Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 11.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.2.1

ततोऽमृतरसैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् ।
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् ॥ ११.२.१ ॥

于是毗杜罗以如甘露般的言辞使人中之牛、毗质多维利耶之子欢喜,说道:请听其言。

11.2.2

उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना ।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः ॥ ११.२.२ ॥

起来吧,国王!你为何躺着?请凭自己的力量振作自己。世界之主啊,这是一切众生的最高归宿。

11.2.3

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ ११.२.३ ॥

一切积聚终于毁灭,一切崇高终于坠落;一切结合终于分离,而生命终于死亡。

11.2.4

यदा शूरं च भीरुं च यमः कर्षति भारत ।
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ ॥ ११.२.४ ॥

婆罗多啊!当阎摩牵走勇者与怯者时,那些刹帝利为何不去战斗?刹帝利中的雄牛啊!

11.2.5

अयुध्यमानो म्रियते युध्यमानश्च जीवति ।
कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥ ११.२.५ ॥

不战之人也会死,而战斗之人也会活。大王啊,时机一到,无人能够逾越。

11.2.6

अभावादीनि भूतानि भावमध्यानि भारत ।
अभावनिधनान्येव तत्र का परिदेवना ॥ ११.२.६ ॥

婆罗多啊,众生始于无有,中间存在,终于无有。对此又何必悲叹呢?

11.2.7

न शोचन्मृतमन्वेति न शोचन्म्रियते नरः ।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि ॥ ११.२.७ ॥

悲伤不能跟随死者而去,悲伤也不能使人免于死亡。既然这世界本是如此,你为何悲伤?

11.2.8

कालः कर्षति भूतानि सर्वाणि विविधान्युत ।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ॥ ११.२.८ ॥

时间牵引着各式各样的一切众生。库鲁之最,时间对谁都无所偏爱,也无所憎恶。

11.2.9

यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः ।
तथा कालवशं यान्ति भूतानि भरतर्षभ ॥ ११.२.९ ॥

如同风从四面八方吹动草尖,众生也这样屈从于时间的力量,婆罗多中的雄牛啊。

11.2.10

एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् ।
यस्य कालः स यात्यग्रे तत्र का परिदेवना ॥ ११.२.१० ॥

在同一支商队中前往那里的所有人中,时辰已到的人便先行而去;在那里哀悼又有何用?

11.2.11

न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि ।
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् ॥ ११.२.११ ॥

大王啊,你不应为这些在战场上被杀的人悲伤。若经典是权威,他们已经到达了至高的归宿。

11.2.12

सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः ।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥ ११.२.१२ ॥

他们都精通吠陀,都守持誓愿,都面对敌人而倒下。在那里哀悼又有何用?

11.2.13

अदर्शनादापतिताः पुनश्चादर्शनं गताः ।
नैते तव न तेषां त्वं तत्र का परिदेवना ॥ ११.२.१३ ॥

他们从不可见中降临,又重新回到不可见之中。他们不属于你,你也不属于他们;何必在此哀叹?

11.2.14

हतो हि लभते स्वर्गं जित्वा च लभते यशः ।
उभयं नो बहुगुणं नास्ति निष्फलता रणे ॥ ११.२.१४ ॥

战死者得到天界,获胜者得到名声。二者对我们都大有益处;在战场上没有徒劳。

11.2.15

तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति ।
इन्द्रस्यातिथयो ह्येते भवन्ति भरतर्षभ ॥ ११.२.१५ ॥

为他们,因陀罗将确定能满足一切愿望的诸世界。婆罗多中的公牛啊,这些人都是因陀罗的客人。

11.2.16

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥ ११.२.१६ ॥

凡人不是通过祭祀及其供养、苦行或学识而升天,像战场上阵亡的英雄那样升天。

11.2.17

शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः ।
हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः ॥ ११.२.१७ ॥

他们将箭矢作为祭品投入战士身体的火焰之中;那些光辉的人也忍受着彼此相互投掷、如同供品般被献上的箭。

11.2.18

एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् ।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते ॥ ११.२.१८ ॥

