Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.76

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.76.1

ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् ।
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥ १.७६.१ ॥

耶耶提抵达自己的城市,那城市如同摩亨德罗的城市,他进入内宫,并在那里安置了提婆yānī。

1.76.2

देवयान्याश्चानुमते सुतां तां वृषपर्वणः ।
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥ १.७६.२ ॥

在提婆yānī的同意下,他在阿输迦园附近为毗利沙波尔万的那个女儿建造了住所,并让她住在那里。

1.76.3

वृतां दासीसहस्रेण शर्मिष्ठां वार्षपर्वणीम् ।
वासोभरन्नपानैश्च संविभज्य सुसत्कृताम् ॥ १.७६.३ ॥

毗利沙波尔万的女儿沙尔弥湿陀被一千名侍女环绕,人们为她分配衣物、饮食,给予了很好的礼遇。

1.76.4

देवयान्या तु सहितः स नृपो नहुषात्मजः ।
प्रीत्या परमया युक्तो मुमुदे शाश्वतीः समाः ॥ १.७६.४ ॥

那位那呼沙之子的国王与提婆yānī在最深的爱意中相伴,欢乐了无数年。

1.76.5

अशोकवनिकामध्ये देवयानी समागता ।
शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे ॥ १.७६.५ ॥

在阿输迦园中,提婆yānī与沙尔弥湿陀相遇,并在那可爱迷人的地方嬉戏玩耍。

1.76.6

तत्रैव तां तु निर्दिश्य राज्ञा सह ययौ गृहम् ।
एवमेव सह प्रीत्या बहु कालं मुमोद च ॥ १.७६.६ ॥

就在那里为她指定了住处,然后与国王一同回家;就这样彼此相爱地生活,他们长久地欢乐。

1.76.7

विजहार बहूनब्दान्देववन्मुदितः सुखी ॥ १.७६.७ ॥

他像神一样快乐幸福地生活了许多年。

1.76.8

ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना ।
लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥ १.७६.८ ॥

当经期到来时,优秀的女子天耶尼首先怀孕,并生下一个儿子。

1.76.9

गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ।
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥ १.७६.९ ॥

千年过去,沙尔弥ษฐา长大成人。她看见自己月经来潮,便开始思索。

1.76.10

शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारशोभिता ।
अशोकशाखामालम्ब्य सुपुष्पस्तबकैर्वृताम् ॥ १.७६.१० ॥

沙尔弥ษฐา沐浴净身,身着各种饰物,手扶一根开满花束的无忧树枝。

1.76.11

आदर्शे मुखमुद्वीक्ष्य भर्तुर्दर्शनलालसा ।
शोकमोहसमाविष्टा वचनं चेदमब्रवीत् ॥ १.७६.११ ॥

她对镜看着自己的脸,渴望见到丈夫,被悲伤与迷惑所笼罩,于是说出了这些话。

1.76.12

अशोक शोकापनुद शोकोपहतचेतसाम् ।
त्वन्नामानं कुरुष्वाद्य प्रियसंदर्शनेन माम्।
एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत् ॥ १.७६.१२ ॥

“无忧树啊,你能驱除忧愁,解除心灵受苦者的悲痛,今日请借我与所爱者相见,使我配得上你的名字。”说完这番话,沙尔弥षฐา又说道。

1.76.13

ऋतुकालश्च संप्राप्तो न च मेऽस्ति वृतः पतिः ।
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा सुखं भवेत् ॥ १.७६.१३ ॥

月经之期已至,我却还没有选定的丈夫。我得到了什么?现在该做什么?做什么才能得到幸福?

1.76.14

देवयानी प्रजाताऽसौ वृथाऽहं प्राप्तयौवना ।
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥ १.७६.१४ ॥

提婆耶尼已经生子,而我已到青春,却徒然度日。她如何选定了她的丈夫,我也同样选定他。

1.76.15

राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः ।
अपीदानीं स धर्मात्मा ईयान्मे दर्शनं रहः ॥ १.७६.१५ ॥

我坚定的想法是,国王应当赐予子嗣的果实。即使现在,愿那位有德之人私下与我相见。

1.76.16

केशैर्बध्या तु राजानं याचेऽहं सदृशं पतिम् ।
स्पृहेदिदं देवयानी पुत्रमीक्ष्य पुनःपुनः।
क्रीडन्नन्तःपुरे तस्याः क्वचित्क्षणमवाप्य च ॥ १.७६.१६ ॥

