Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 10.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.4.1

दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत ।
न त्वां वारयितुं शक्तो वज्रपाणिरपि स्वयम् ॥ १०.४.१ ॥

幸运的是,你心中升起了复仇的决心,哦,不坏者。即使手持金刚杵的因陀罗自己,也无法阻止你。

10.4.2

अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ ।
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ॥ १०.४.२ ॥

黎明时分,我们二人将一同跟随你。今夜,卸下铠甲与旌旗,好好休息吧。

10.4.3

अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः ।
परानभिमुखं यान्तं रथावास्थाय दंशितौ ॥ १०.४.३ ॥

我与萨特瓦塔的克利塔瓦尔曼将跟随你,乘车披甲,而你则不面向敌人前行。

10.4.4

आवाभ्यां सहितः शत्रूञ्श्वो निहन्ता समागमे ।
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ॥ १०.४.४ ॥

与我们二人同行,明日在交战中你将杀死敌人。哦,车战第一勇士,凭你的勇武,你将杀死般遮罗人及其随从与步兵。

10.4.5

शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम् ।
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ॥ १०.४.५ ॥

你已有能力施展勇武。今夜好好休息。孩子,你醒着已经很久了,今夜就睡吧。

10.4.6

विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद ।
समेत्य समरे शत्रून्वधिष्यसि न संशयः ॥ १०.४.६ ॥

休息之后,不再昏沉,心神安定,哦,授予尊荣者,你将在战场上遇见敌人并杀死他们,这毫无疑问。

10.4.7

न हि त्वां रथिनां श्रेष्ठं प्रगृहीतवरायुधम् ।
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ॥ १०.४.७ ॥

实在没有人,即使在诸神之中,也敢战胜你——战车武士中最优秀者、手持上乘兵器的人,帕伐迦之子。

10.4.8

कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा ।
को द्रौणिं युधि संरब्धं योधयेदपि देवराट् ॥ १०.४.८ ॥

与克利巴同行、受克利塔瓦尔曼守护、在战斗中愤怒的德罗纳之子,谁能与他交战?即便是诸神之王也不能。

10.4.9

ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः ।
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् ॥ १०.४.९ ॥

我们在夜里休息,已无睡意与疲惫;待黑夜变为黎明,我们必定会杀死敌人。

10.4.10

तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः ।
सात्वतोपि महेष्वासो नित्यं युद्धेषु कोविदः ॥ १०.४.१० ॥

你的神兵与我的神兵都在,毫无疑问;而大弓手萨提伐塔在战斗中也始终精通。

10.4.11

ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् ।
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् ॥ १०.४.११ ॥

孩子,我们同心合力,在战场上强行杀尽所有集结的敌人,便会获得充沛的喜悦。

10.4.12

विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् ।
अहं च कृतवर्मा च प्रभाते त्वां नरोत्तमम् ॥ १०.४.१२ ॥

你且安心休息,今夜好好安睡;天亮时我与克利塔瓦尔曼会叫醒你,人中最优者。

10.4.13

अनुयास्याव सहितौ धन्विनौ परतापनौ ।
रथिनं त्वरया यान्तं रथमास्थाय दंशितौ ॥ १०.४.१३ ॥

我们二人,皆为弓手、灼敌之人,披甲登车,将追随疾驰前行的御者。

10.4.14

स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे ।
ततः कर्ताऽसि शत्रूणां युध्यतां कदनं महत् ॥ १०.४.१४ ॥

你前往他们的营地,在战场上宣扬你的名字,然后将对作战的敌人造成巨大的杀戮。

10.4.15

कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि ।
विहरस्व यथा शक्रः सूदयित्वा महासुरान् ॥ १०.४.१५ ॥

在晴朗的白昼黎明时屠杀了他们之后,你将欢欣,正如因林陀罗杀死了大阿修罗而欢欣一般。

10.4.16

त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् ।
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ॥ १०.४.१६ ॥

你在战场上确能战胜般遮罗的大军,正如愤怒的、灭尽一切檀那婆的人战胜提迦军队一般。

10.4.17

मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा ।
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् ॥ १०.४.१७ ॥

你与我同在,又受克里达瓦尔曼守护,在战场上即便持金刚杵的主神亲自到来,也无法抵挡你。

10.4.18

न चाहं समरे तात कृतवर्मा न चैव हि ।
अनिर्जित्य रणे पाण्डूनपयास्यामि कर्हिचित् ॥ १०.४.१८ ॥

