摩诃婆罗多 · 章 11.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.26.1
उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः ।
तवैव ह्यपराधेन कुरवो निधनं गताः ॥ ११.२६.१ ॥
起来吧,起来吧,甘陀利!不要让心沉溺于悲伤。正是由于你的过错,俱卢族走向了毁灭。
11.26.2
यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् ।
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ॥ ११.२६.२ ॥
你把儿子难敌——一个心术邪恶、嫉妒心重、极度傲慢的人——置于前列,因而把恶行当作善行。
11.26.3
निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम् ।
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि ॥ ११.२६.३ ॥
你这残酷、怀有敌意、违背长辈命令的人,为何想把自己所犯的过错推到我身上?
11.26.4
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥ ११.२६.४ ॥
无论是死去还是失去的,凡为过去而悲伤者,便因悲伤而得到悲伤;他遭受两种灾祸。
11.26.5
तपोर्थीयं ब्राह्मणी धत्त गर्भं ।
गौर्वोढारं धावितारं तुरङ्गी।
शूद्रा दासं पशुपालं च वैश्या ।
वधार्थीयं त्वद्विधा राजपुत्री ॥ ११.२६.५ ॥
婆罗门妇为修行而怀胎;母牛生出负重者,母马生出奔跑者,首陀罗女生出仆人,吠舍女生出牧人;而像你这样的王女,却为杀戮而怀胎。
11.26.6
तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् ।
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना ॥ ११.२६.६ ॥
甘陀利听到瓦苏提婆这些重复而不悦耳的话,悲痛使她双目慌乱,于是默然无语。
11.26.7
धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः ।
पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम् ॥ ११.२६.७ ॥
于是王仙达兰陀罗式的持法者坚战… 持国王克制由无知所生的昏暗,问法王、知法者坚战。
11.26.8
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव ।
हतानां यदि जानीषे परिमाणं वदस्वं मे ॥ ११.२६.८ ॥
般度之子啊,你知道活着的军队的数目;若你知道被杀者的数目,便告诉我。
11.26.9
दशायुतसहस्राणि सहस्राणि च विंशतिः ।
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन्राजन्मृधे हताः ॥ ११.२६.९ ॥
大王啊,在这场战斗中,被杀者有十阿由多千、二万、六十俱胝又六。
11.26.10
आलक्षाणां च वीराणां सहस्राणि चतुर्दश ।
दश चान्यानि राजेन्द्र शतं षष्टिश्च भारत ॥ ११.२६.१० ॥
王中之王啊,阿拉克沙的英雄中,有一万四千,又有十人,又有一百六十人,婆罗多啊。
11.26.11
युधिष्ठिरगतिं कां ते गताः पुरुषसत्तम ।
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः ॥ ११.२६.११ ॥
人中最优者啊,他们到达了何种归宿?大臂者啊,请告诉我;在我看来,你是全知的。
11.26.12
यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे ।
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः ॥ ११.२६.१२ ॥
那些真实勇猛的人,在那场大战中欢喜地奉献了身体,已前往与众神之王因陀罗相等的世界。
11.26.13
ये त्वहृष्टेन मनसा मर्तव्यमिति भारत ।
युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः ॥ ११.२६.१३ ॥
婆罗多之子啊,那些心不欢喜、以为必死而战斗、在战场上被杀的人,与乾闼婆们会合了。
11.26.14
ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः ।
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ॥ ११.२६.१४ ॥
那些站在战场上、乞求并转身背对、死于兵器之下的人,走向了guhyaka们。
11.26.15
पात्यमानाः परैर्ये तु हीयमाना निरायुधाः ।
हीनिषेवा महात्मानः परानभिमुखा रणे ॥ ११.२६.१५ ॥
那些大德之人,被敌人击倒,无兵器而衰弱,仍守羞耻之德,在战场上面对敌人。
11.26.16
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः ।
हतास्ते ब्रह्मसदनं गता वीराः सुवर्चसः ॥ ११.२६.१६ ॥
那些被利刃砍伤、坚守刹帝利之法、被杀的光辉英雄,前往梵天的住所。
11.26.17
ये त्वत्र निहता राजन्नन्तरायोधनं प्रति ।
यथाकथञ्चित्पुरुषास्ते गता ह्युत्तरां गतिम् ॥ ११.२६.१७ ॥
国王啊,那些在此战场中间不论以何种方式被杀的人,确实到达了更高的归宿。
11.26.18
केन ज्ञानबलेनैव पुत्र पश्यसि सिद्धवत् ।
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया ॥ ११.२६.१८ ॥
儿啊,你凭借何种智慧之力,看得如同成就的圣者一般?大臂者啊,若我配得听闻,请告诉我。
11.26.19
निदेशाद्भवतः पूर्वं वने विचरता मया ।
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः ॥ ११.२६.१९ ॥
遵照您的命令,我先前在森林中漫游,因朝拜圣渡之机缘,获得了这份恩典。
11.26.20
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् ।
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा ॥ ११.२६.२० ॥
我见到了天仙圣人洛摩莎,于是想起了往事;昔日我又以知识瑜伽获得了天眼。
11.26.21
ये त्वनाथा जनास्तात नाथवन्तश्च पाण्डव ।
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ॥ ११.२६.२१ ॥
那些无依无靠之人,以及那些有依靠之人,亲爱的般度之子,他们的遗体会依礼火化吗?
