Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.75

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.75.1

अथ दीर्घस्य कालस्य देवयानी नृपोत्तम ।
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥ १.७५.१ ॥

过了很久,王中之最啊,肤色美丽的提婆雅尼为了嬉戏,又走进了那片森林。

1.75.2

तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा ।
तमेव देशं संप्राप्ता यथाकामं चचार सा ॥ १.७५.२ ॥

那时,她与一千名侍女以及舍尔弥瑟塔一同来到那个地方,随心所欲地游逛。

1.75.3

ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ।
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीं ॥ १.७५.३ ॥

与所有这些女伴在一起,她们极为欢喜,嬉戏沉浸其中,都饮着甘甜的摩陀婆威酒。

1.75.4

खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ।
पुनश्च नाडुषो राजा मृगलिप्सुर्यदृच्छया ॥ १.७५.४ ॥

她们吃着各种食物,咬着果实。这时,那罗湿婆之子的国王为寻找鹿群,偶然来到了那里。

1.75.5

तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः ।
ददर्श देवयानीं स शर्मिष्ठां ताश्च योषितः ॥ १.७५.५ ॥

他为寻水而来,疲惫不堪,到达那个地方,看见了提婆雅尼、舍尔弥瑟塔和那些女子。

1.75.6

पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ।
आसनप्रवरे दिव्ये सर्वरत्नविभूषिते।
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् ॥ १.७५.६ ॥

她们饮酒嬉戏,佩戴着天界的饰物。他看见提婆雅尼,面带纯净的微笑,端坐在装饰着各种宝石的殊胜天座上。

1.75.7

रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनम् ।
आसनाच्च ततः किंचिद्विहीनां हेमभीषिताम् ॥ १.७५.७ ॥

在那些女子之中,容貌无与伦比、最为出众的女子,稍稍离开座位,身披金饰。

1.75.8

असुरेन्द्रसुतां चापि निषण्णां चारुहासिनीम् ।
ददर्श पादौ विप्रायाः संवहन्तीमनिन्दिताम् ॥ १.७५.८ ॥

他也看见阿修罗之主的女儿,她坐着,笑容甜美,正在按摩那无可指责的婆罗门少女的双脚。

1.75.9

गायन्त्योऽथ प्रनृत्यन्त्यो वादयन्त्योऽथ भारत ।
दृष्ट्वा ययातिमतुलं लज्जयाऽवनताः स्थिताः ॥ १.७५.९ ॥

她们歌唱、起舞、奏乐,婆罗多啊,见到无双的耶耶提,便羞怯地低头站立。

1.75.10

द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते ।
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यहं शुभे। ॥ १.७५.१० ॥

两位少女被两千名少女环绕,美好的女子啊,我想问问你们二人的族姓和名字。

1.75.11

आख्यास्याम्यहमादत्स्व वचनं मे नराधिप ।
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥ १.७५.११ ॥

我将告诉你,人主啊,请听我的话。请知道我是阿修罗之师、名为舍ukra的那位的女儿。

1.75.12

इयं च मे सखी दासी यत्राहं तत्र गामिनी ।
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥ १.७५.१२ ॥

她是我的朋友和侍女,我去哪里她就跟到哪里;她是檀那婆之主伐利沙波尔万的女儿舍尔弥什陀。

1.75.13

कथं तु ते सखी दासी कन्येयं वरवर्णिनी ।
असुरेन्द्रसुता सुभ्रूः परं कौतूहलं हि मे ॥ १.७५.१३ ॥

你的朋友兼婢女、这位容貌出众的少女,为何会如此?她是阿修罗之王的女儿,眉目姣好;我对此非常好奇。

1.75.14

नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ १.७५.१४ ॥

她既非天女,也非乾闥婆女、夜叉女或紧那罗女;如此容貌的女子,我以前从未在世间见过。

1.75.15

श्रीरिवायतपद्माक्षी सर्वलक्षणशोभना ।
असुरेन्द्रसुता कन्या सर्वालङ्कारभूषिता ॥ १.७५.१५ ॥

她宛如吉祥天女本人,眼如长长的莲花,具备一切吉祥之相;这位阿修罗之王的女儿,身上装饰着各种饰物。

1.75.16

दैवेनोपहता सुभ्रूरुताहो तपसापि वा ।
अन्यथैषाऽनवद्याङ्गी दासी नेह भविष्यति ॥ १.७५.१६ ॥

她是被命运所困,美眉的人啊,还是因苦行所致?否则,这位肢体无瑕的女子不会在此为婢。

1.75.17

अस्या रूपेण ते रूपं न किंचित्सदृशं भवेत् ।
पुरा दुश्चरितेनेयं तव दासी भवत्यहो ॥ १.७५.१७ ॥

你的容貌丝毫无法与她相比。从前因某种恶行,她才成了你的婢女,唉!

