Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 11.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

11.8.1

विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः ।
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः
गते भगवति व्यासे धृतराष्ट्रो महीपतिः ।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥ ११.८.१ ॥

ヴィドゥラの言葉を聞いて、クルの最上の者は息子たちへの悲嘆に苦しみ、気を失って地に倒れた。バラモンの聖仙よ、尊きヴィヤーサが去った後、王ドリタラーシュトラが何をしたのか、私に語ってください。

11.8.2

तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः ।
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा
तथैव कौरवो राजा धर्मपुत्रो महामनाः ।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥ ११.८.२ ॥

彼がこのように意識を失って地に倒れているのを見て、親族たち、クリシュナ・ドヴァイパーヤナ、執事ヴィドゥラ、同じくクル王で大度の法の子、クリパら——その三人は何をしたのか。

11.8.3

सञ्जयः सुहृदश्चान्ये द्वास्था ये चास्य सम्मताः ।
जलेन सुखशीतेन तालवृन्तैश्च भारत
अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः ।
वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः ॥ ११.८.३ ॥

サンジャヤ、友人たち、そして彼に敬われていた他の門番たちが、心地よく冷たい水とヤシの葉の扇で——ああバーラタよ、アシュヴァッターマンの行いが伝えられ、互いに与えた呪いも。サンジャヤが語ったその後の物語を語ってください。

11.8.4

पस्पर्शुश्च करैर्गात्रं वीजमानाश्च यत्नतः ।
अन्वासत चिरं कालं धृतराष्ट्रं तथाविधम्
हते दुर्योधने चैव हते सैन्ये च सर्वशः ।
सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः ॥ ११.८.४ ॥

彼らは手で彼の身体に触れ、注意深くあおぎながら、その状態にあったドリタラーシュトラに長い間仕えた。ドゥルヨーダナが殺され、軍勢がことごとく滅びた後、分別を失ったサンジャヤがドリタラーシュトラのもとに来た。

11.8.5

अथ दीर्घस्य कालस्य लब्धस़ञ्ज्ञो महीपतिः ।
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः
आगम्य नानादेशेभ्यो नानाजनपदेश्वराः ।
पितृलोकं गता राजन्सर्वे तव सुतैः सह ॥ ११.८.५ ॥

やがて長い時を経て意識を取り戻した王は、息子たちへの悲しみに打ちのめされ、長いあいだ嘆き悲しんだ。おお王よ、様々な国から来た様々な国々の主たちは、皆あなたの息子たちとともに祖霊の世界へ去っていたのだ。

11.8.6

धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् ।
यतोमूलानि दुःखानि सम्भवन्ति पुनःपुनः
याच्यमानेन सततं तव पुत्रेण भारत ।
घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता ॥ ११.८.६ ॥

人間の生と人への執着は実に恥ずべきものだ。その根から苦しみが繰り返し生じる。おおバーラタよ、あなたの息子が絶えず求め続けたため、敵意の終わりを望んだ者は大地全体を滅ぼさせたのだ。

11.8.7

मित्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि ।
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो
पुत्राणामथ पौत्राणां पितॄणां च महीपते ।
आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय ॥ ११.८.७ ॥

ああ、強大な王よ。友を失い、富を失い、また親族や縁者を失うとき、毒や火にも似た非常に大きな苦しみが生じる。ああ、大地の主よ、息子たち、孫たち、父たちのすべてのために、順序どおりに葬送の儀礼を行わせよ。

11.8.8

येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति ।
येनाभिभूतः पुरुषो मरणं प्रतिपद्यते
तच्छ्रुत्वा वचनं घोरं सञ्जयस्य महीपतिः ।
गतासुरिव निश्चेष्टो न्यपतत्पृथिवीतले ॥ ११.८.८ ॥

それによって手足は焼かれ、それによって智慧は滅び、それに打ち負かされた人は死に至る。サンジャヤのその恐ろしい言葉を聞いて、その大地の王は命のない者のように身動きもせず、地に倒れた。