11.26.22
न येषां शान्तिकर्तारो न च येऽत्राहिताग्नयः ।
वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम् ॥ ११.२६.२२ ॥
对于那些既无行安息仪式之人、此地也无敬守圣火之人者,我们自己将为他们行礼,亲爱的父亲,因为仪式众多。
11.26.23
यान्सुपर्णाश्च गुध्राश्च विकर्षन्ति ततस्ततः ।
तेषां सङ्कर्षणा लोका भविष्यन्ति न संशयः ॥ ११.२६.२३ ॥
那些被鹰与秃鹫拖来拖去的人,对他们而言,这些拖拽便将成为他们的世界,此事毫无疑问。
11.26.24
एवमुक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम् ॥ ११.२६.२४ ॥
大王,般度之子须陀,如此说毕,便向苏达尔曼、陀摩与御者桑耶下达了命令。
11.26.25
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् ।
इन्द्रसेनमुखान्भृत्यान्सूतांश्चैव सहस्रशः ॥ ११.२६.२५ ॥
并吩咐大智慧的维杜拉、俱卢族的优由明,以及以因陀罗塞那为首的数千名仆从和御者。
11.26.26
भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः ।
यथा नाथवतां किञ्चिच्छरीरं न विनश्यति ॥ ११.२६.२६ ॥
你们要为他们所有人完整地举行丧葬仪式,使有庇护者的人,其遗体不致毁坏。
11.26.27
शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः ।
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ॥ ११.२६.२७ ॥
依法王之命,刹帝利维杜拉、御者桑阇耶、苏达摩与陀摩耶,以及因陀罗塞那等人,也都投入了这项工作。
11.26.28
चन्दनागुरुकाष्ठानि तथा कालीयकान्युत ।
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ॥ ११.२६.२८ ॥
檀香与沉香木,以及卡利耶迦香,还有酥油、油、香料和丝绸衣物(都被运来)。
11.26.29
समाहृत्य महार्हाणि दारुणां चैव सञ्चयान् ।
रथांश्च मृदितास्तत्र नानाप्रहरणानि च ॥ ११.२६.२९ ॥
收集了贵重之物与堆积的柴木,又把那里破碎的战车和各式兵器也都搬来()。
11.26.30
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् ।
दाहयामासुरव्याग्राः शास्त्रदृष्टेन कर्मणा ॥ ११.२६.३० ॥
他们精心搭建火葬堆,以平静的心,按照经典所规定的仪式,依各人地位焚化了诸位主要的人中之主。
11.26.31
दुर्योधनं च राजानं भ्रातॄंश्चास्य कर्मणा ।
शल्यं शलं च राजानं भूरिश्रवसमेव च ॥ ११.२६.३१ ॥
他们又依仪轨火化了国王难敌、他的兄弟们、国王沙利耶、国王沙拉,以及婆里首罗婆。
11.26.32
जयद्रथं च राजानमभिमन्युं च भारत ।
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ॥ ११.२६.३२ ॥
还有国王胜车、婆罗多啊,阿毗摩世、难降之子、罗什曼那,以及国王坚鬘。
11.26.33
बृहद्वलं सोमदत्तं सृञ्जयं च महारथम् ।
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ॥ ११.२६.३३ ॥
广力、月授、大车将军悉闍耶、国王安稳弓,以及毗罗吒与德鲁波陀。
11.26.34
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् ।
युधामन्युं च विक्रान्तमुत्तमौजसमेव च ॥ ११.२६.३४ ॥
尸犍底、般遮罗的达利瑟德于摩、普利沙塔之子、勇猛的优陀摩尼优,以及胜妙力。
11.26.35
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् ।
अचलं वृषकं चैव भगदत्ते च पार्थिवम् ॥ ११.२६.३५ ॥
憍萨罗王、德罗波蒂之子们、苏波罗之子沙古尼、阿遮罗、伐娑迦,以及国王婆伽达多。
11.26.36
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् ।
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ॥ ११.२६.३६ ॥
毗迦尔达那之子迦尔纳,连同他的儿子不屈者,以及迦迦耶的大弓手与三伽陀的大车将。
11.26.37
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च ।
अलम्बुसं राक्षसेन्द्रं जलसन्धं च पार्थिवम् ॥ ११.२६.३७ ॥
罗刹之主迦托迦恰、巴卡之兄,罗刹之主阿兰布沙,以及国王遮罗山陀。
11.26.38
एतांश्चान्यांस्च सुबहून्पार्थिवांश्च सहस्रशः ।
धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन्। ॥ ११.२६.३८ ॥
他们将这些人以及其他成千上万的国王,在以流注倾倒的燃烧供品之火中全部焚烧。
11.26.39
पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम् ।
सामभिश्चाप्यगायन्त तेऽन्वशासत चापरैः ॥ ११.२६.३९ ॥
一些大德者开始举行祖先祭祀(pitṛmedha),唱诵娑摩歌,并有其他人为他们作指导。
11.26.40
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः ।
कश्मलं सर्वभूतानां निशायां समपद्यत ॥ ११.२६.४० ॥
娑摩与梨俱的诵声,加上妇女的哭泣声,夜里使一切众生陷入惶惑。
11.26.41
हुताश्च तत्प्रदीप्ताश्च दीप्यमानाश्च पावकाः ।
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ॥ ११.२६.४१ ॥
那些献祭的、燃烧的、闪耀的火焰,在天空中看去如同被薄云笼罩的行星。
11.26.42
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः ।
तांश्च सर्वान्समानीय राशीकृत्वा सहस्रशः ॥ ११.२६.४२ ॥
那些在那里无人庇护、从各地聚集而来的人,将他们全部收集,堆成成千上万的一堆。
11.26.43
चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः ।
दाहयामास तान्सर्वान्विदुरो राजशासनात् ॥ ११.२६.४३ ॥
奉王命,维杜罗从容地用大量劈开并浸过油脂的木柴,将他们全部焚化。
11.26.44
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः ।
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ॥ ११.२६.४४ ॥
库鲁王尤迪希提罗为他们举行了葬礼,随后让持国王走在前面,朝恒河方向前行。