Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.73

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.73.1

यः परेषां नरो नित्यमतिवादांस्तितिक्षते ।
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ १.७३.१ ॥

常忍受他人粗言恶语之人,天耶尼啊,你当知道:他已战胜了这一切。

1.73.2

यः समुत्पतितं क्रोधं निगृह्णाति इयं यथा ।
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥ १.७३.२ ॥

能如此抑制已生起之怒者,善人称之为'御者';而非悬挂于缰绳之人。

1.73.3

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति ।
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ १.७३.३ ॥

以无怒之心遣除已生起之怒者——天耶尼啊,你当知道:他已战胜了这一切。

1.73.4

यः समुत्पतितं क्रोधं क्षमयेह निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ १.७३.४ ॥

在此以宽恕遣除已生起之怒者,如蛇脱去旧皮——此人确实被称为'丈夫'。

1.73.5

यः संधारयते मन्युं योऽतिवादांस्तितिक्षते ।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥ १.७३.५ ॥

能压制愤怒、忍受恶语,且虽受煎熬却不煎熬他人之人,必然成为财富与利益的容器。

1.73.6

यो यजेदपरिश्रान्तो मासिमासि शतं समाः ।
न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥ १.७३.६ ॥

不知疲倦地每月行祭,连续百年;与不对任何人发怒者相比——二者之中,无怒者更为殊胜。

1.73.7

तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ ।
क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च ॥ १.७३.७ ॥

因此,不怒者最为殊胜;欲与怒皆应受责。对于愤怒之人,布施、祭祀与苦行实属徒劳。

1.73.8

तस्मादक्रोधने यज्ञतपोदानफलं महत् ।
भवेदसंशयं भद्रे नेतरस्मिन्कदाचन ॥ १.७३.८ ॥

因此,不怒者的祭祀、苦行与布施之果实极为丰厚,善女,此无疑问;在另一人身上则绝非如此。

1.73.9

न यतिर्न तपस्वी च न यज्वा न च धर्मभाक् ।
क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च ॥ १.७३.९ ॥

陷于愤怒掌控之人,既非遁世者,亦非苦行者,非祭祀者,也非法的分享者;对他而言,两个世界皆不存在。

1.73.10

पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता ।
तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम् ॥ १.७३.१० ॥

儿子、仆役、朋友、兄弟、妻子、法与诚实——这些都必定会离开性情易怒之人。

1.73.11

यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः ।
न तत्प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम् ॥ १.७३.११ ॥

若男童女童因无知而结怨,智者不应效法之;他们不知自己的强弱。

1.73.12

वेदाहं तात बालाऽपि धर्माणां यदिहान्तरम् ।
अक्रोधे चातिवादे च वेद चापि बलाबलम् ॥ १.७३.१२ ॥

父亲,我虽是少女,却知此中诸法的差别;于不怒与忍受侮辱之中,我也知其强弱。

1.73.13

स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः ।
शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता ॥ १.७३.१३ ॥

欲求福祉者,不应宽恕那不履行本分、实已舍弃法度、行为不似弟子的弟子。

1.73.14

प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः ।
तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते ॥ १.७३.१४ ॥

如同舍弃本业而徒然离去的仆人或弟子,我不喜欢与行为混杂的人同住。

1.73.15

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च ।
न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥ १.७३.१५ ॥

那些因行为或出身而诋毁他人的人,求取福祉的智者不应住在这些心怀恶意的人之中。

1.73.16

ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा ।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥ १.७३.१६ ॥

凡因其行为或出身而了解他的人,应当住在这些善人之中;这样的居所被称为最好。

1.73.17

सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः ।
दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च ॥ १.७३.१७ ॥

总有善于克制自持却贫无财物的贤人;而行为恶劣、造作恶业之人,即便富有,也是贱民。

1.73.18

नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना ।
धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः ॥ १.७३.१८ ॥

并非仅凭出生便成为贱民,也不是没有依自身业行所定的行为;执着于财富、门第与学问者,具有贱民的本性。

1.73.19

अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते ।
साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत् ॥ १.७३.१९ ॥

他们无故憎恨,口出谤言。善人不宜居于其中;与恶人同住者必陷于恶行。

1.73.20

सुकृते दुष्कृते वापि यत्र सज्जति यो नरः ।
ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत् ॥ १.७३.२० ॥

人无论执着于善行还是恶行,其喜好必定在那里。因此不应喜好憎恨。

1.73.21

वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः ।
मम मथ्नाति हृदयमग्निकाम इवारणिम् ॥ १.७३.२१ ॥

跋利沙帕尔万之女的严厉而极其可怕的话语搅动我的心,犹如渴望火者钻动火杵。

1.73.22

न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ।
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥ १.७३.२२ ॥

我想,即使在三界之中,也没有比失去光彩者侍奉对手光辉的荣耀更为艰难的事了。

1.73.23

मरणं शोभनं तस्य इति विद्वज्जना विदुः ।
अवमानमवाप्नोति शनैर्नीचसमागमात् ॥ १.७३.२३ ॥

智者知道,对这样的人而言死亡更好;与卑贱者交往,便会逐渐蒙受羞辱。

1.73.24

अतिवादा वक्त्रतो निःसरन्ति ।
यैराहतः शोचति रात्र्यहानि।
परस्य वै मर्मसु ते पतन्ति ।
तस्माद्धीरो नैव मुच्येत्परेषु ॥ १.७३.२४ ॥

粗暴的话语从口中吐出;被其所伤者日夜悲伤。它们落在他人的要害之处;因此坚定之人永远无法摆脱他人(这样的打击)。

1.73.25

निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना ।
वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम् ॥ १.७३.२५ ॥

兵器所伤之创可愈,火所烧之伤亦可愈;而言语之伤不愈,因它不及有身者之身体。

1.73.26

संरोहित शरैर्विद्धं नवं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम् ॥ १.७३.२६ ॥

被箭射穿之伤,被斧砍之新伤,皆可愈合;但因口中说出的粗暴而可耻之言所造成的言语之伤,不能愈合。