摩诃婆罗多 · 章 10.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.1.1
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः ।
उपास्तमयवेलायां शिबिराभ्याशमागताः ॥ १०.१.१ ॥
向那罗延、人中至尊那罗、女神萨罗室伐底和毗耶娑顶礼之后,然后应当诵说《胜利》(大史)。
10.1.2
विमुच्य वाहांस्त्वरिता भीताः समनुबोधनात् ।
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ॥ १०.१.२ ॥
他们惊恐地急忙解开马匹,因被惊醒,到达密林之处,隐蔽地进入。
10.1.3
सेनानिवेशमभितो नातिदूरमवस्थिताः ।
निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः।
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् ॥ १०.१.३ ॥
他们站在军营周围不远处,被锋利的武器从四面砍伤,长叹热息,开始思念般遮婆诸子。
10.1.4
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ।
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः ॥ १०.१.४ ॥
听到寻求胜利的般遮婆诸子的可怕吼声,因恐惧被追击而惊惧,他们再次面向东方逃跑。
10.1.5
ते मुहूर्तात्ततो गत्वा श्रान्तवाहा पिपासिताः ।
नामृष्यन्त महेष्वासाः क्रोधामर्षवशङ्गताः ॥ १०.१.५ ॥
片刻之后,他们带着疲惫的马匹和干渴离开了那里;然而这些大弓箭手被愤怒与不忿所支配,无法忍受。
10.1.6
राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ॥ १०.१.६ ॥
因国王被杀而悲痛万分,他们一同站立了片刻。
10.1.7
अश्रद्धेयमिदं कर्म कृतं मीमेन सञ्जय ।
यत्स नागायुतप्राणः पुत्रो मम निपातितः ॥ १०.१.७ ॥
桑贾亚啊,怖军做出了这难以置信的事:我的儿子,力量相当于一万头象,被打倒了。
10.1.8
अवध्यः सर्वभूतानां वज्रसंहननो युवा ।
पाण्डवैः समरे पुत्रो निहतो मम निपातितः ॥ १०.१.८ ॥
我的儿子,连一切众生都杀不了,身体坚如金刚的年轻人,在战场上被般度之子杀死,倒下了。
10.1.9
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः ।
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥ १०.१.९ ॥
嗟乎,伽伐尔伽纳之子啊,命运所定,人不能逾越。我的儿子在战场上遇见般度之子,被打倒了。
10.1.10
अद्रिसारमयं नूनं हृदयं मम सञ्जय ।
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ॥ १०.१.१० ॥
桑贾亚啊,我的心必定是由石头的精华所造,听闻一百个儿子被杀,它竟没有碎成千片。
10.1.11
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति ।
न ह्यहं पाण्डुपुत्रस्य विषये वस्तुमुत्सहे ॥ १०.१.११ ॥
那失去了儿子的老年夫妇将如何生活呢?我不愿居住在般度之子的国土之中。
10.1.12
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय ।
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥ १०.१.१२ ॥
桑贾亚啊,我自己曾是国王,又是国王之父,怎能在般度之子的命令下做仆役而生活呢?
10.1.13
प्रभुज्य पृथिवीं सर्वां स्थिता मूर्धनि सञ्जय ।
कथमद्य भविष्यामि श्रोतुं शक्ष्यामि सञ्जय। ॥ १०.१.१३ ॥
我曾享有整个大地,并将王权戴于头顶,如今我将如何?桑遮耶啊,我还能听下去吗?
10.1.14
येन पुत्रशतं पूर्णमेकेन निहतं मम ।
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः। ॥ १०.१.१४ ॥
我的一百个儿子都被一人全部杀死;大德的维杜罗之言就此应验了。
10.1.15
अकुर्वता वचस्तस्य मम पुत्रेण सञ्जय ।
अधर्मेण हते तात पुत्रे दुर्योधने मम। ॥ १०.१.१५ ॥
桑遮耶啊,因我不听从他之言的儿子;亲爱的,因我的儿子难敌被不义地杀害。
10.1.16
कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय ॥ १०.१.१६ ॥
桑遮耶啊,求多跋摩、克利帕,以及德罗纳之子阿湿婆摩,他们做了什么?