11.8.9

तदिदं मरणं प्राप्तं मया भाग्यविपर्ययात् ।
तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात्
तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम् ।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥ ११.८.९ ॥

この死は、私の運命の逆転によって私に訪れた。命を捨てる以外に、その終わりは見当たらない。地に横たわるその大地の王のもとに近づき、一切のダルマを知るヴィドゥラはこの言葉を語った。

11.8.10

तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम ।
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्
उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ ।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः ॥ ११.८.१० ॥

「まさに今日それを行いましょう、再生族の中の最上の方よ。」こう言って、彼は偉大な魂の持ち主である、ブラフマンに最も通じた父に語った。「お立ちなさい、王よ。なぜ横たわっているのですか。嘆いてはなりません、バーラタの雄牛よ。これこそが全存在の最高の帰趨、世界の主よ。」

11.8.11

धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः ।
अभूच्च तूष्णीं राजाऽसौ ध्यायमानो महीपतिः
अभावादीनि भूतानि भावमध्यानि भारत ।
अभावनिधनान्येव तत्र का परिदेवना ॥ ११.८.११ ॥

ドリタラーシュトラは迷い、この上ない悲しみに沈んだ。その大地の王は黙して、思いに沈んでいた。バーラタよ、生き物は非存在から始まり、中間は存在にあり、非存在に終わる。そこで嘆いて何になろうか。

11.8.12

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः ।
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत्
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः ।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि ॥ ११.८.१२ ॥

彼の言葉を聞いて、主クリシュナ・ドヴァイパーヤナは、息子を失った悲しみに苦しむ息子にこう語った。「嘆かない者は死者に従わず、嘆かない者は死なない。この完成された世界で、なぜあなたは嘆くのか。」

11.8.13

धृतराष्ट्र महाबाहो शृणु वक्ष्यामि पुत्रक ।
श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो
अयुध्यमानो म्रियते युध्यमानस्तु जीवति ।
कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥ ११.८.१३ ॥

力強き腕を持つドリタラーシュトラよ、息子よ、聞け。お前は学識深く賢明で、主よ、法と実利に通じている。戦わない者も死に、戦う者も生きる。大王よ、時が来れば、誰もそれを越えることはできない。

11.8.14

न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप ।
अनित्यतां हि भूतानां विजानासि न संशयः
कालः कर्षति भूतानि सर्वाणि विविधानि च ।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ॥ ११.८.१४ ॥

敵を焼く者よ、知るべきことで、お前に知られていないものは何もない。生き物の無常を、お前は疑いなく理解している。時はあらゆる種類の生き物を引きずってゆく。クルの最上の者よ、時には愛する者も憎む者もいない。

11.8.15

अध्रुवे जीवलोके च स्थाने वा शाश्वते सति ।
जीविते मरणान्ते च कस्माच्छोचसि पुत्रक
यथा वायुस्तृणाग्राणि संवर्तपति सर्वतः ।
तथा कालवशं यान्ति भूतानि भरतर्षभ ॥ ११.८.१५ ॥

無常な生者の世界においても、あるいは永遠の場所においても、生と死の終わりにおいて、息子よ、なぜお前は嘆くのか。風が四方から草の先端を揺らすように、バラタの牡牛よ、生き物たちは時の力に従って行くのだ。

11.8.16

प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः ।
पुत्रं ते कारणं कृत्वा कालयोगेन निर्मितः
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् ।
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना ॥ ११.८.१६ ॥

王者の主よ、この敵意の生起はあなたの目の前で起きた。あなたの息子を原因として、時の結びつきによってそれは生み出された。同じ道を行く者たちのうち、時が先に行く者がいるとき、そこに嘆きは何の役に立つのか。

