Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.102

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.102.1

जयिन्याः कानि रूपाणि भवन्ति भरतर्षभ ।
पृतनायाः प्रशस्तानि तानि चेच्छामि वेदितुम् ॥ १२.१०२.१ ॥

婆罗多的雄牛啊,胜利之军有哪些征兆?我想知道那些对军队吉祥的征兆。

12.102.2

जयिन्या यानि रूपाणि भवन्ति भरतर्षभ ।
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः ॥ १२.१०२.२ ॥

婆罗多的雄牛啊,我将完整地告诉你胜利之军那些吉祥的征兆。

12.102.3

दैवे पूर्वं प्रकुपिते मानुषे कालचोदिते ।
तद्विद्व अऽनुपस्यन्ति ज्ञानदीर्घेण चक्षुषा ॥ १२.१०२.३ ॥

当天命先前震怒、人事受时间驱使时,智者以知识的远见洞察此事。

12.102.4

प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः ।
मङ्गल नि च कुर्वन्ति शमयन्त्यहितानि च ॥ १२.१०२.४ ॥

在此,知晓赎罪之法的人也会行持诵咒与火祭;他们举行吉祥之仪,平息不祥之兆。

12.102.5

उदीणानसो योधा वाहनानि च भारत ।
यस्यां भवन्ति सेनायां ध्रुवं तस्या जयो भवेत् ॥ १२.१०२.५ ॥

婆罗多啊,哪支军队的战士与坐骑都高鼻,胜利必定属于它。

12.102.6

अन्वेव वायवो यान्ति तथैवेन्द्रधनूंषि च ।
अनुप्लवन्ते मेघाश्च तथाऽऽदित्यस्य रश्मयः ॥ १२.१०२.६ ॥

风随之而行,彩虹亦然;云也在后漂浮,太阳的光线也同样相随。

12.102.7

गोमायवश्चातुलोमबला गृध्राश्च सर्वशः ।
अर्हयेयुर्यदा सेनां तदा सिद्धिरनुत्तमा ॥ १२.१०२.७ ॥

当豺狼、强壮的毛发动物和秃鹫从四面八方跟随军队时,便会获得最高的成功。

12.102.8

प्रसन्नभाः पावकश्चोर्ध्वरश्मिः ।
प्रदक्षिणावर्तशिखो विधूमः।
पुण्या गन्धाश्चाहुतीनां भवन्ति ।
जयस्यैतद्भाविनो रूपमाहुः ॥ १२.१०२.८ ॥

当火焰清亮、光芒向上升起、火舌右旋、无烟,并有供品的吉祥香气时,人们说这是胜利将临的征兆。

12.102.9

गम्भीरशब्दाश्च महास्वनाश्च ।
शङ्ख्याश्च भेर्यश्च नदन्ति यत्र।
युयुत्सवश्चाप्रतीपा भवन्ति ।
जयस्यैतद्भाविनो रूपमाहुः ॥ १२.१०२.९ ॥

当海螺与战鼓发出深沉宏大的声响,而求战的勇士并不逆反时,人们说这是胜利将临的征兆。

12.102.10

इष्टा मृगाः पृष्ठतो वामतश्च ।
संप्रस्थितानां च गमिष्यतां च।
जिघांसतां दक्षिणाः सिद्धिमाहु ।
र्ये त्वग्रतस्ते प्रतिषेधयन्ति ॥ १२.१०२.१० ॥

从后面和左边出现的吉祥鹿,若在出发者、将行者和欲击敌者的右侧,人们说这是成功;而从前方阻拦的,则另有所指。

12.102.11

माङ्गल्यशब्दाञ्शकुना वदन्ति ।
हंसाः क्रौञ्चाः शतपत्राश्च चाषाः।
हृष्टा योधाः सत्ववन्तो भवन्ति ।
जयस्यैतद्भाविनो रूपमाहुः ॥ १२.१०२.११ ॥

当天鹅、鹤、百羽鸟和鹧鸪等鸟类发出吉祥的鸣叫,而战士们欢喜且勇气充沛时,人们说这是胜利将临的征兆。

12.102.12

शस्त्रैर्यन्त्रैः कवचैः केतुभिश्च ।
सुभानुभिर्मुखवर्णैश्च यूनाम्।
भ्राजिष्मती दुष्प्रतिवीक्षणीया ।
येषां चमूस्तेऽभिभवन्ति शत्रून् ॥ १२.१०२.१२ ॥

