Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.84

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.84.1

यदाऽवसो नन्दने कामरूपी ।
संवत्सराणामयुतं शतानाम्।
किं कारणं कार्तयुगप्रधान ।
हित्वा च त्वं वसुधामन्वपद्यः ॥ १.८४.१ ॥

啊,克里塔时代的首领之王!当你能随意变化形体,在难陀那园中居住了数万年之久时,为何又离开那里,回到大地之上?

1.84.2

ज्ञातिः सुहृत्स्वजनो वा यथेह ।
क्षीणे वित्ते त्यज्यते मानवैर्हि।
तथा तत्र क्षीणपुण्यं मनुष्यं ।
त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥ १.८४.२ ॥

正如此间财富耗尽时,人们会抛弃亲族、朋友与家人;同样,在彼处,功德耗尽之人,诸神的集会连同其主宰会立即舍弃他。

1.84.3

तस्मिन्कथं क्षीणपुण्या भवन्ति ।
संमुह्यते मेऽत्र मनोऽतिमात्रम्।
किं वा विशिष्टाः कस्य धामोपयान्ति ।
तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥ १.८४.३ ॥

那些功德耗尽的人,在彼处是如何变化的?我此刻心中甚为迷惑。或者,那些杰出之人归往谁的居所?请告诉我,因为我认为您是知晓田地(真理)之人。

1.84.4

इमं भौमं नरकं ते पतन्ति ।
ललाप्यमाना नरदेव सर्वे।
ते कङ्कगोमायुबलाशनार्थे ।
क्षीणे पुण्ये बहुधा प्रव्रजन्ति ॥ १.८४.४ ॥

啊,人主!他们一边哀号,一边坠入这大地的地狱;功德耗尽后,他们以种种方式流转,终成秃鹫与豺狼的食物。

1.84.5

तस्मादेतद्वर्जनीयं नरेन्द्र ।
दुष्टं लोके गर्हणीयं च कर्म।
आख्यातं ते पार्थिव सर्वमेव ।
भूयश्चेदानीं वद किं ते वदामि ॥ १.८४.५ ॥

因此,啊,人主,世间这种恶劣而可受谴责的行为必须避免。啊,国王,我已将一切都告诉了你;现在请告诉我,我还该对你说什么?

1.84.6

यदा तु तान्वितुदन्ते वयांसि ।
तथा गृध्राः शितिकण्ठाः पतङ्गाः।
कथं भवन्ति कथमाभवन्ति ।
न भौममन्यं नरकं शृणोमि ॥ १.८४.६ ॥

当鸟类撕扯他们,秃鹫、青颈鸟和飞虫(撕扯他们)时,他们如何变化,如何产生?我听说的地狱,除了这个尘世的地狱,别无其他。

1.84.7

ऊर्ध्वं देहात्कर्मणो जृम्भमाणा-
द्व्यक्तं पृथिव्यामनुसंचरन्ति।
इमं भौमं नरकं ते पतन्ति ।
नावेक्षन्ते वर्षपूगाननेकान् ॥ १.८४.७ ॥

从身体中向上升起,因业行而膨胀,他们明显地在大地上漫游。他们坠入这尘世的地狱,不等待许多年月。

1.84.8

षष्टिं सहस्राणि पतन्ति व्योम्नि ।
तथा अशीतिं परिवत्सराणि।
तान्वै तुदन्ति पततः प्रपातं ।
भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥ १.८४.८ ॥

他们在天空中坠落六万年,同样也有八十年。坠落之时,可怕的尘世罗刹、獠牙尖利者,确实在折磨他们。

1.84.9

यदेनसस्ते पततस्तुदन्ति ।
भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः।
कथं भवन्ति कथमाभवन्ति ।
कथंभूता गर्भभूता भवन्ति ॥ १.८४.९ ॥

当他们因罪而坠落时,可怕的尘世罗刹、獠牙尖利者折磨他们。他们如何变化,如何产生,具有何种形态,又如何以胎儿之形而成?

1.84.10

अस्रं रेतः पुष्पफलानुपृक्त-
मन्वेति तद्वै पुरुषेण सृष्टम्।
स वै तस्या रज आपद्यते वै ।
स गर्भभूतः समुपैति तत्र ॥ १.८४.१० ॥

血与精,与花和果的精华相混,随男子所射之物而行。它确实进入她的经血之中;成为胎儿后,便在那里聚集。

1.84.11

वनस्पतीनोषधीश्चाविशन्ति ।
आपो वायुं पृथिवीं चान्तरिक्षम्।
चतुष्पदं द्विपदं चाति सर्व-
मेवंभूता गर्भभूता भवन्ति ॥ १.८४.११ ॥

它们进入树木与草药,进入水、风、大地与虚空,进入四足与两足的生灵,以及一切之中;如此,它们便成为胚胎。

1.84.12

अन्यद्वपुर्विदधातीह गर्भ-
मुताहोस्वित्स्वेन कायेन याति।
आपद्यमानो नरयोनिमेता-
माचक्ष्व मे संशयात्प्रब्रवीमि ॥ १.८४.१२ ॥

此处胚胎是取得另一个身体,还是带着自身的身体前往?进入这人类子宫时,请为我解说;我因疑惑而问。

1.84.13

शरीरदेहातिसमुच्छ्रयं च ।
चक्षुःश्रोत्रे लभते केन संज्ञाम्।
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः ।
क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥ १.८४.१३ ॥

