Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.77

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.77.1

तस्मिन्नक्षत्रसंयोगे शुक्ले पुण्यर्क्षगेन्दुना ।
स राजा मुमुदे सम्राट् तया शर्मिष्ठया सह ॥ १.७७.१ ॥

在那星宿相会之时,于白半月,月亮位于吉祥的星宿之中,那位至尊之王与舍尔米什塔同享欢乐。

1.77.2

प्रजानां श्रीरिवाभ्याशे शर्मिष्ठा ह्यभवद्वधूः ।
पन्नगीवोग्ररूपा वै देवयानी ममाप्यभूत् ॥ १.७७.२ ॥

舍尔米什塔近在身边,犹如众生的吉祥女神,成为了妻子;而形貌凶猛、如蛇女一般的提婆耶妮,也成了我的妻子。

1.77.3

पर्जन्य इव सस्यानां देवानाममृतं यथा ।
तद्वन्ममापि संभूता शर्मिष्ठा वार्षपर्वणी।
इत्येवं मनसा ज्ञात्वा देवयानीमवर्जयत् ॥ १.७७.३ ॥

犹如雨云之于庄稼,甘露之于诸神,舍尔米什塔也如雨季之节,为我而生。心中这样思量之后,他便舍弃了提婆耶妮。

1.77.4

श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता ।
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥ १.७७.४ ॥

提婆耶妮听闻儿子降生,她笑容纯净,婆罗多啊,因悲痛而苦恼,开始思量舍尔米什塔之事。

1.77.5

अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् ।
किमिदं वृजिनं सुभ्रु कृतं वै कामलुब्धया ॥ १.७७.५ ॥

提婆耶妮走近舍尔米什塔,说道:‘眉目姣好的人啊,你被欲望的贪念驱使,究竟做了什么恶事?’

1.77.6

ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः ।
स मया वरदः कामं याचितो धर्मसंहितम् ॥ १.७७.६ ॥

有一位心怀正法、精通吠陀的仙人前来作客。我便向这位施恩的人,依照正法,请求了我所愿的恩赐。

1.77.7

अपत्यार्थे स तु मया वृतो वै चारुहासिनि ।
नाहमन्यायतः काममाचरामि शुचिस्मिते।
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥ १.७७.७ ॥

舍尔弥ษ陀说:美笑的人啊,我为求子而选择了他。纯洁微笑的人啊,我不会不义地遂欲。所以我真实地告诉你,那孩子是仙人的儿子。

1.77.8

शोभनं भीरु यद्येवमथ स ज्ञायते द्विजः ।
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥ १.७७.८ ॥

提婆耶尼说:胆怯的人啊,若是这样,那就好。现在我想通过他的种姓、名字和家族来了解那位婆罗门。

1.77.9

तपसा तेजसा चैव दीप्यमानं यथा रविम् ।
तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥ १.७७.९ ॥

舍尔弥ษ陀说:纯洁微笑的人啊,见他以苦行与光辉如太阳般闪耀,我没有勇气去询问他。

1.77.10

यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम ।
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥ १.७७.१० ॥

提婆耶尼说:舍尔弥ษ陀啊,若是这样,我心中便没有怒气,前提是你从年长而最优秀的婆罗门那里得到了子嗣。

1.77.11

अन्योन्यमेवमुक्त्वा तु संप्रहस्य च ते मिथः ।
जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी ॥ १.७७.११ ॥

两人如此互相说完,又尽情大笑,认为那是真实的,婆利古之女便回到了自己的住所。

1.77.12

ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः ।
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥ १.७७.१२ ॥

国王耶耶提从提婆耶尼处生下两个儿子,耶杜与突婆须,如同另外两位因陀罗与毗湿奴。

1.77.13

तस्मिन्काले तु राजर्षिर्ययातिः पृथिवीपतिः ।
माध्वीकरससंयुक्तां मदिरां मदवर्धनीम् ॥ १.७७.१३ ॥

那时,王仙耶耶提,大地之主,持有混合了蜜酒之汁、能增加醉意的烈酒。

1.77.14

पाययामास शुक्रस्य तनयां रक्तपिङ्गलाम् ।
पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा ॥ १.७७.१४ ॥

他让舍克拉之女、赤黄色的提婆耶尼饮下〔烈酒〕。她一杯接一杯地饮酒,提婆耶尼便昏乱了。

1.77.15

रुदती गायमाना च नृत्यन्ती च मुहुर्मुहुः ।
बहु प्रलपती देवी राजानमिदमब्रवीत् ॥ १.७७.१५ ॥

她一边哭泣、歌唱,一再舞蹈,大声哀叹,那女神对国王说了这些话。

1.77.16

राजवद्रूपवेषौ ते किमर्थं त्वमिहागतः ।
केन कार्येण संप्राप्तो निर्जनं गहनं वनम् ॥ १.७७.१६ ॥

你有国王的容貌和装束,为何来到此处?因何事来到这片荒凉幽深的森林?