11.8.17

अवश्यं भवितव्ये च कुरूणां सङ्क्षये नृप ।
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम्
यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि ।
न शोच्या हि माहत्मानः सर्वे ते त्रिदिवं गताः ॥ ११.८.१७ ॥

王よ、クル族の滅亡において必ず起きるべきことが起きたのだ。最高の境地へ行った英雄たちのために、なぜあなたは嘆くのか。戦いで殺された者たちのためにもあなたは嘆いている。王よ、あの偉大な魂たちはみな天界へ行った。彼らは嘆かれるべき者ではない。

11.8.18

जानता च महाबाहो विदुरेण महात्मना ।
यतितं सर्वयत्नेन शमं प्रति जनेश्वर
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।
तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः ॥ ११.८.१८ ॥

大いなる腕の者よ、人々の主よ。すべてを知る偉大な魂ヴィドゥラは、あらゆる努力をもって和平のために尽くした。しかし人々は、身体を捨てた勇士たちが得るように、布施を伴う供犠によっても、苦行によっても、学識によっても天界に至るのではない。

11.8.19

न च दैवकृतो मार्गः शक्यो भूतेन केनचित् ।
घटताऽपि चिरं कालं नियन्तुमिति मे मतिः
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥ ११.८.१९ ॥

天命によって定められた道は、どんな生き物が長く努力しても止めることはできない、というのが私の考えである。ヴェーダに通じた英雄も、誓いをよく守った者も皆、敵に立ち向かって滅びた。何を嘆くことがあろうか。

11.8.20

देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् ।
तत्तेऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत्तव
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः ।
हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरषाः ॥ ११.८.२० ॥

神々の所業は私が直接聞いたことであり、あなたの心が安定するように、すべてをお話ししよう。神々は英雄たちの身体の火に矢を供物として注ぎ、人々の中の最も優れた者たちは、供えられる矢を耐え忍んだ。

11.8.21

पुराऽहं परितो यातः सभामैन्द्रीं जितक्लमः ।
अपश्यं तत्र च सदा समवेतान्दिवौकसः
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् ।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते ॥ ११.८.२१ ॥

以前、疲れることなく四方を巡り、インドラの集会所に至った。そこでは天界の住人たちがいつも集まっているのを見た。王よ、こうして私はあなたに天へ至る最上の道を告げる。この世で刹帝利にとって、戦いより偉大なものは何もない。

11.8.22

नारदप्रमुखांश्चापि सर्वान्देवर्षिसत्तमान् ।
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः ।
आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि ॥ ११.८.२२ ॥

そこでナーラダをはじめ、最もすぐれた神仙たちすべてを私は見た。大地の主よ、そこで私はまた、偉大な魂をもつクシャトリヤたち、戦いで輝いた英雄たちが最高の祝福を得ているのを見た。彼らは誰も嘆かれるべき者ではない。

11.8.23

कार्यार्थमुपसम्पन्ना देवतानां समीपतः ।
उपगम्य तदा धात्री देवानाह समागतान्
आत्मनाऽऽत्मानमाश्वास्य मा शुचः पुरुषर्षभ ।
नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्नष्टुमर्हसि ॥ ११.८.२३ ॥

ある任務のために神々のもとに近づいた大地の女神ダートリーは、集まった神々に近づいて言った。人中の牡牛よ、自ら自らを慰めよ、嘆くな。今日、悲しみに打ちひしがれて、お前はその務めを捨ててはならない。

11.8.24

यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा ।
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् ॥ ११.८.२४ ॥

大いなる幸運の方々よ、あなた方がブラフマーの住処でかつて私のために約束したその務めを、速やかに果たしてください。

11.8.25

तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः ।
उवाच वाक्यं प्रहसन्प्रभुस्तां देवसंसदि ॥ ११.८.२५ ॥

彼女の言葉を聞くと、諸世界に礼拝されるヴィシュヌなるその主は、神々の集会で微笑みながら彼女にこの言葉を語った。

11.8.26

धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै ।
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति ॥ ११.८.२६ ॥