孩子,我与克里达瓦尔曼在战场上,若不先战胜般度之子,绝不会撤退。

10.4.19

हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह ।
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् ॥ १०.४.१९ ॥

在战场上与般度之子一起杀死卑贱的般遮罗人之后,我们都将归来;或者战死而升天。

10.4.20

सर्वोपायैः सहायास्ते प्रभाते वयमाहवे ।
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ ॥ १०.४.२० ॥

我们作为你的盟友,会以一切方法在黎明时参加战斗。大臂者啊,无过者啊,这是真话,我告诉你。

10.4.21

एवमुक्तस्ततो द्रौणिक्रमातुलेन हितं वचः ।
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने ॥ १०.४.२१ ॥

舅父慈悲者如此说了有益的话,大王啊,德罗纳之子因愤怒而转动眼睛,对舅父说道。

10.4.22

आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च ।
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः ॥ १०.४.२२ ॥

对于痛苦的人、愤怒的人、思虑事务的人,或是心怀欲望的人,又怎会有睡眠呢?

10.4.23

तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम् ।
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् ॥ १०.४.२३ ॥

看啊,今天这四重的痛苦降临到我身上;其中仅仅四分之一,就足以毁掉我白天的睡眠。

10.4.24

किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् ।
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति ॥ १०.४.२४ ॥

在这世上,回想父亲被杀,还有什么痛苦能比得上呢?我的心今日焚烧,日夜不得平息。

10.4.25

यथा च निहतः पापैः पिता मम विशेषतः ।
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ॥ १०.४.२५ ॥

我父亲如何被恶人杀害,尤其是这一切都在你眼前发生,这事正割裂我的要害。

10.4.26

कथं हि मादृशो लोके मुहूर्तमपि जीवति ।
द्रोणहन्तेति यद्वाचः पाञ्चालानां शृणोम्यहम् ॥ १०.४.२६ ॥

在这世上,像我这样的人怎能活过片刻,当我听到般遮罗人口中说'杀害德罗纳者'之语?

10.4.27

धृष्टद्युम्नमहत्वा तु नादं जीवितुमुत्सहे ।
स मे पितुर्वधाद्वध्यः पाञ्चाला ये च सङ्गताः ॥ १०.४.२७ ॥

若不杀死德里斯塔德由姆那,我不愿活下去。因为我父之死,他与聚集的般遮罗人都该由我诛杀。

10.4.28

विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः ।
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् ॥ १०.४.२८ ॥

我所听到的那位断腿之王的哀嚎,哪颗残忍的心不会因此被焚烧呢?

10.4.29

कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् ।
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ॥ १०.४.२९ ॥

听到断腿之王的这番话语,哪怕是无情之人,眼中又怎会不流泪呢?

10.4.30

यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः ।
शोकं मे वर्धयत्येष वारिवेग इवार्णवम् ॥ १०.४.३० ॥

我尚在人世,我这一方的朋友却已战败,这使我的悲痛增长,如同水流的涌动使大海上涨。

10.4.31

एकाग्नमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ॥ १०.४.३१ ॥

今我心志专一,何来睡眠,何来安乐?

10.4.32

वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान् ।
अविषह्यतमान्मन्ये महेन्द्रेणापि सत्तम ॥ १०.४.३२ ॥

善人中的至尊啊,我以为他们受到婆苏提婆与阿周那的守护,即便因陀罗也无法战胜。

10.4.33

न चापि शक्तः संयन्तुमस्मात्कार्यात्कथञ्चन ।
तं न पश्यामि लोकेऽस्मिन्यो मां कोपान्निवर्तयेत् ॥ १०.४.३३ ॥

我看不到世上有谁能以任何方式阻止我此行,或使我从愤怒中回转。

10.4.34

इति मे निश्चिता बुद्धिरेषा साधुमता मम ॥ १०.४.३४ ॥

这便是我坚定的决心,我认为它是正当的。

10.4.35

वादिकैः कथ्यमानस्तु मित्राणां मे पराभवः ।
पाण्डवानां च विजयटो हृदयं दहतीव मे ॥ १०.४.३५ ॥

听人述说我的朋友的败绩与般度子孙的胜利,我的心仿佛被焚烧一般。

10.4.36

अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके ।
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ॥ १०.४.३६ ॥

然而今夜于偷袭中大肆杀戮敌人之后,我将得以歇息,无忧无虑地安眠。