1.77.17

द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः ।
तस्मादितः पलायस्व हितमिच्छसि चेद्द्विज ॥ १.७७.१७ ॥

噢,再生族中的最优者,王中最优者耶耶提面目凶猛。因此,再生族之人啊,若你想要自身的好处,就从这里逃走吧。

1.77.18

इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः ।
भर्त्सयामास वचनैरनर्हां पापवर्धनीम् ॥ १.७७.१८ ॥

如此哀叹的提婆耶尼,被那纳胡沙之子耶耶提以不合适、增长罪恶的言语斥责了。

1.77.19

ततो वर्षवरान्मूकान्व्यङ्गान्वृद्धांश्च पङ्गुकान् ।
रक्षणे देवयान्याः स पोषणे च शशास तान् ॥ १.७७.१९ ॥

随后,他指派哑人、残障者、老人、跛子和阉人负责保护和供养天欢(Devayānī)。

1.77.20

ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान् ।
रेमे च सुचिरं कालं तया शर्मिष्ठया सह ॥ १.७७.२० ॥

随后,智慧的那呼沙之子国王得到了舍尔弥湿陀,与她长久地欢愉。

1.77.21

तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी ।
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥ १.७७.२१ ॥

此后,那位王仙所生,即毗湿波婆尔万之女舍尔弥湿陀,生下三个儿子:德鲁希由、阿努和普卢。

1.77.22

ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता ।
ययातिसहिता राजञ्जगाम रहितं वनम् ॥ १.७७.२२ ॥

此后,大王啊,某时,笑容纯洁的天欢(Devayānī)与耶耶提一同前往一片僻静的森林。

1.77.23

ददर्श च तदा तत्र कुमारान्देवरूपिणः ।
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥ १.७७.२३ ॥

她在那里看见几个形貌如神的男孩毫无畏惧地玩耍,惊讶之下说道:

1.77.24

कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः ।
वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥ १.७७.२४ ॥

大王啊,这些如神之子般俊美的男孩是谁家的?以光彩和容貌看,他们在我看来与您相似。

1.77.25

एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत ॥ १.७७.२५ ॥

她这样询问了国王之后,又去询问那些少年。

1.77.26

तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत् ।
किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम् ॥ १.७७.२६ ॥

乳母听到此言,回答他们说:"孩子们,你们为何不说说你们的父亲,那位再生者中的雄牛呢?"

1.77.27

ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता ।
शर्मिष्ठा नानृतं ब्रूते देवयानि क्षमस्व नः ॥ १.७७.२७ ॥

"我们的父亲是仙人、婆罗门,也是再生者。舍尔米什塔不说谎。提婆耶尼,请原谅我们。"

1.77.28

किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ।
प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते ॥ १.७७.२८ ॥

"孩子们,你们那位婆罗门父亲叫什么名字,属于哪个种姓?请如实快快告诉我:他是谁,住在哪里?"

1.77.29

प्रब्रूत मे यथा तथ्यं श्रोतुमिच्छामि तं ह्यहम् ।
एवमुक्ताः कुमारस्ते देवयान्या सुमध्यया ॥ १.७७.२९ ॥

"请照实告诉我,我想听听关于他的事。"当腰身纤细的提婆耶尼这样说时,那些少年……

1.77.30

तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् ।
शर्मिष्ठां मातरं चैव तथाऽऽचख्युश्च दारकाः ॥ १.७७.३० ॥

他们用食指指向那位最好的国王,孩子们也同样指出了他们的母亲舍尔米什塔。

1.77.31

इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः ।
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ॥ १.७७.३१ ॥

