记的战车。
1.61.51
स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ।
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः ॥ १.६१.५१ ॥
他建造了一座充满各种珍宝的神圣议事厅,而愚蠢且心怀恶念的难敌在其中生出了贪心。
1.61.52
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ।
वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च ॥ १.६१.५२ ॥
随后,他借苏波罗之子(沙恭尼)以骰子欺骗了坚战,将他们放逐森林七年又五年。
1.61.53
अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम् ।
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु ॥ १.६१.५३ ॥
此后,他们须在王国中隐匿一年,又再隐匿第十三年;到第十四年,他们便去索取自己的财富。
1.61.54
नालभन्त महाराज ततो युद्धमवर्तत ।
ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम् ॥ १.६१.५४ ॥
大王啊,他们未能得到(财富),于是战争爆发。之后,他们铲除了刹帝利阶层,并杀死了国王难敌。
1.61.55
राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ।
इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून् ॥ १.६१.५५ ॥
般度五子收回了几乎毁坏殆尽的王国,并举行了许多种祭祀,从马祠(Aśvamedha)开始。
1.61.56
धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते ।
गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम् ॥ १.६१.५६ ॥
持国王升天、维杜罗归于五大之后,为那些无量光辉的诸王举行了导向天界的祭仪。
1.61.57
स्वं धाम याते वार्ष्णेये कृष्णदारान्प्ररक्ष्य च ।
महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम् ॥ १.६१.५७ ॥
维里施尼之子(黑天)回归自己的居所之后,他们守护了黑公主(德劳帕蒂)及其他妇女,行了大离去之礼,升往至上的天界。
1.61.58
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् ।
भेदो राज्यविनाशश्च जयश्च जयतांवर ॥ १.६१.५८ ॥
此乃那些行事不费力者的古老历史:分裂、王国的毁灭与胜利。胜利者中的最优者啊。