10.1.17
गत्वा तु तावका राजन्नातिदूरं मनस्विनः ।
अपश्यन्त वनं घोरं नानाद्रुमलतावृतम् ॥ १०.१.१७ ॥
大王,你那些高尚的战士走了不远,便看见一片可怕的森林,布满了各种树木与藤蔓。
10.1.18
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः ।
सूर्यास्तमयवेलायां कौरवेयस्य शासनात् ॥ १०.१.१८ ॥
他们歇息片刻,给良马饮了水,在日落时分,遵照俱卢之命,继续前行。
10.1.19
नानामृगगणैर्जुष्टं नानापक्षिभिराकुलम् ।
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ॥ १०.१.१९ ॥
那片森林中有成群的各种鹿,充满各种鸟的鸣叫,被众多树木和藤蔓覆盖,并有各种猛兽栖息。
10.1.20
नानातोयसमाकीर्णैस्तटाकैरुपशोभितम् ।
पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् ॥ १०.१.२० ॥
那片森林被盛满各种清水的池塘所装饰,覆盖着数百个莲花池,并有蓝色的睡莲。
10.1.21
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः ।
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ॥ १०.१.२१ ॥
他们进入那可怕的森林,四下观望,于是看见一棵覆盖着千条枝干的榕树。
10.1.22
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः ।
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥ १०.१.२२ ॥
大王啊!那些大车士,即人中之最,走近那棵榕树,看见了这棵树木之中最优秀的树。
10.1.23
तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः ।
उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो ॥ १०.१.२३ ॥
他们从车上下来,解开并放开马匹,按规则以水净身,主啊,他们举行了黄昏的仪式。
10.1.24
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे ।
सर्वस्य जगतो धात्री शर्वरी प्रत्यपद्यत ॥ १०.१.२४ ॥
太阳接近落向最高的山岳阿斯塔恰拉时,养育一切世界的夜晚便来临了。
10.1.25
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम् ।
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः ॥ १०.१.२५ ॥
星辰、星宿与散布的繁星装点着天空,四面八方望去,如同一件值得观赏的衣裳。
10.1.26
इच्छया ते प्रवल्गन्ति ये सत्वा रात्रिचारिणः ।
दिवाचराश्च ये सत्वास्ते निद्रावशमागताः ॥ १०.१.२६ ॥
夜行的生灵随意游荡起来,昼行的生灵则陷入了睡眠的掌控。
10.1.27
रात्रिञ्चराणां सत्वानां निनादोऽभूत्सुदारुणः ।
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥ १०.१.२७ ॥
夜行生灵发出极其可怖的嘶吼,食肉者欢喜雀跃,可怕的夜晚降临了。
10.1.28
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः ।
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ॥ १०.१.२८ ॥
在那可怕的夜晚之初,充满悲痛与忧愁的克利塔瓦尔曼、克里帕与德罗纳之子一同在附近坐下。
10.1.29
उपोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः ।
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥ १०.१.२९ ॥
他们坐在榕树旁悲叹,仍然思索着那已经过去的事——库鲁与般度两家的毁灭。
10.1.30
निद्रया च परीताङ्गा निषेदुर्धरणीतले ।
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥ १०.१.३० ॥
四肢被睡意笼罩,他们或坐或卧在大地上,被疲劳深深困住,身上还中了各种箭伤。
10.1.31
ततो निद्रावशं प्राप्तौ कृपभोजौ महाबालौ ।
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ॥ १०.१.३१ ॥
于是克里帕与波遮,大力者,为睡眠所controlled,习惯安逸、不应受苦,坐在大地之上。
10.1.32
तौ तु सुप्तौ महाराज तस्मिन्देशे महारथौ ।
महार्हशयनोपेतौ भूमावेव ह्यनाथवत् ॥ १०.१.३२ ॥
大王啊,那两位大车武士在那处睡去;虽配得昂贵的卧榻,却如无依无靠之人躺在光秃的大地上。
10.1.33
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत ।
न वै स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥ १०.१.३३ ॥
婆罗多啊,德罗纳之子为愤怒与不甘所controlled,竟不能入睡,如蛇般嘶嘶喘息。
10.1.34
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना ।