说罢,他们一同走近国王,但在提婆耶尼面前,国王并未接待他们。

1.77.32

रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ।
अविब्रुवन्ती किंचिच्च राजानं चारुलोचना ॥ १.७७.३२ ॥

孩子们哭着走向莎尔米什塔;那位美目女子什么也没说,也没有对国王说什么。

1.77.33

नातिदूराच्च राजानं सा चातिष्ठदवाङ्मुखी ।
श्रुत्वा तेषां तु बालानां सव्रीड इव पार्थिवः ॥ १.७७.३३ ॥

她离国王不远,低着头站着;听到那些孩子的话,国王仿佛感到羞愧。

1.77.34

प्रतिवक्तुमशक्तोऽभूत्तूष्णींभूतोऽभवन्नृपः ।
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति ॥ १.७७.३४ ॥

国王无法回答,便沉默了;他看到孩子们对自己的亲近之情。

1.77.35

बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठापिदमब्रवीत् ।
अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीः ॥ १.७७.३५ ॥

真正明白之后,女神莎尔米什塔也说道:“你曾这样说,有某位仙人要来找我。”

1.77.36

ययातिमेवं राजानं त्वं गोपायसि भामिनि ।
पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम् ॥ १.७७.३६ ॥

“美人啊,你就这样庇护着国王耶耶地;我先前已经说过,而你却犯了过错。”

1.77.37

मदधीना सती कस्मादकार्षीर्विप्रियं मम ।
तमेवाऽऽसुरधर्मं त्वमास्थिता न बिभेषि मे ॥ १.७७.३७ ॥

你依赖于我,贤德的女子啊,为何做了令我不悦之事?你已堕入那阿修罗之法,难道不怕我吗?

1.77.38

यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि ।
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥ १.७७.३८ ॥

所说他是圣仙,这确实是真的,笑容美好的女子啊。我依正义和法而行,所以不怕你。

1.77.39

यदा त्वया वृतो भर्ता वृत एव तदा मया ।
सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥ १.७७.३९ ॥

你选择夫君之时,我也就选择了他。因为依法,美好的女子啊,朋友的丈夫也就成为自己的丈夫。

1.77.40

पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि ।
त्वत्तोपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥ १.७७.४० ॥

你值得我尊敬和敬重,你身为婆罗门女子,也是我的长辈。但对我而言,比你更值得尊敬的是那位王仙。这你难道不知道吗?

1.77.41

त्वत्पित्रा मम गुरुणा सह दत्ते उभे शुभे ।
ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम् ॥ १.७७.४१ ॥

你的父亲将我们两人连同我的老师一起赠予,吉祥的女子啊。因此丈夫也值得尊敬;在此,供养者供养了我这受供养之人。

1.77.42

श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् ।
रमस्वेह यथाकामं देव्या शर्मिष्ठया सह ॥ १.७७.४२ ॥

听了她的话,提婆耶尼便说道:“你就在此,与王后舍弥瑟陀随意欢娱吧。”

1.77.43

राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ।
इति जज्वाल कोपेन देवयानी ततो भृशम् ॥ १.७७.४३ ॥

“大王,今日我不会留在这里,你对我做了不敬之事。”提婆陀尼因愤怒而炽烈燃烧。

1.77.44

निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च ।
अपविध्य च सर्वाणि भूषणान्यसितेक्षणा ॥ १.७७.४४ ॥

她以仿佛要烧尽的目光望着羞愧的莎尔弥什塔,并抛掉了所有饰物,这位黑眼睛的女子。

1.77.45

सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् ।
तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥ १.७७.४५ ॥

看到那肤色黝黑的女子突然起身,泪眼盈盈,急忙走向迦维耶(室建陀)的方向,那时国王深感痛苦。

1.77.46

अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः ।
न्यवर्तत नचैव स्म क्रोधसंरक्तलोचना ॥ १.७७.४६ ॥

慌乱的国王在后面跟随,不断安慰她;然而她因愤怒而双眼通红,竟然毫不回头。

1.77.47

अविब्रुवन्ती किंचित्सा राजानं साश्रुलोचना ।
अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिकम् ॥ १.७७.४७ ॥

她一句话也不对国王说,泪眼盈盈,很快来到了乌莎纳斯、迦维耶(室建陀)面前。

1.77.48

सा तु दृष्ट्वै पितरमभिवाद्याग्रतः स्थिता ।
अनन्तरं यायातिस्तु पूजयामास भार्गवम् ॥ १.७७.४८ ॥