我束起头发,向国王请求一位与我相配的丈夫。愿提婆耶尼看到这个在内宫嬉戏的儿子一次又一次,心生渴望,并能得到他片刻。

1.76.17

अथ निष्क्रम्य राजाऽसौ तस्मिन्काले यदृच्छया ।
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप तिष्ठतीम् ॥ १.७६.१७ ॥

此时国王偶然外出,遇见了站在阿输迦园附近的修米什塔。

1.76.18

तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी ।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥ १.७६.१८ ॥

她见国王独自一人在僻静处,这位笑容甜美的修米什塔便迎上前去,合掌向国王说了这番话。

1.76.19

सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा ।
तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति ॥ १.७६.१९ ॥

无论是苏摩、因陀罗、毗湿奴、阎摩、伐楼那之物,还是你的,哦,那呼莎之子——在你的家中,谁配得上看一眼女子?

1.76.20

रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा ।
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥ १.७६.२० ॥

哦,国王,凭容貌、出身与品行,你一向认识我。我祈求你,赢得你的恩惠:请赐我受孕之时,哦,人主。

1.76.21

वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम् ।
रूपं च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥ १.७६.२१ ॥

我知你品行端正,乃阿修罗之女,无可指摘;然而在你的容貌中,我连针尖大小的瑕疵也看不见。

1.76.22

तदाप्रभृति दृष्ट्वा त्वां स्मराम्यनिशमुत्तमे ।
अब्रवीदुशना काव्यो देवयानीं यदाऽवहम्।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥ १.७६.२२ ॥

自从见到你,我便时刻思念你,哦,最尊贵的人。当我迎娶天护(Devayānī)时,迦维之子乌舍那曾说:「在床榻上,你不可召唤这位毗湿缚婆尔文之女。」

1.76.23

देवयान्याः प्रियं कृत्वा शर्मिष्ठामपि पोषय ॥ १.७६.२३ ॥

既为天护(Devayānī)做了她喜爱之事,也要供养沙密师陀(Śarmiṣṭhā)。

1.76.24

न नर्मयुक्तमनृतं हिनस्ति ।
न स्त्रीषु राजन्न विवाहकाले।
प्राणात्यये सर्वधनापहारे ।
पञ्चानृतान्याहुरपातकानि ॥ १.७६.२४ ॥

戏言之谎不伤人。哦,国王,对女子、在婚嫁之时、性命危急之际、全部财物被夺之时——这五种谎言被称为无罪。

1.76.25

पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा ।
वदन्ति मिथ्या पतितं नरेन्द्र।
एकार्थतायां तु समाहितायां ।
मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥ १.७६.२५ ॥

作为证人被问及时若说法不同,人们称他为妄言者与堕落之人,人主啊。然而若事情只有一个且心念专一,谎言本身就会毁灭说谎之人。

1.76.26

अनृतं नानृतं स्त्रीषु परिहासविवाहयोः ।
आत्मप्राणार्थघाते च तदेवोत्तमतां व्रजेत् ॥ १.७६.२६ ॥

对女子、在戏言中、在婚姻中所说的谎话,不算谎言。即使在自身性命或财富受损之时,同样的谎话也会成为最高的德行。

1.76.27

राजा प्रमाणं भूतानां स नश्येत मृषा वदन् ।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥ १.७६.२७ ॥

君王是众生的准则;若他妄语,便会毁灭。即使陷入财困,我也不敢行虚妄之事。

1.76.28

समावेतौ मतो राजन्पतिः सख्याश्च यः पतिः ।
समं विवाहमित्याहुः सख्या मेऽसि वृतः पतिः ॥ १.७६.२८ ॥

大王,朋友的丈夫与现为夫者,被视为相等。人们说婚姻是对等的;作为我朋友的丈夫,你已被我选定。

1.76.29

सह दत्तास्मि काव्येन देवयान्या मनीषिणा ।
पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि ॥ १.७६.२९ ॥

