摩诃婆罗多 · 章 1.99
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.99.1
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥ १.९९.१ ॥
大王啊,你看见别人的过失如芥子般微小,却看不见自己的过失,它们却如木蘋果般大。
1.99.2
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् ।
ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः ॥ १.९९.२ ॥
梅娜卡身在天神之中,天神又随从梅娜卡。杜湿扬陀啊,我的出身比你的出身更为尊贵。
1.99.3
क्षितौ चरसि राजंस्त्वमन्तरिक्षे चराम्यहम् ।
आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥ १.९९.३ ॥
大王啊,你行走于大地,我飞翔于天空。请看我们之间的差距,就如须弥山与芥子之别。
1.99.4
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च ।
भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥ १.९९.४ ॥
我往来于因陀罗、俱毗罗、阎摩和伐楼那的居所。大王啊,请看我的威力。
1.99.5
पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा ।
आयुर्नाम महाराज तव पूर्वपितामहः ॥ १.९९.५ ॥
往昔,乌尔瓦希生下一位人中最优秀的儿子。大王啊,名为阿育,他是你遥远的先祖。
1.99.6
महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः ।
अप्सरःसु ऋषीणां च मातृदोषो न विद्यते ॥ १.९९.६ ॥
许多大仙和能焚烧敌人的刹帝利,都出生于天女与仙人之家,而他们的母亲身上找不到任何过失。
1.99.7
सत्यश्चापि प्रवादोऽयं प्रवक्ष्यामि च ते नृप ।
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तत्क्षन्तुमर्हसि ॥ १.९९.७ ॥
此言亦真实,我将告诉你,国王。这只是为了举例,并非出于憎恨;听了之后,你应当原谅。
1.99.8
विरूपो यावदादर्शे नात्मनो वीक्षते मुखम् ।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥ १.९९.८ ॥
丑陋之人只要不在镜中看自己的脸,便以为自己比别人更俊美。
1.99.9
यदा तु रूपमादर्शे विरूपं सोऽभिवीक्षते ।
तदा ह्रीमांस्तु जानीयादन्तरं नेतरं जनम् ॥ १.९९.९ ॥
然而,当他在镜中看见自己丑陋的形貌时,有羞耻心的人应当知道自己与他人并无不同。
1.99.10
अतीव रूपसंपन्नो न कंचिदवमन्यते ।
अतीव जल्पन्दुर्वाचो भवतीह विहेतुकः ॥ १.९९.१० ॥
极其俊美的人不轻视任何人;但说话过于粗恶的人,在此处便成为祸害的根源。
1.99.11
पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः ।
तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः ॥ १.९९.११ ॥
发情而骄傲的象,被尘土落在身上便欢喜;同样,心术不正的人以诽谤他人为乐。
1.99.12
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।
सुनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥ १.९९.१२ ॥
人们畏惧背离真实与法的人,如同畏惧愤怒的毒蛇;连彻底的无神论者也令人不安,更何况有信仰的人?