她见到父亲,行礼后站在前面。随后,耶延提也向婆利古的后裔致敬。

1.77.49

अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् ।
शर्मिष्ठयाऽतिवृत्ताऽस्मि दुहित्रा वृषपर्वणः ॥ १.७७.४९ ॥

法被非法所胜,颠倒之行盛行;毗湿波尔万之女舍尔弥室塔超越了我。

1.77.50

त्रयोऽस्यां जनिताः पुत्रा राज्ञाऽनेन ययातिना ।
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥ १.७७.५० ॥

此王耶耶提与她生了三子;而我这不幸之人只有两子,父亲,我如此告诉您。

1.77.51

धर्मज्ञ इति विख्यात एष राजा भृगूद्वह ।
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥ १.७७.५१ ॥

此王以通晓法而闻名,却已逾越界限;哦,迦婆,婆利古之最优者,我如此告诉您。

1.77.52

धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् ।
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥ १.७७.५२ ॥

大王,你虽通晓法,却为了所爱而行非法;因此不可战胜的衰老将很快降临于你。

1.77.53

ऋतुं वै याचमानाया भगवन्नान्यचेतसा ।
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥ १.७७.५३ ॥

尊者啊,我为请求月经之期的檀那婆之主之女行此事,乃依法而行,心无他想。

1.77.54

ऋतुं वै याचमानाया न ददाति पुमानृतुम् ।
भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः ॥ १.७७.५४ ॥

婆罗门啊,对于请求月经之期的女子而不予之的男子,在此处,谈论梵者称其为杀胎者。

1.77.55

अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः ।
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥ १.७७.५५ ॥

在私下被渴望而请求、可以亲近的女子面前,若不依法亲近,智者称之为杀胎者。

1.77.56

यद्यद्वृणोति मां कश्चित्तत्तद्देयमिति व्रतम् ।
त्वया च सापि दत्ता मे नान्यं नाथमिहेच्छति ॥ १.७७.५६ ॥

无论谁向我求取什么,都必须给予,这是我的誓愿。你也把她给了我,她在此不愿另有夫主。

1.77.57

इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह ।
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान्।
मत्वैतन्मे धर्म इति कृतं ब्रह्मन्क्षमस्व माम् ॥ १.७७.५७ ॥

婆里古之最优者啊,思量这些理由后,我因惧怕非法而心神不安,便去找了舍尔弥什塔。以为这是我的本分,我才这样做;婆罗门啊,请饶恕我。

1.77.58

नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव ।
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥ १.७७.५८ ॥

国王啊,我必当审视你,因为你依赖于我。那努沙之子啊,在法上行为虚伪者,便有窃盗之过。

1.77.59

क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा ।
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥ १.७७.५९ ॥

被愤怒的乌尚那斯诅咒后,那呼沙之子耶耶底立即舍弃青春,陷入衰老。

1.77.60

अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह ।
प्रसादं कुरु मे ब्रह्मञ्जरेयं न विशेच्च माम् ॥ १.७७.६० ॥

婆里古之最优者啊,我与天祠女共度的青春尚未满足。婆罗门啊,请施恩于我,愿此衰老不要进入我身。

1.77.61

नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप ।
जरां त्वेतां त्वमन्यस्मिन्संक्रामय यदीच्छसि ॥ १.७७.६१ ॥

舍укра说:我并非虚言,大地之主啊,衰老已经降临到你身上。如果你愿意,就把这衰老转移给别人吧。

1.77.62

राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा ।
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥ १.७७.६२ ॥

耶耶提说:婆罗门啊,把青春给我的儿子,将分享王权、功德与名声;愿您应允此事。

1.77.63

संक्रामयिष्यसि जरां येथेष्टं नहुषात्मज ।
मामनुध्याय भावेन न च पापमवाप्स्यसि ॥ १.७७.६३ ॥

舍укра说:那呼沙之子啊,你将按你的意愿转移衰老;以虔诚之心思念我,你便不会犯下罪过。

1.77.64

वयो दास्यति ते पुत्रो यः स राजा भविष्यति ।
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥ १.७७.६४ ॥

舍ukra说:把青春给你的那个儿子将成为国王;他将长寿、有名望,并且子孙众多。