वीक्षाञ्चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ॥ १०.१.३४ ॥
他因极度愤怒而燃烧,竟毫无睡意;那大臂者只是注视着那片可怖的森林。
10.1.35
वीक्षमाणो वनोद्देशं नानासत्वैर्निषेवितम् ।
अपश्यत महाबाहुर्न्यग्रोधं वायसावृतम् ॥ १०.१.३५ ॥
他凝视着那片有各种生灵栖居的林地,大臂者看见一棵被乌鸦覆盖的榕树。
10.1.36
तत्र काकसहस्राणि तां निशां पर्यणामयन् ।
सुखं स्वपन्तः कौरव्य पृथक्पृथगुपाश्रयाः ॥ १०.१.३६ ॥
那里成千上万的乌鸦正在度过那夜,俱蘇之裔啊,它们各自在各自的巢中安然入睡。
10.1.37
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः ।
सोऽपश्यत्सहसा यान्तमुलूकं घोरदर्शनम् ॥ १०.१.३७ ॥
当那些乌鸦在四周毫无戒备地熟睡时,他忽然看见一只令人望而生畏的猫头鹰飞来。
10.1.38
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् ।
सुतीक्ष्णघोणानखरं सुपर्णमिव वेगितम् ॥ १०.१.३८ ॥
声音洪亮,身躯庞大,眼睛褐黄,喙和爪极其锋利,像迦鲁达一样迅猛飞来。
10.1.39
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः ।
न्यग्रोधस्य ततः साखां पातयामास भारत ॥ १०.१.३९ ॥
于是他发出轻微的声响,像躲藏的鸟一样蹲伏,啊,婆罗多子孙,使榕树的一根枝条坠落。
10.1.40
सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः ।
सुप्ताञ्जघान विस्रब्धान्वायसान्वायसान्तकः ॥ १०.१.४० ॥
那只鸟俯冲落在榕树的枝上,作为乌鸦的灭绝者,击杀了毫无戒备、熟睡中的乌鸦。
10.1.41
केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह ।
चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः ॥ १०.१.४१ ॥
有的被它扯断翅膀,有的头颅被它斩下,有的脚被它折断——它以双脚为武器。
10.1.42
क्षणेनाघ्नत्स बलवान्येऽस्य दृष्टिपथे स्थिताः ॥ १०.१.४२ ॥
这强大的家伙在一瞬之间击杀了所有处在它视线之内的乌鸦。
10.1.43
तेषां शरीरावयवैः शरीरैश्च विशाम्पते ।
न्यग्रोधमण्डलं सर्वं सञ्छन्नं पर्वतोपमम् ॥ १०.१.४३ ॥
人主啊,他们的身体与肢体覆盖了整个榕树圈,宛如一座山。
10.1.44
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् ।
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥ १०.१.४४ ॥
杀死那些乌鸦之后,猫头鹰(憍尸迦)欢喜了;这位摧毁敌人者按自己的心意,向敌人报了复。
10.1.45
तद्दृष्ट्वा तादृशं कर्म कौशिकेन कृतं निशि ।
तद्भावे कृतसङ्कल्पो द्रौणिरेकोऽन्वचिन्तयत् ॥ १०.१.४५ ॥
看见猫头鹰夜间所做的如此行为,德罗纳之子便在那同一意图中下定决心,独自思索起来。
10.1.46
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे ।
शत्रूणां क्षपणं युक्तं प्राप्तः कालश्च मे मतः ॥ १०.१.४६ ॥
这只鸟在战斗中给了我启示:摧毁敌人是恰当的,在我看来,我的时机已经到了。
10.1.47
नाद्य शक्यं मया हन्तुं पाण्डवा जितकाशिनः ।
बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ॥ १०.१.४७ ॥
今天我无法杀死般度五子:他们自以为已经获胜,强大,充满斗志,已经找到目标,是善于攻击的战士。
10.1.48
राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ।
पतङ्गाग्निसमां वृत्तिमास्यायात्मविनाशिनीम् ॥ १०.१.४८ ॥
在国王面前,我已立誓杀死他们,采取了如飞蛾扑火般自我毁灭的行为方式。
10.1.49
न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ।
छद्मना तु भवेत्सिद्विः शत्रूणां च क्षयो महान् ॥ १०.१.४९ ॥
依正义而战者必舍生命,毫无疑问;但若以诡计成功,敌人将遭受巨大毁灭。
10.1.50
तत्र सशयितादर्थाद्योऽर्थो निःसंशयो भवेत् ।
तं जना बहुमन्यन्ते येऽर्थशास्त्रविशारदाः ॥ १०.१.५० ॥
在此情况下,精通政治学的人十分重视确定的利益,而非可疑的目标。
10.1.51
यच्चाप्यत्र भवेत्कार्यं गर्हितं लोकनिन्दितम् ।
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ॥ १०.१.५१ ॥
此处即使有可耻且为世人所非议之事,行刹帝利法的人也必须去做。
10.1.52
निन्दितानि च कर्माणि कुत्सितानि पदेपदे ।
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ॥ १०.१.५२ ॥
一步一步地,那些可耻卑劣之事,确实是心不自制的般度之子以欺诈所为。
10.1.53