1.99.13
स्वयमुत्पाद्य पुत्रं वै सदृशं योऽवमन्यते ।
तस्य देवाः श्रियं घ्नन्ति तत्रैनं कलिराविशेत् ॥ १.९९.१३ ॥
若有人轻视自己所生、与自己相似的儿子,诸神便毁灭他的福运,迦利便进入他之中。
1.99.14
अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि ।
दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु ॥ १.९९.१४ ॥
迦利迅速进入不吉、说谎、不净、无信、作恶及行为败坏之人;而在奉行正法者之中,迦利并不存在。
1.99.15
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥ १.९९.१५ ॥
愚人听到人们说的善言与恶言,便只接受恶言,如同猪拾取粪便。
1.99.16
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि ॥ १.९९.१६ ॥
而智者听到人们说的善言与恶言,便只接受有德之言,如同天鹅从水中取奶。
1.99.17
आत्मनो दुष्टभावत्वं जानन्नीचोऽप्रसन्नधीः ।
परेषामपि जानाति स्वधर्मसदृशान्गुणान् ॥ १.९९.१७ ॥
卑劣之人知道自己的恶性,心怀不悦,也能看出他人与自己本性相似的品质。
1.99.18
दह्यमानास्तु तीव्रेण नीचाः परयशोग्निना ।
अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते ॥ १.९९.१८ ॥
卑劣之人被他人名声的猛火烧灼,无法走上他们的道路,因此便加以诽谤。
1.99.19
अन्यान्परिवदन्साधुर्यथा हि परितप्यते ।
तथा परिवदन्नन्यान्हृष्टो भवति दुर्जनः ॥ १.९९.१९ ॥
善人诽谤他人时便自感苦恼,恶人诽谤他人时却感到欢喜。
1.99.20
अपवादरता मूर्खा भवन्ति हि विशेषतः ।
नापवादरताः सन्तो भवन्ति स्म विशेषतः ॥ १.९९.२० ॥
沉溺于诽谤的愚人尤其如此;不沉溺于诽谤的善人则尤其不是如此。
1.99.21
अभिवाद्य यथा वृद्धान्साधुर्गच्छति निर्वृतिम् ।
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥ १.९९.२१ ॥
善人向长者行礼便得安宁,愚人辱骂善人便感满足。
1.99.22
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः ।
यथा वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥ १.९९.२२ ॥
不知过失的人快乐地生活;看见过失的愚人则不然。善人被他人指为有过,他们也如此指责他人。
1.99.23
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।
यदि दुर्जन इत्याहुः सज्जनं दुर्जनाः स्वयम् ॥ १.९९.२३ ॥
因此世上再没有比这更可笑的事:恶人自己竟称善人为恶人。
1.99.24
दारुणाल्लोकसंक्लेशाद्दुःखमाप्नोत्यसंशयम् ।
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् ॥ १.९९.२४ ॥
因世间可怕的烦恼,他无疑会遭受痛苦;因为祖先曾对儿子说过家族与世系的尊荣。
1.99.25
उत्तमं सर्वधर्माणां तस्मात्पुत्रं तु न त्यजेत् ।
स्वपत्नीप्रभवाँल्लब्धान्कृतान्समयवर्धितान् ॥ १.९९.२५ ॥
这是一切法中最高的;因此不应舍弃儿子:那些由自己的妻子所生、所得、所造、随时间长大的儿子。
1.99.26
क्रीतान्कन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ।
ते च षड्वन्धुदायादाः षडदायादबान्धवाः ॥ १.९९.२६ ॥
摩奴说:有买来的儿子,也有由女儿所生的儿子。他们是六种亲属继承人,也是六种非继承人的亲属。
1.99.27
धर्मकृत्यवहा नॄणां मनसः प्रीतिवर्धनाः ।
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् ॥ १.९९.२७ ॥
为人们承担法事、增长心中喜悦的儿子,出生之后便将父亲们从地狱中救出;他们是法之舟。
1.99.28
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि ।
तस्मात्पुत्रं च सत्यं च पालयस्व महीपते ॥ १.९९.२८ ॥
你啊,王中之虎,不应舍弃儿子。因此,大地之主啊,要守护儿子与真理。
1.99.29
उभयं पालयस्वैतन्नानृतं वक्तुमर्हसि ।
आत्मानं सत्यधर्मौ च पालयेथा महीपते।
नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि ॥ १.९९.२९ ॥
两者都要守护;你不应说谎。大地之主啊,守护你自己与真实的法。王中之狮啊,你不应承担欺诈。
1.99.30
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः ।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ १.९९.३० ॥
