摩诃婆罗多 · 章 1.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.8.1
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् ।
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥ १.८.१ ॥
婆利固之后裔遮逾那,婆罗门啊,也与苏坎雅生了一子:大心的波罗摩提,光辉灿烂。
1.8.2
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् ।
रुरुः प्रमद्वरायां तु शुनकं समजीजनम् ॥ १.८.२ ॥
波罗摩提与格利陀吉生了一子,名为茹茹;茹茹又与普拉玛德瓦拉生了舒那迦。
1.8.3
शुनकस्तु महासत्वः सर्वभार्गवनन्दनः ।
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः ॥ १.८.३ ॥
舒那迦,大德之人,乃一切婆利固族之喜悦,降生后安住于严酷苦行,名声永固。
1.8.4
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः ।
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥ १.८.४ ॥
婆罗门啊,那位大光辉的茹茹的全部事迹,我将详细讲述;你请完整地听。
1.8.5
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः ।
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥ १.८.५ ॥
往昔有一位大仙人,具足苦行与学识,名为粗发(Sthūlakeśa),喜乐于一切众生的福祉。
1.8.6
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् ।
गन्धर्वराजो विप्रर्षे विश्वावसुरिति स्मृतः ॥ १.८.६ ॥
就在此时,婆罗门仙人啊,乾达婆之王与梅那卡生了一子,名为毗首婆苏。
1.8.7
अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन ।
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥ १.८.७ ॥
婆利固之子啊!天女梅那伽按时将那胎儿抛向了粗发仙人的修行处。
1.8.8
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा ।
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा ॥ १.८.८ ॥
她抛下那胎儿,便去了河岸。婆罗门啊!天女梅那伽无情又无耻。
1.8.9
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ।
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः ॥ १.८.९ ॥
大仙人看见那少女,光明如神明之胎,仿佛以光辉燃烧,被遗弃在河岸边。
1.8.10
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ।
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः ॥ १.८.१० ॥
光辉的粗发仙人见那少女在荒僻之处无亲无故,于是那位大再生者粗发……
1.8.11
जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च ।
ववृधे सा वरारोहा तस्याश्रमपदे शुभे ॥ १.८.११ ॥
最好的仙人满怀慈悲,将她抱起抚养;这位腰身美好的少女在他吉祥的修行处长大。
1.8.12
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम् ।
स्थूलकेशो महाभागश्चकार सुमहानृषिः ॥ १.८.१२ ॥
大福的伟大仙人粗发依照规则、按次序为她举行了诞生礼等各项仪式。
1.8.13
प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता ।
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥ १.८.१३ ॥
她是诸天仙女中最优秀的,具备善良、美貌与德行。于是大仙人为她取名为普拉玛德瓦拉。
1.8.14
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् ।
बभूव किल धर्मात्मा मदनोपहतस्तदा ॥ १.८.१४ ॥
在那座修行处看到普拉玛德瓦拉后,正直的鲁如刹那间被爱神摩陀那击中。
1.8.15
पितरं सखिभिः सोऽथ श्रावयामास भार्गवम् ।
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम् ॥ १.८.१५ ॥
于是他通过朋友把消息告诉了父亲婆利古族的仙人。普拉玛提向著名的斯图拉刻夏请求将女儿许配。
1.8.16
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् ।
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥ १.८.१६ ॥
于是父亲便将少女普拉玛德瓦拉许配给鲁如,预先选定在由婆伽神主管的星宿之日举行婚礼。
1.8.17
ततः कतिपयाहस्य विवाहे समुपस्थिते ।
सखीभिः क्रीडती सार्धं सा कन्यावरवर्णिनी ॥ १.८.१७ ॥
过了几天,婚期临近,那位肤色秀丽的少女正与女伴们嬉戏。
1.8.18
नापश्यत्संप्रसुप्तं वै भुजंगं तिर्यगायतम् ।
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥ १.८.१८ ॥
她没有看见那条沉睡横卧的蛇,在时运的驱使下,她一脚踩了上去。
1.8.19
स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा ।
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥ १.८.१९ ॥
他受时间法则驱使,将涂满毒液的獠牙猛然刺入她那毫无防备的身体。
1.8.20
सा दष्टा तेन सर्पेण पपात सहसा भुवि ।
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना ॥ १.८.२० ॥
被那条蛇咬中,她突然倒在地上,面色苍白、失去光彩,饰物脱落,神志昏迷。
1.8.21
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा ।
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत् ॥ १.८.२१ ॥
她使亲属失去欢乐,披散着头发,看上去如同失去生命般令人不忍直视,却又变得无比美丽动人。
1.8.22
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता ।
भूयो मनोहरतरा बभूव तनुमध्यमा ॥ १.८.२२ ॥
她被蛇毒折磨,躺在地上仿佛熟睡,那纤腰的少女却变得更加迷人。
1.8.23
ददर्श तां पिता चैव ये चैवान्ये तपस्विनः ।
विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥ १.८.२३ ॥
她的父亲和其他苦行者看见她倒在地上扭动挣扎,容颜如莲花般明丽。
1.8.24
ततः सर्वे द्विजतराः समाजग्मुः कृपान्विताः ।
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥ १.८.२४ ॥
于是所有最优秀的婆罗门满怀悲悯地聚集而来:斯瓦斯特雅特雷耶、大膝、俱尸迦和螺带。
1.8.25
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः ।
भरद्वाजः कौणकृत्स्य आर्ष्टिषेणोऽथ गौतमः ॥ १.८.२५ ॥
乌达拉迦、迦陀、室韦陀、名声卓著的婆罗堕遮、考那克利迪耶、阿利斯提舍那和乔达摩。
1.8.26
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ।
तां ते कन्यां व्यसुं दृष्ट्वा भुजंगस्य विषार्दिताम् ॥ १.८.२६ ॥
普拉玛提与其子以及其他林居者,看见那少女已无生命、被蛇毒折磨。
1.8.27
रुरुदुः कृपयाऽविष्टा रुरुस्त्वार्तो बहिर्ययौ ।
ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा ॥ १.८.२७ ॥
众人心生怜悯而哭泣;但鲁如痛苦地走了出去。随后,那些最优秀的再生者便就地坐下。