身体、躯体及其增长,以及眼与耳,依何而获得觉知?既受询问,请将这全部真理为我解说。亲爱的先生,我们都认您为知场者。

1.84.14

वायुः समुत्कर्षति गर्भयोनि-
मृतौ रेतः पुष्पफलानुपृक्तम्।
स तत्र तन्मात्रकृताधिकारः ।
क्रमेण संवर्धयतीह गर्भम् ॥ १.८४.१४ ॥

时至之际,风将混有花与果的精液向上送入胞宫;在那里,它掌控那些微细元素,渐渐滋养此中的胎儿。

1.84.15

स जायमानो विगृहीतमात्रः ।
संज्ञामधिष्ठाय ततो मनुष्यः।
स श्रोत्राभ्यां वेदयतीह शब्दं ।
स वै रूपं पश्यति चक्षुषा च ॥ १.८४.१५ ॥

他出生时获得形体,安立觉知,然后成为人;他在此以耳闻声,也以目见形。

1.84.16

घ्राणेन गन्धं जिह्वयाऽथो रसं च ।
त्वचा स्पर्शं मनसा वेदभावम्।
इत्यष्टकेहोपहितं हि विद्धि ।
महात्मनः प्राणभृतः शरीरे ॥ १.८४.१६ ॥

鼻以嗅味,舌以尝味,皮以触觉,意以知觉——阿湿多迦啊,你当知道,这一切都安立于伟大灵魂的有情之身中。

1.84.17

यः संस्थितः पुरुषो दह्यते वा ।
निखन्यते वापि निकृष्यते वा।
अभावभूतः स विनाशमेत्य ।
केनात्मानं चेतयते परस्तात् ॥ १.८४.१७ ॥

那存在的人,被焚烧、埋葬或拖走之后,成为非有,走向毁灭——那么他从彼岸以什么来觉知自我呢?

1.84.18

हित्वा सोऽसून्सुप्तवन्निष्टनित्वा ।
पुरोधाय सुकृतं दुष्कृतं वा।
अन्यां योनिं पवनाग्रानुसारी ।
हित्वा देहं भजते राजसिंह ॥ १.८४.१८ ॥

他舍弃诸气,如睡眠般呻吟,将善业或恶业置于前,追随风的最前端,舍弃此身而得另一胎生,王中之狮啊。

1.84.19

पुण्यां योनिं पुण्यकृतो व्रजन्ति ।
पापां योनिं पापकृतो व्रजन्ति।
कीटाः पतङ्गाश्च भवन्ति पापा ।
न मे विवक्षास्ति महानुभाव ॥ १.८४.१९ ॥

行善者往生善胎,作恶者往生恶胎;虫与飞蛾也成为有罪的生灵。伟大的人啊,我已无意再说下去。

1.84.20

चतुष्पदा द्विपदाः षट्पदाश्च ।
तथाभूता गर्भभूता भवन्ति।
आख्यातमेतन्निखिलेन सर्वं ।
भूयस्तु किं पृच्छसि राजसिंह ॥ १.८४.२० ॥

四足、二足和六足的生灵,也如此性质,从胎中而生。这一切已全部说明;王中之狮啊,你还问什么呢?

1.84.21

किंस्वित्कृत्वा लभते तात लोका-
न्मर्त्यः श्रेष्ठांस्तपसा विद्यया च।
तन्मे पृष्टः शंस सर्वं यथाव-
च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥ १.८४.२१ ॥

亲爱的,凡人应当做什么,才能通过苦行与知识获得最好的世界?我请您把一切如实讲来,说明以何次第可以到达吉祥的世界。

1.84.22

पुंसः सदैवेति वदन्ति सन्तः ॥ १.८४.२२ ॥

善人总是这样谈论人。

1.84.23

अधीयानः पण्डितंमन्यमानो ।
यो विद्यया हन्ति यशः परेषाम्।
तस्यान्तवन्तश्च भवन्ति लोका ।
न चास्य तद्ब्रह्म फलं ददाति ॥ १.८४.२३ ॥

若有人学习后自认博学,以学问毁坏他人的名声,他的世界便会终结,而那梵智也不会给他结果。

1.84.24

चत्वारि कर्माण्यभयङ्कराणि ।
भयं प्रयच्छन्त्ययथाकृतानि।
मानाग्निहोत्रमुत मानमौनं ।
मानेनाधीतमुत मानयज्ञः ॥ १.८४.२४ ॥

四种行为令人恐惧,若不如法而行,便带来恐惧:为了骄傲的火祭,为了骄傲的缄默,因骄傲而学习,以及为了骄傲的祭祀。

1.84.25

न मानमान्यो मुदमाददीत ।
न सन्तापं प्राप्नुयाच्चावमानात्।
सन्तः सतः पूजयन्तीह लोके ।
नासाधवः साधुबुद्धिं लभन्ते ॥ १.८४.२५ ॥

值得尊敬的人不应因被尊敬而欢喜,也不应因受侮辱而烦恼。在此世间,善人尊敬善人;恶人不能得到善良的心智。

1.84.26

इति दद्यामिति यज इत्यदीय इति व्रतम् ।
इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः ॥ १.८४.२६ ॥

“我将施舍”“我将祭祀”“我将学习”“这是我的誓愿”——这些被称为恐惧,都应完全舍弃。

1.84.27

ये चाश्रयं वेदयन्ते पुराणं ।
मनीषिणो मानसमार्गरुद्धम्।
तन्निःश्रेयस्तेन संयोगमेत्य ।
परां शान्तिं प्रत्युः प्रेत्य चेह ॥ १.८४.२७ ॥

智者宣说古老的依靠,它被心的道路所阻隔;通过它与至善相合,他们在此世与死后都获得最高的寂静。