凡其军队以兵器、器械、铠甲、旗帜,以及年轻战士明亮的光辉和面容而闪耀、难以逼视者,便能战胜敌人。

12.102.13

शुश्रूषवश्चानभिमानिनश्च ।
परस्परं सौहृदमास्थिताश्च।
येषां योधाः शौर्यमनुष्ठिताश्च ।
जयस्यैतद्भाविनो रुपमाहुः ॥ १२.१०२.१३ ॥

若其战士听从命令、不骄傲、彼此友爱并奉行勇武,人们说,这正是预示胜利的征兆。

12.102.14

शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनः प्रियाः ।
धैर्यं चाविशते योधान्विजयस्य मुखं च तत् ॥ १२.१०२.१४ ॥

悦耳的声音、触感与芬芳在四周流动,而坚定之心进入战士们,这便是胜利的面容。

12.102.15

शब्दो वामः प्रस्थितस्य दक्षिणः प्रविविक्षतः ।
पश्चात्संसाधयत्यर्थं पुरस्ताच्च निषेधति ॥ १२.१०२.१५ ॥

出行者左侧的声音为不吉,入内者右侧的声音为吉。从身后传来的声音成就所求,从前方传来的声音则制止。

12.102.16

संहत्य महतीं सेनां चतुरङ्गां युधिष्ठिर ।
साम्नैव वर्तयेः पूर्वं प्रसतेथास्ततो युधि ॥ १२.१०२.१६ ॥

般若,聚集庞大的四军之后,应先仅以和解之道行事;然后方可在战场上奋力而为。

12.102.17

जघन्य एष विजयो यद्युद्धे सामभाषणम् ।
यादृच्छिको युधि जयो दैवेनेति विचारणम् ॥ १२.१०२.१७ ॥

若在战斗中仅凭和解之言取胜,这是最下等的胜利;若在战斗中偶然取胜,则是天命所致——这一点应当深思。

12.102.18

आपगेव महावेगा त्रस्ता इव महामृगाः ।
दुर्निवार्यतमा चैव प्रभग्ना महती चमूः ॥ १२.१०२.१८ ॥

如急流大河,如惊恐的大鹿,难以阻挡的大军被击溃。

12.102.19

भग्ना इत्येव भज्यन्ते विद्वांसोऽपि न कारणम् ।
उदारसारा महती रुरुसंघोपमा चमूः ॥ १२.१०२.१९ ॥

即便智者,也因"已被击溃"之言而溃散,这并非原因。高贵力量的大军如同一群羚鹿。

12.102.20

परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः ।
अपि पञ्चत्रतै शूरा निघ्नन्ति परवाहिनीम् ॥ १२.१०२.२० ॥

彼此熟识、欢欣、舍弃性命、决心坚定的勇士,即便五人或三人一队,也能歼灭敌军。

12.102.21

अपि वा पञ्चषट्सप्तसंहिताः कृतनिश्चयाः ।
क्ललीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान् ॥ १२.१०२.२१ ॥

或者五人、六人、七人结成一伙,决心坚定、隐蔽藏身,并受到妥善礼遇,他们便能在此战胜敌人。

12.102.22

सन्निपातो न मन्तव्यः शक्ये सति कथंचन ।
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते ॥ १२.१०२.२२ ॥

若能以任何方式成功,便不应考虑正面冲突。在怀柔、离间、赠礼之后,战争才被称为次一级的手段。

12.102.23

संसर्पेण हि सेनाया भयं भीरून्प्रबाधते ।
वज्रादिय प्रज्वलितादियं स्वित्क्षपयिष्यति ॥ १२.१०२.२३ ॥

军队缓缓推进所带来的恐惧,压迫着胆怯者;如霹雳或烈火,它必将毁灭。

12.102.24

अमिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ ।
तेषां सन्दन्ति गात्राणि योधानां विवयस्य च ॥ १२.१०२.२४ ॥

得知敌军前来而退缩之人,其肢体,以及战士与国土的肢体,都会颤抖。

12.102.25

विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः ।
अस्त्रप्रतापतप्तानां मज्जाः सीदन्ति देहिनाम् ॥ १२.१०२.२५ ॥

大王啊,整个国土连同一切静止与行动的生灵都陷入痛苦;被兵器的炽热所灼烧的有身众生,其骨髓也都衰竭。

12.102.26

तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः ।
संपीड्यमाना हि परैर्योगमायान्ति सर्वतः ॥ १२.१०२.२६ ॥