一口阶梯井胜过一百口井;一次祭祀胜过一百口阶梯井;一个儿子胜过一百次祭祀;真实胜过一百个儿子。
1.99.31
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ १.९९.३१ ॥
千次马祭与真理被放在天平上称量;唯有真理胜过千次马祭。
1.99.32
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् ।
सत्यस्यैव च राजेन्द्र कलां नार्हति षोडशीम् ॥ १.९९.३२ ॥
通晓一切吠陀、沐浴一切圣渡,哦王中之王,也抵不上真理的十六分之一。
1.99.33
नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम् ।
न हि तीव्रतरं पापमनृतादिह विद्यते ॥ १.९९.३३ ॥
没有与真理相等的法,也找不到高于真理者;在此世间,确实没有比虚妄更重的罪。
1.99.34
राजन्सत्यं परो धर्मः सत्याच्च समयः परः ।
मात्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥ १.९९.३४ ॥
王啊,真理是最高的法,而誓言又高于真理。王啊,不要舍弃你的誓言,愿真理与你相合。
1.99.35
यः पापो न विजानीयात्कर्म कृत्वा नराधिप ।
न हि तादृक्परं पापमनृतादिह विद्यते ॥ १.९९.३५ ॥
哦人主,有人犯下罪业而不自知,这或许可能;但在此世间,没有比虚妄更大的罪。
1.99.36
यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च ।
कल्याणावेक्षणं तस्मात्कर्तुमर्हसि धर्मतः ॥ १.९९.३६ ॥
你的心既知真实,也知虚妄;因此你应当依法以慈善之心行事。
1.99.37
यो न कामान्न च क्रोधान्न द्रोहादतिवर्तते ।
अमित्रं वापि मित्रं वा स एवोत्तमपूरुषः ॥ १.९९.३७ ॥
不因欲望、不因愤怒、不因恶意而越过(法度)者,无论是敌是友,他便是最上的人。
1.99.38
अनृतश्चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् ।
आश्रमं गन्तुमिच्छामि त्वादृशो नास्ति सङ्गतं ॥ १.९९.३८ ॥
若你以与我的往来为虚假,或你自己不信,我便想前往静修林;与你这样的人相合并不适宜。
1.99.39
पुत्रत्वे शङ्कमानस्य त्वं बुद्ध्या निश्चयं कुरु ।
गतिः स्वरः स्मृतिः सत्वं शीलं विद्या च विक्रमः ॥ १.९९.३९ ॥
你若怀疑他的子嗣之身,就以智慧求得确信:看其步态、声音、记忆、本性、品行、学识与勇力。
1.99.40
धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः ।
समा यस्य यदा स्युस्ते तस्य पुत्रो न संशयः ॥ १.९९.४० ॥
勇敢与性情,发旋与毛发纹路——若这些在他身上与你相同,他便是你的儿子,毫无疑问。
1.99.41
सादृश्येनोद्धऋतं बिम्बं तव देहाद्विशांपते ।
तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः ॥ १.९९.४१ ॥
人主啊,那从你身体中映现出的影像,因相似而明白;大王啊,他称你为“父亲”时,不要徒然轻视他。
1.99.42
ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः ।
ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम्।
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥ १.९९.४२ ॥
除了驴奶,我的儿子不会喝奶;杜塞恒陀啊,除你之外也没有别人。我的儿子将守护这由四方为界、以山王为饰的大地。
1.99.43
शकुन्तले तव सुतश्चक्रवर्ती भविष्यति ।
एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा ॥ १.९९.४३ ॥
沙恭多罗啊,你的儿子将成为转轮圣王。摩呵因陀罗如此说过;必然如此,不会有别的。
1.99.44
साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया ।
न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल ॥ १.९९.४४ ॥
我已召请诸多作证者,如天使等;他们却不这样说,究竟是真实还是虚妄。
1.99.45
असाक्षिणी मन्दबाग्या गमिष्यामि यथागतम् ॥ १.९९.४५ ॥
无证人,薄命的我,将如来时那样离去。
1.99.46
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला ।
तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत ॥ १.९९.४६ ॥
说完这些话,沙恭多罗便出发了;从她的愤怒中,一团带烟的火焰出现在她的头顶。
1.99.47
संनियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम् ।
प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम् ॥ १.९९.४७ ॥
于是,她克制住肢体中的愤怒之火,身形无瑕的她与儿子一同走向森林。