ドリタラーシュトラの百人の息子の中で長兄であり、ドゥルヨーダナという名で知られる者、彼がお前の務めを成し遂げるであろう。

11.8.27

तं च प्राप्य महीपालं कृतकृत्या भविष्यसि ।
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रं समागताः ॥ ११.८.२७ ॥

その大地の守護者を得て、あなたは成就するでしょう。彼のために大地の王たちがクルクシェートラに集まったのです。

11.8.28

अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः ।
ततस्ते भविता देवि भारस्य युधि नाशनम् ॥ ११.८.२८ ॥

彼らは堅固な武器で互いを打ち倒すでしょう。そして女神よ、戦いにおいてその重荷は滅びるのです。

11.8.29

गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने ।
स एष ते सुतो राजँल्लोकसंहारकारणात् ॥ ११.८.२९ ॥

早くご自分の住処へ行きなさい、麗しき人よ、世界を支えなさい。王よ、あなたのこの息子こそ、世界を滅ぼす原因なのです。

11.8.30

कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप ।
अमर्षी बलवाञ्शूरः क्रोधनो दुष्प्रसाधनः ॥ ११.८.३० ॥

王よ、カリの一部がガーンダーリーの胎内に生まれたのです。彼は不寛容で、強く、勇猛で、怒りやすく、なだめがたい。

11.8.31

दैवयोगात्समुत्पन्ना भ्रातरस्तस्य तादृशाः ।
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा ॥ ११.८.३१ ॥

天の定めによって、彼のような兄弟たちが生まれました。母方の叔父シャクニと、最上の友カルナも。

11.8.32

समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः ।
यादृशो जायते राजा तादृशोऽस्य जनो भवेत् ॥ ११.८.३२ ॥

大地の滅亡のために王たちが共に生まれました。生まれた王がどのようであれば、その民もそのようになるのです。

11.8.33

अधर्मो धर्मतां याति स्वामी चेद्धार्मिको भवेत् ।
स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः ॥ ११.८.३३ ॥

主君が正しければ、不正さえも正義となる。従者は主君の徳と欠点によってその性質を得る。これには疑いがない。

11.8.34

दुष्टं राजानमासाद्य गतास्ते तनया नृप ।
एतमर्थं महाबाहो नारदो वेद तत्त्ववित् ॥ ११.८.३४ ॥

王よ、あなたの息子たちは邪悪な王に身を寄せて滅びたのだ。大腕の者よ、真理を知る聖仙ナーラダはこのことを知っていた。

11.8.35

आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते ।
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ॥ ११.८.३५ ॥

地の主よ、あなたの息子たちは自らの過ちによって滅びたのだ。王の中の王よ、彼らのために嘆いてはならない。嘆く理由は確かにないのだ。

11.8.36

न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत ।
पुत्रास्तव दुरात्मानो यैरियं घातिता मही ॥ ११.८.३६ ॥

バーラタよ、パーンダヴァたちはあなたに対していささかの過ちも犯していない。この大地を殺戮したのは、あなたの邪悪な息子たちなのだ。

11.8.37

नारदेन च भद्रं ते पूर्वमेव न संशयः ।
युधिष्ठिरस्य समितौ राजसूये निवेदितम् ॥ ११.८.३७ ॥

あなたに幸いあれ。ナーラダはすでに、ラージャスーヤ祭でユディシュティラの集会において、このことを告げていた。疑いはない。

11.8.38

पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम् ।
नभविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर ॥ ११.८.३८ ॥

クンティーの子よ、パーンダヴァとカウラヴァが皆互いに出会えば、誰も生き残らないだろう。ゆえに、あなたの義務を果たせ。

11.8.39

नारदस्य वचः श्रुत्वा तथाऽकुर्वत पाण्डवाः ।
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ॥ ११.८.३९ ॥