对他们应反复施以夹杂严厉的安抚;因为被敌人从四面逼迫,他们便会前来寻求结盟。

12.102.27

आन्तराणां च भेदार्थं चरानभ्यवचारयेत् ।
यश्च तस्मात्परो राजा तेन संधिः प्रशस्यते ॥ १२.१०२.२७ ॥

为离间内部的敌人,应派遣间谍;与比自己更强大的国王议和,则是值得称赞的。

12.102.28

न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा ।
यथा सार्धममित्रेण सर्वतः प्रतिबाधनम् ॥ १२.१०२.२८ ॥

除非与敌人联合并从四面牵制他,否则无法以别的方式使他如此受困。

12.102.29

क्षमा वै साधुमायाति न ह्यसाधून्क्षमा सदा ।
क्षमायाश्चाक्षमायाश्च पार्थ विद्धि प्रयोजनम् ॥ १२.१०२.२९ ॥

忍耐只会来到善人身边,忍耐永远不会来到恶人身边。阿周那啊,你应知道忍耐与不忍耐各自的用途。

12.102.30

विजित्य क्षममाणस्य यशो राज्ञो विवर्धते ।
महापराधे ह्यप्यस्मिन्विश्वसन्त्यपि शत्रवः ॥ १२.१०२.३० ॥

征服之后仍宽恕的君王,其名声日益增长;即使在重大过错之后,敌人也会信任他。

12.102.31

मन्यन्ते कर्षयित्वा तु क्षमा साध्वीति शाम्बराः ।
असंतप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः ॥ १२.१०२.३१ ॥

商巴罗人认为,被逼迫而得的宽恕是好的;但未经火烤的木材仍会回复其本性。

12.102.32

नैतत्प्रशंसन्त्याचार्या न चैतत्साधु दर्शनम् ।
अक्रोधेनाविनाशेन नियन्तव्याः स्वपुत्रवत् ॥ १२.१०२.३२ ॥

师长们不赞扬此事,这种见解也不好:应当像对待自己的儿子一样治理臣民,不怀怒气,不加毁灭。

12.102.33

द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर ।
मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् ॥ १२.१०२.३३ ॥

युधिष्ठिर啊,过于严厉的君王会被众生憎恨;然而温和的君王也会遭到轻视,所以君王应兼具两者。

12.102.34

प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत ।
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव ॥ १२.१०२.३४ ॥

婆罗多啊,即将打击者应说悦耳之言;打击之时也应说悦耳之言;打击之后亦应说悦耳之言,仿佛悲伤或哭泣一般。

12.102.35

न मे प्रिया ये स्म हताः संप्रहृष्टाः परेऽपि च ।
न च कत्थनमेवाग्र्यमुच्यमानं पुनः पुनः ॥ १२.१०२.३५ ॥

我所亲爱者在战中被杀,我便不再以之为爱;欢喜的他人,我也不喜;反复诉说的自夸,也并非最善。

12.102.36

अहो जीवितमाकाङ्क्षेन्नेदृशो वधमर्हति ।
सुदुर्लभाः सुपुरुषाः संग्रामेष्वपलायिनः ॥ १२.१०२.३६ ॥

唉!贪恋生命的人不应受此诛戮;在战场上不逃跑的好汉极为罕见。

12.102.37

कृतं ममाप्रियं तेन येनायं निहतो मृधे ।
इति वाचा वदन्हन्तृन्पूजयेत रहोगतः ॥ १२.१०२.३७ ॥

口中说道:"在战场上杀死他的人令我不快。"独处之人应当尊敬那些杀者。

12.102.38

हन्तॄणां च हतानां च पूजां कुर्याद्यथार्थतः ।
क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसंग्रहम् ॥ १२.१०२.३८ ॥

应当依照事理尊敬杀者与被杀者;若想聚集民众,甚至可以举臂呼喊。

12.102.39

एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरेत् ।
प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः ॥ १२.१०२.३९ ॥

因此在一切境况中,君王应以安抚之道行事;知法而无畏的君王会为众生所爱。

12.102.40

विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत ।
विश्वस्तः शक्यते भोक्तुं यथाकालं समुत्थितः ॥ १२.१०२.४० ॥

婆罗多啊,在此一切众生都会生起信任;被信任的人,在适当时机起身之后,便可以为己所用。

12.102.41

तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया ।
सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति ॥ १२.१०२.४१ ॥

因此,君王应当无欺地使众生生起信任;欲享有大地者,应当四面守护之。