1.75.18

सर्व एव नरश्रेष्ठ विधानमनुवर्तते ।
विधानविहितं मत्वा मा विचित्राः कथाःकृथाः ॥ १.७५.१८ ॥

人中之最,众生都遵循天命。既知此为命中注定,就不要说那些奇异的故事了。

1.75.19

राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च ।
को नाम त्वं कुतश्चासि कस्य पुत्रश्च शस मे ॥ १.७५.१९ ॥

你的形貌和衣着如同国王,却说着婆罗门的语言。你是谁,从何而来,是谁的儿子?请告诉我。

1.75.20

ब्रहमचर्येण वेदो मे कृत्स्रः श्रुतिपथं गतः ।
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥ १.७५.२० ॥

我以梵行修学,已闻尽全部吠陀。我是国王,是王子,名为耶耶提,声名远扬。

1.75.21

केनास्यर्थेन नृपते इमं देशमुपागतः ।
जिघृक्षुर्वारिजं किंचिदथवा मृगलिप्सया ॥ १.७५.२१ ॥

国王啊,你为何事来到此地?是想取某种水生之物,还是因贪求猎取鹿群?

1.75.22

मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः ।
बहुधाऽप्यनुयुक्तोऽस्मि तदनुज्ञातुमर्हसि ॥ १.७५.२२ ॥

善良的女子啊,我并非贪求猎物,而是为了取水而来。我已多次被请求;所以你应当允许我离去。

1.75.23

द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह ।
त्वदधीनाऽस्मि भद्रं ते सखा भर्ता च मे भव ॥ १.७५.२३ ॥

我与两千名少女及婢女莎米什塔一同听你支配。愿你吉祥;请做我的伴侣与夫君。

1.75.24

असुरेन्द्रसुतामीक्ष्य तस्यां सक्तेन चेतसा ।
शर्मिष्ठा महिषी मह्यमिति मत्वा वचोऽब्रवीत् ॥ १.७५.२४ ॥

他见到阿修罗之主的女儿,心中眷恋于她,以为「莎米什塔将成为我的正妃」,便说出了这番话。

1.75.25

विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि ।
अविवाह्या हि राजानो देवयानि पितुस्तव ॥ १.७५.२५ ॥

你要知道,乌until沙那斯之女,愿你吉祥。美人啊,我配不上你。提婆雅尼,国王不与你父亲宗族的女子结婚。

1.75.26

परभार्या स्वसा श्रेष्ठा सगोत्रा पतिता स्नुषा ।
अवरा भिक्षुकाऽस्वस्था अगम्याः कीर्तिता बुधैः ॥ १.७५.२६ ॥

他人之妻、姐妹、同宗的尊贵女子、堕落之女、儿媳、出身低贱者、乞丐女和病妇——智者宣称这些人是不可亲近的。

1.75.27

संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म संहितम् ।
अन्यत्वमस्ति न तयोरेकान्ततरमास्थिते।
ऋषिश्चाप्यृषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥ १.७५.२७ ॥

刹帝利与婆罗门相融,婆罗门与刹帝利相连;这二者之间并无绝对的区别。你既是仙人,又是仙人之子。那呼沙之子啊,请娶我吧。

1.75.28

एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने ।
पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः ॥ १.७५.२८ ॥

美人啊,四种姓虽然同出一身,但其职责与洁净各不相同。其中婆罗门最为尊贵。

1.75.29

पाणि धर्मो नाहुषाऽयं न पुंभिः सेवितः पुरा ।
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥ १.७५.२९ ॥

那呼沙之子啊,这握手之法从前男子并未遵行。你先握了我的手,所以我现在选择你。

1.75.30

कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् ।
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥ १.७५.३० ॥

既然我这高贵女子的手已被仙人之子握过,或是你这位仙人亲自握过,别的男子又怎能触碰我的手呢?

1.75.31

क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् ।
दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता ॥ १.७५.३१ ॥

愤怒的毒蛇、四面焚烧的烈火,都不如婆罗门难以制服;有智慧的人应当知道这一点。

1.75.32

कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् ।
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥ १.७५.३२ ॥

最优秀的男子啊,你怎么说婆罗门比毒蛇或烈火更难以制服呢?

