Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.85

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.85.1

चरन्गृहस्थः कथमेति धर्मान्कथं भिक्षुः कथमाचार्यकर्मा ।
वानप्रस्थः सत्पथे सन्निविष्टो
बहून्यस्मिन्संप्रति वेदयन्ति ॥ १.८५.१ ॥

家主如何获得法?乞士如何?以教授为业者如何?安住于正道的林居者——关于此事,如今人们说法甚多。

1.85.2

आहूताध्यायी गुरुकर्मस्वचोद्यः ।
पूर्वोत्थायी चरमं चोपशायी।
मृदुर्दान्तो धृतिमानप्रमत्तः ।
स्वाध्याशीलः सिध्यति ब्रह्मचारी ॥ १.८५.२ ॥

梵行学徒被召即学,不待督促而办理师长之事,最先起身,最后就寝,温和、克制、坚定、警觉,专心自习——这样的梵行者便能成就。

1.85.3

धर्मागतं प्राप्य धनं यजेत ।
दद्यात्सदैवातिथीन्भोजयेच्च।
अनाददानश्च परैरदत्तं ।
सैषा गृहस्थोपनिषत्पुराणी ॥ १.८५.३ ॥

得到以法获得的财富,应当行祭祀,常常布施,供养宾客,不接受他人未给予的东西——这便是家主古老的秘义。

1.85.4

स्ववीर्यजीवी वृजिनान्निवृत्तो ।
दाता परेभ्यो न परोपतापी।
तादृङ्मुनिः सिद्धिमुपैति मुख्यां ।
वसन्नरण्ये नियताहारचेष्टः ॥ १.८५.४ ॥

以自身力量生活、远离恶行、施予他人、不扰害他人的圣者,住在林中,饮食与行为有节制,便能获得至上的成就。

1.85.5

अशिल्पजीवी गुणवांश्चैव नित्यं ।
जितेन्द्रियः सर्वतो विप्रयुक्तः।
अनोकशायी लघुरल्पप्रसार-
श्चरन्देशानेकचरः स भिक्षुः ॥ १.८५.५ ॥

不以技艺谋生、常怀德行、克服诸根、处处离欲、无屋而眠、轻便少求、独自游历诸国的人,便是乞士。

1.85.6

रात्र्या यया वाऽभिजिताश्च लोका ।
भवन्ति कामाभिजिताः सुखाश्च।
तामेव रात्रिं प्रयतेत विद्वा-
नरण्यसंस्थो भवितुं यतात्मा ॥ १.८५.६ ॥

通过那一夜,世界被征服,或被欲望征服者变得快乐;智者应为那同一夜而努力,成为居于森林、自我节制之人。

1.85.7

दशैव पूर्वान्दश चापरांश्च ।
ज्ञातीनथात्मानमथैकविंशम्।
अरण्यवासी सुकृते दधाति ।
विमुच्यारण्ये स्वशरीरधातून् ॥ १.८५.७ ॥

十位先祖与十位后裔,然后是亲属,再加上自己作为第二十一位,居于森林者将他们置于善行之中,在森林中舍弃自身的身体元素。

1.85.8

कतिस्विदेव मुनयः कति मौनानि चाप्युत ।
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥ १.८५.८ ॥

有多少位圣贤,又有多少种缄默?请告诉我们,我们愿意听。

1.85.9

अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः ।
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥ १.८५.९ ॥

对于住在森林中而村落在其身后,或住在村落中而森林在其身后的人,他便是圣贤,人主啊。

1.85.10

कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः ।
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥ १.८५.१० ॥

那么,住在森林中的人,村落如何在其身后?或住在村落中的人,森林如何在其身后?

1.85.11

न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् ।
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥ १.८५.११ ॥

作为林居圣贤者,不应享受村落的世俗欢乐;如此,对于住在森林中的人,村落便在其身后。

1.85.12

अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः ।
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥ १.८५.१२ ॥

无火无居、超越宗族羁绊而行的圣人,只应求取足以遮盖腰布的布料。

1.85.13

यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् ।
तथाऽस्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥ १.८५.१३ ॥

只应求取足以维持生命气息的食物。对于这样居住在村中的人,森林就留在他的身后。

1.85.14

यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः ।
आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥ १.८५.१४ ॥

若圣人舍弃欲望,断绝诸业,制伏诸根,持守缄默,便能在此世获得成就。

1.85.15

धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् ।
असितं सितकर्माणं कस्तमर्हति नार्चितुम् ॥ १.८५.१५ ॥

谁会不敬重这样的人:牙齿洁净,指甲修剪,常年沐浴、庄严整洁,肤色虽黑,行为却纯洁?

1.85.16

तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः ।
स च लोकमिमं जित्वा लोकं विजयते परम् ॥ १.८५.१६ ॥

因苦行而消瘦衰弱,血肉与骨髓都已枯竭的人,征服此世后便征服至高之界。

1.85.17

यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ।
अथ लोकमिमं जित्वा लोकं विजयते परम् ॥ १.८५.१७ ॥

当圣人超越二元对立,安住于缄默之中时,便能征服此世,进而征服至高之界。

1.85.18

आस्येन तु यदाऽहारं गोवन्मृगयते मुनिः ।
अथास्य लोकः सर्वोऽयं सोऽमृतत्वाय कल्पते ॥ १.८५.१८ ॥

当圣者像牛一样用口寻求食物时,他的整个世界便适于获得不死。

1.85.19

सामान्यधर्मः सर्वेषां क्रोधो लोभो द्रुहाऽक्षमा ।
विहाय मत्सरं शाठ्यं दर्पं दम्भं च पैशुनम्।
क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित् ॥ १.८५.१९ ॥

愤怒、贪婪、恶意与不忍,是所有人的共同责任。舍弃嫉妒、欺诈、傲慢、虚伪与谗言,无愤怒、贪欲与我执者,方为知法之人。

1.85.20

नित्याशनो ब्रह्मचारी गृहस्थो वनगो मुनिः ।
नाधर्ममशनात्प्राप्येत्कथं ब्रूहीह पृच्छते ॥ १.८५.२० ॥

日日进食的圣者、梵行者、居家者与林居者:如何因进食而不致招致非法?请在此告诉问道的我。

1.85.21

अष्टौ ग्रासा मुनेः प्रोक्ताः षोडशारण्यवासिनः ।
द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः ॥ १.८५.२१ ॥

圣者宜八口,林居者十六口,居家者三十二口,梵行者则无限量。

1.85.22

इत्येवं कारणैर्ज्ञेयमष्टकैतच्छुभाशुभम् ॥ १.८५.२२ ॥

如是,依此诸因,阿湿吒迦啊,此善与不善应当了知。