अस्मिन्नर्थे पुरा गीताः श्रूयन्ते धर्मवित्तमैः ।
श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः ॥ १०.१.५३ ॥
关于此事,昔日最精通法的人所吟咏的诗句至今仍被传颂;那些观察正义、洞见真理的人曾说过它们。
10.1.54
परिश्रान्ते विदीर्णे वा भुञ्जाने वाऽपि शत्रुभिः ।
प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम् ॥ १०.१.५४ ॥
当(敌人)疲惫、溃散或被敌人所困,或在出发或进入之时,应打击敌人的兵力。
10.1.55
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् ।
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ॥ १०.१.५५ ॥
在午夜、因睡眠而困乏、失去首领、战士四散,或被分为两部分的军队。
10.1.56
इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे ।
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ॥ १०.१.५६ ॥
德罗纳之子勇猛者于是决定在夜间杀死熟睡的般度之子与般遮罗人。
10.1.57
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः ।
सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ॥ १०.१.५७ ॥
他怀着残忍的念头,反复决断之后,唤醒了那两位熟睡者——他的舅父和婆阇(克里塔瓦尔曼)。
10.1.58
तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबालौ ।
नोत्तरं प्रतिपद्येतां तत्र युक्तं हिया वृतौ ॥ १०.१.५८ ॥
被唤醒的两位大德——克里帕与婆阇,二人都极为强大——在那里没有回答;他们被羞愧所笼罩。
10.1.59
स मुहूर्तमिव ध्यात्वा तावुभौ वाक्यमब्रवीत् ॥ १०.१.५९ ॥
他仿佛沉思片刻,对二人说了这番话。
10.1.60
हतो दुर्योधनो राजा एकवीरो मबाहलः ।
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ॥ १०.१.६० ॥
国王难敌已被杀死——那位独一无二的英雄,……(婆湖);为了他,我们才与般度之子结下仇怨。
10.1.61
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः ।
पातितो भीमसेनेन एकादशचमूपतिः ॥ १०.१.६१ ॥
他孤身一人,在战场上被众多卑劣之人围攻,以纯粹的勇武著称,十一军之主被比玛塞那击倒。
10.1.62
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् ।
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्गता ॥ १०.१.६२ ॥
卑劣的狼腹以极其残忍的方式做了这件事——加冕之王的头颅被脚踩踏。
10.1.63
विनर्दन्ति च पाञ्चालाः क्ष्वेलन्ति च हसन्ति च ।
धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ॥ १०.१.६३ ॥
般遮罗人欢欣鼓舞,咆哮、呼喊、大笑,吹响数百只海螺,敲击战鼓。
10.1.64
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः ।
अनिलेनेरितो घोरो दिशः पूरयतीव ह ॥ १०.१.६४ ॥
乐器的喧嚣之声,与海螺的吹响交织,被风吹动,可怖地仿佛充满了四方。
10.1.65
अश्वानां हेषमाणानां गजानां चैव बृंहताम् ।
सिंहनादश्च शूराणां श्रूयते सुमहानयम् ॥ १०.१.६५ ॥
马嘶、象鸣,以及勇士们的狮吼——这极其巨大的声音清晰可闻。
10.1.66
दिशं प्राचीं समाश्रित्य हृष्टानां गच्छतां भृशम् ।
रथनेमिस्वनाश्चैव श्रूयन्ते रोमहर्षणाः ॥ १०.१.६६ ॥
面向东方,欢欣的人们疾速前行,战车轮辋发出令人毛骨悚然的响声,清晰可闻。
10.1.67
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् ।
वयमेव त्रयः शिष्टा अस्मिन्महति वैशसे ॥ १०.१.६७ ॥
在般度子孙对持国百子所造成的这场大屠杀中,只剩下我们三人。
10.1.68
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः ।
निहताः पाण्डवैर्यस्मिन्मन्ये कालस्य पर्ययम् ॥ १०.१.६८ ॥
有些人有百象之力,有些人精通所有兵器;在那场战斗中,他们被般度子孙杀死。我认为这是时运的逆转。
10.1.69
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः ।
यथा ह्यस्येदृशी निष्ठा कृते यत्नेऽपि दुष्करे ॥ १०.१.६९ ॥
这一定是注定的,因为实际上正是命运造成了这样的结局;即使付出了极其艰难的努力,结果仍是如此。
10.1.70
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते ।
व्यसनेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ॥ १०.१.७० ॥
如果你们二人的智慧没有因迷惑而衰减,那就请说出在这场大灾难中对我们有益的事吧。