1.75.33

एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥ १.७५.३३ ॥

毒蛇只杀一人,兵器也只杀死一人;但愤怒的婆罗门会连同城邑毁灭整个国家。

1.75.34

दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम ।
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥ १.७५.३४ ॥

婆罗门更难制服,这是我的看法,胆怯的人啊。因此,善良的女子,你父亲没有赠予我的,我不会娶你。

1.75.35

दत्तां वहस्व तन्मा त्वं पित्रा राजन्वृतो मया ।
आयचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥ १.७५.३५ ॥

国王啊,请按照父亲所赠予的方式娶我;是我亲自选择了你。求取者无所畏惧,接受施舍者也无所畏惧。

1.75.36

तिष्ठ राजन्मुहूर्तं च प्रेषयिष्याम्यहं पितुः ।
गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय।
स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम् ॥ १.७५.३६ ॥

国王啊,请稍等片刻;我要派人去告诉父亲。乳母,快去,把一位如同婆罗门的男子带到这里来。快去告诉在选婿大会上被我选中的那露沙之子。

1.75.37

त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः ।
सर्वं निवेदयामास धात्री तस्मै यथातथम् ॥ १.७५.३७ ॥

于是提婆耶妮迅速转达了父亲的吩咐,乳母便将一切原原本本地禀告给他。

1.75.38

श्रुत्वैव च स राजानं दर्शयामास भार्गवः ।
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः।
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥ १.७५.३८ ॥

婆利古之子(仙人室ukra)一听便现身于国王面前。见室ukra到来,地上之主耶延提向婆罗门迦婆耶行礼,合掌低首而立。

1.75.39

राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् ।
नान्यपूर्वगृहीतं मे तेनाहमभया कृता।
नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे ॥ १.७५.३९ ॥

父亲,这位那呼沙之子的国王在困境中握住了我的手。此前无人握过我的手,他使我无所畏惧。向您致敬;请把我许配给他,我在世间不会选择别的丈夫。

1.75.40

अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः ।
कचशापात्त्वया पूर्वं नान्यद्भवितुमर्हति ॥ १.७५.४० ॥

一法可爱,另一法不同;你已选定那呼沙之子为夫。因迦恰的诅咒,你先前不应另有其他丈夫。

1.75.41

वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया ।
स्वयं ग्रहे महान्दोषो ब्राह्मण्या वर्णसंकरात्।
गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥ १.७५.४१ ॥

勇士啊,我心爱的女儿已选定这位丈夫。婆罗门女子自行择偶,因种姓混杂而是大过。那呼沙之子啊,请接受我所赐予的这位王后。

1.75.42

अधर्मो न स्पृशेदेष महान्मामिह भार्गव ।
वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥ १.७५.४२ ॥

婆利古之子啊,愿这大非法不触及我于此。婆罗门啊,我出生于种姓混杂,故如此选择你。

1.75.43

अधर्मात्त्वां विमुञ्चामि शृणु त्वं वरमीप्सितम् ।
अस्मिन्विवाहे मा म्लासीरहं पापं नुदामि ते ॥ १.७५.४३ ॥

我使你脱离非法。听你所求之恩典。此婚姻中不要忧虑;我为你消除罪过。

1.75.44

वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् ।
अनया सह संप्रीतिमतुलां समवाप्नुहि ॥ १.७५.४४ ॥

依法娶细腰的天护为妻;与她你将获得无比的爱悦。

1.75.45

इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी ।
संपूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥ १.७५.४५ ॥

大王啊,这位毗湿婆帕尔万之女沙尔弥什陀,你应当永远尊敬她;不要召她到你的床上。

1.75.46

रहस्येनां समाहूय न वदेर्न च संस्पृशेः ।
वहस्व भार्यां भद्रं ते यथा काममवाप्स्यसि ॥ १.७५.४६ ॥

不要私下召她来与她说话,也不要触碰她。娶她为妻;愿你吉祥,你将得偿所愿。

1.75.47

एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् ।
शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम् ॥ १.७५.४७ ॥

耶耶提王闻言,绕行婆罗门舒羯罗致敬,依经典所规定的仪轨,完成了吉祥的婚礼。

1.75.48

लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तदोत्तमाम् ।
द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह ॥ १.७५.४८ ॥

从仙人首陀罗获得大量财富与殊胜的天车(提婆陀尼),并与两千名少女及沙尔弥瑟塔一同。

1.75.49

संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः ।
जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना ॥ १.७५.४९ ॥

受到首陀罗与众阿修罗的尊敬,那位最优秀的国王在这位大德的允许下,欢喜地回到了自己的城市。