我与德瓦耶妮一同被许给了智者迦婆耶。我当受尊敬与供养,所以你不应行虚妄之事。

1.76.30

सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च ।
याचितॄणां ददासि त्वं गोभूम्यादीनि यानि च ॥ १.७६.३० ॥

黄金、宝石、珍珠、衣服、饰物、牛、土地等等一切,你都施与求乞之人。

1.76.31

बहिःस्थं दानमित्युक्तं न शरीराश्रितं नृप ।
दुष्करं पुत्रदानं च आत्मदानं च दुष्करम् ॥ १.७६.३१ ॥

国王啊,所谓布施只是外物,不是依附于身体的东西。施与儿子是困难的,施与自身更是困难的。

1.76.32

शरीरदानात्तत्सर्वं दत्तं भवति मारिष ।
यस्य यस्य यथा कामस्तस्य तस्य ददाम्यहम् ॥ १.७६.३२ ॥

以身体布施,一切便都已施与了,尊者啊。谁有所求,我便施予谁。

1.76.33

इत्युक्त्वा नगरे राजंस्त्रिकालं घोषितं त्वया ।
त्वयोक्तमनृतं राजन्वृथा घोषितमेव वा।
तत्सत्यं कुरु राजेन्द्र यथा वैश्रवणस्तथा ॥ १.७६.३३ ॥

国王啊,你说了这番话,并在城中三次宣告。国王啊,你所说的是虚妄的,或者只是白白宣告。诸王之王啊,请使它成真,如同毗沙门(俱毗罗)那样。

1.76.34

दातव्यं याचमानेभ्य इति मे व्रतमाहितम् ।
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥ १.७६.३४ ॥

对于乞求者应当施与,这是我所立的誓愿。你也向我请求。请告诉我你的愿望,我该为你做什么?

1.76.35

धनं वा यदि वा किंचिद्राज्यं वाऽपि शुचिस्मिते ।
अधर्मात्पाहि मां राजन्धर्मं च प्रतिपादय ॥ १.७६.३५ ॥

财富也好,别的什么也好,甚至王国也好,纯洁微笑的人啊。国王啊,请使我脱离不义,并确立法(dharma)。

1.76.36

नान्यं वृणे पुत्रकामा पुत्रात्परतरं न च ।
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥ १.७६.३६ ॥

我渴望有子,不选择别的,也没有比儿子更高的。从你那里得到子嗣,我便能在世间行持最高的法。

1.76.37

त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥ १.७६.३७ ॥

大王啊,妻子、奴仆与儿子,这三者没有自己的财富;他们所获得的,都属于他们所隶属的那个人。

1.76.38

पुत्रार्थं भर्तृपोषार्थं स्त्रियः सृष्टाः स्वयंभुवा ।
अपतिर्वापि या कन्या अनपत्या च या भवेत्।
तासां जन्म वृथा लोके गतिस्तासां न विद्यते ॥ १.७६.३८ ॥

自生之神造女人是为了生育子嗣、侍奉丈夫。没有丈夫的少女或没有子嗣的女人,其生命在世间是徒劳的;她们没有去路。

1.76.39

देवयान्या भुजिष्याऽस्मि वश्या च तव भार्गवी ।
सा चाहं च त्वया राजन्भजनीये भजस्व माम् ॥ १.७६.३९ ॥

我是提婆耶尼的婢女,婆迦维(提婆耶尼)也归你支配。她和我,大王啊,都可供你享用;请你接纳我。

1.76.40

एवमुक्तस्तु राजा स तथ्यमित्यभिजज्ञिवान् ।
पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥ १.७६.४० ॥

国王听了这番话,认为这是真理;他尊敬沙尔米什塔,并阐明了法。

1.76.41

स समागम्य शर्मिष्ठां यथा काममवाप्य च ।
अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम् ॥ १.७६.४१ ॥

他与沙尔米什塔结合,依其所愿得到了她,彼此敬重之后,两人便循原路回去了。

1.76.42

तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी ।
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥ १.७६.४२ ॥

在那次结合中,眉目秀美、笑容甜美的沙尔米什塔,首次从那位最优秀的国王处怀了身孕。

1.76.43

प्रयज्ञे च ततः काले राजन्राजीवलोचना ।
कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥ १.७६.४३ ॥

随后,到了时候,大王,那位莲花眼的女子生下一子,光彩如天神之子,眼睛如莲花一般。