ナーラダの言葉を聞いて、パーンドゥの子らはそのとおりに行った。神々の永遠の秘密、これがすべてあなたに語られた。

11.8.40

कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो ।
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ॥ ११.८.४० ॥

主よ、運命によって定められた定めを知ったうえで、どうすればあなたの悲しみは消え、生きものへの慈悲とパーンドゥの子らへの愛は保たれるのか。

11.8.41

एष चार्थो महाबाहो पूर्वमेव मया श्रुतः ।
कथितो धर्मराजस्य राजसूये कुरूत्तम ॥ ११.८.४१ ॥

大腕の者よ、このことは私が以前から聞いており、ラージャスーヤの祭儀で法の王に語ったのだ、クルの最良の者よ。

11.8.42

यतितं धर्मपुत्रेण मया गुह्ये निवेदिते ।
अविग्रहे कौरवाणां दैवं तु बलवत्तरम् ॥ ११.८.४२ ॥

私が秘かに告げた後、法の子は カウラヴァとの争いを避けようと努めた。しかし運命はさらに強いのだ。

11.8.43

अनतिक्रमणीयो हि विधी राजन्कथञ्चन ।
कृतान्तस्य तु भूतेन स्थावरेण चरेण च ॥ ११.८.४३ ॥

王よ、定めはどのようにしても破ることはできない。死神の定めは動くものも動かぬものも、すべてを縛るのだ。

11.8.44

भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत ।
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च ॥ ११.८.४४ ॥

バラタの子孫よ、あなたは法に専心し知性に優れている。それなのに、生きものの行く道と行かぬ道を知りながら、なお惑うのだ。

11.8.45

त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः ।
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ॥ ११.८.४५ ॥

悲しみに苦しみ、幾度も心を乱しているあなたを知れば、王ユディシュティラは命さえ捨てるであろう。

11.8.46

कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि ।
स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति ॥ ११.८.४६ ॥

常に慈悲深いその英雄は、畜生の胎に生まれた生き物にさえ慈悲を示す。王の中の王よ、どうして君に慈悲を示さないことがあろうか。

11.8.47

मम चैव नियोगेन विधेश्चाप्यनिवर्तनाम् ।
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत ॥ ११.८.४७ ॥

私の命により、天命の逃れがたい定めにより、そしてパーンドゥの息子たちへの憐れみから、バーラタよ、命を保ちなさい。

11.8.48

एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति ।
धर्मार्थः सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ॥ ११.८.४८ ॥

このように世に生きれば名声を得るであろう。愛しい子よ、これは大いなるダルマと目的であり、長き苦行も成就するであろう。

11.8.49

पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा ।
प्रज्ञाम्भसा महाराज निर्वापय सदा सता ॥ ११.८.४९ ॥

息子への悲しみは燃え盛る火のように生じた。大王よ、賢者がするように、常に知恵の水でそれを消し去れ。

11.8.50

तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः ।
मुहूर्तं समनुध्यायन्धृतराष्ट्रोऽभ्यभाषत ॥ ११.८.५० ॥

無限の光輝を持つヴィヤーサの言葉を聞き、ドリタラーシュトラはしばし思いをめぐらせてから語った。

11.8.51

महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम ।
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः ॥ ११.८.५१ ॥

おお、再生者のうち最上の人よ、私は大きな悲しみの網に打ちのめされている。幾度も惑乱し、自分自身がわからない。

11.8.52

इदं तु वचनं श्रुत्वा तव देवनियोगजम् ।
धारयिष्याम्यहं प्राणान्यतिष्ये च न शोचितुं ॥ ११.८.५२ ॥

神々の命によって生まれたあなたのこの言葉を聞いて、私は命を保ち、嘆かないよう努めよう。

11.8.53

एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः ।
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ॥ ११.८.५३ ॥

おお、王たちの主よ、ドリタラーシュトラのこの言葉を聞いて、サティヤヴァティーの子ヴィヤーサはその場で姿を消した。