大王啊,我就这样向你宣说通往天界的至上之道。在此世间,对于刹帝利而言,没有比战斗更大的事了。

11.2.19

क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः ।
आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि ॥ ११.२.१९ ॥

那些刹帝利是伟大的英雄,在战场上闪耀;他们达到了至高的目标,因此他们都不值得悲伤。

11.2.20

आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ ।
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि ॥ ११.२.२० ॥

人中之雄啊,请你自我安慰,不要悲伤;被悲痛所压倒,今天你不应舍弃自己的身体。

11.2.21

मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥ ११.२.२१ ॥

在轮回之中,已经经历了成千上万的父母,数百的儿子和妻子;你属于谁,或者我们属于谁呢?

11.2.22

शोकस्थानसहसाणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ ११.२.२२ ॥

成千上万的悲伤之因和数百的恐惧之因,日复一日地侵入愚人,却不侵入智者。

11.2.23

न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ।
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति ॥ ११.२.२३ ॥

库鲁族中最优秀的人啊,时间没有所爱的人,也没有可憎的人;时间从不中立,它把一切都拖走。

11.2.24

कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ ११.२.२४ ॥

时间使众生成熟,时间收回众生;在沉睡者之中时间仍醒着;时间确实难以超越。

11.2.25

अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ।
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः ॥ ११.२.२५ ॥

青春、容颜、生命、财富的积聚、健康与与所爱之人相处,皆是无常的;智者不执著于这些。

11.2.26

न जानपदिकं दुःखमेकः शोचितुमर्हसि ।
अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥ ११.२.२६ ॥

你不应独自为民众的苦难悲叹;与匮乏相连之事,也不会因此而逆转。

11.2.27

अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् ।
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ॥ ११.२.२७ ॥

若能看到勇猛之道,便应不悲而设法补救;这便是悲痛的良药——不反复思量此事。

11.2.28

चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ।
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च। ॥ ११.२.२८ ॥

被反复思量的悲痛不会消散,反而一再增长;与不喜之事相遇,与所爱之人分离,都会使它增长。

11.2.29

मानुषा मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ।
नार्थो न धर्मो न सुखं यदेतदनुशोचति। ॥ ११.२.२९ ॥

愚钝之人被心中的痛苦所缠缚;因为他们为此悲叹,所以既得不到财富,也得不到法,更得不到快乐。

11.2.30

तच्च नाप्नोति कार्यार्थं त्रिवर्गाच्चैव भ्रश्यते ।
अन्योन्यबाधनावस्थां प्राप्य वैषयिकीं नराः। ॥ ११.२.३० ॥

他们达不到那个目的,甚至从三大目标中堕落;陷入由诸根对象所生的相互妨害之境,人便这样堕落。

11.2.31

असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः ।
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। ॥ ११.२.३१ ॥

不知足者迷惑,智者得满足。以智慧消除心之苦,以药物消除身之苦。

11.2.32

एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ।
शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति। ॥ ११.२.३२ ॥

此智慧之力,愚者不能与之相比。随躺卧者而卧,随站立者而立。

11.2.33

अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ।
यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम्। ॥ ११.२.३३ ॥

前世所作之业追随奔跑之人。人于何种境况中作善或作恶,

11.2.34

तस्यांतस्यामवस्थायां तत्तत्फलमवाप्नुते ।
येनयेन शरीरेण यद्यत्कर्म करोति यः। ॥ ११.२.३४ ॥

于彼彼境况中,得彼彼果报。人以何身作何业,

11.2.35

तेनतेन शरीरेण तत्फलं समुपाश्नुते ।
आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च ॥ ११.२.३५ ॥

以彼身受彼果报。自我即是自我之见证者,无论所作善恶。

11.2.36

शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ।
कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित् ॥ ११.२.३६ ॥

善业得乐,恶业得苦。所作之业处处结果;未作之业则无处可寻。

11.2.37

न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विघाः ॥ ११.२.३७ ॥

像您这样的智者不会沉迷于那些违背智慧、带来诸多祸患、摧毁根本的行为。