Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 12.104

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

12.104.1

धार्मिकोऽर्थानसंप्राप्य राजामात्यैः प्रबाधितः ।
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् ॥ १२.१०४.१ ॥

富を得られず、王と大臣に虐げられ、国庫と杖から退けられた正しき人は、幸福を望みながらどのように生きるべきか。

12.104.2

अत्रायं क्षेमदर्शीय इतिहासोऽनुगीयते ।
तत्तेऽह संप्रवक्ष्यामि तन्निबोध युधिष्ठिर ॥ १२.१०४.२ ॥

ここに「安穏を見る者」の物語が語られている。ユディシュティラよ、私はそれを余すところなく語ろう。よく理解せよ。

12.104.3

क्षेमदर्शी नृपसुतो यत्र क्षीणबलः पुरा ।
मुनिं कालकवृक्षीयमाजमामेति नः श्रुतम्।
तं पप्रच्छानुसंगृह्य कृच्छ्रामापदमास्थितः ॥ १२.१०४.३ ॥

我らは聞いている。かつて力を失った「安穏を見る者」という王子が、カーラカヴリクシーヤという聖者のもとへ行き、苦しい窮地に陥って彼にすがり、問うたという。

12.104.4

अर्थेषु मागी पुरुष ईहमानः पुनः पुनः ।
अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति ॥ १२.१०४.४ ॥

富を求めて幾度も努めても、私のように王国を得られぬ者は、ブラーフマナよ、どうすべきであろうか。

12.104.5

अन्यत्र मरणाद्दैन्यादन्यत्र परसंश्रयात् ।
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम ॥ १२.१०४.५ ॥

死と困窮と他人への依存と卑しい行いを除いて、善人の中の最も優れた者よ、それを私に告げよ。

12.104.6

व्याधिनां चाभिपन्नस्य मानसेनेतरेण वा ।
बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् ॥ १२.१०४.६ ॥

病や心の苦しみその他に襲われた者にとって、あなたのように多くを学び、知恵を極めた者こそが庇護となるべきである。

12.104.7

निर्विद्य हि नरः कामान्नियम्य सुखमेधते ।
त्वक्त्वा प्रीतिं च शोकं च लब्ध्वा बुद्धिमयं वसु ॥ १२.१०४.७ ॥

欲望に嫌気がさしてそれを抑える人は、幸福のうちに栄える。喜びと悲しみを捨て、知恵からなる財を得る。

12.104.8

सुखमर्थाश्रयं येषामनुशोचामि तानहम् ।
मम ह्यर्थाः सुबहवो नष्टाः स्वप्नगता इव ॥ १२.१०४.८ ॥

幸福が財産に依存している人々を私は憂えます。私の多くの財産は夢の中の出来事のように失われました。

12.104.9

दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये ।
वयं त्वेतान्परित्यक्तुमसतोऽपि न शक्नुमः ॥ १२.१०४.९ ॥

大いなる富を捨てる人々は実に困難なことを行う。しかし私たちは、実在しないこれらさえも捨てることができない。

12.104.10

इमामवस्थां संप्राप्तं दीनमार्तं श्रिया च्युतम् ।
यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम् ॥ १२.१०४.१० ॥

この状態に陥り、惨めで苦しみ、繁栄から落ちた私に、ブラフマンよ、ここにある他の幸福を教えてください。

12.104.11

कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता ।
मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः ॥ १२.१०४.११ ॥

賢明な王子カウシャルヤにこのように問われると、偉大な光輝を持つカーラカヴリクシーヤの聖者は答えた。

12.104.12

पुरस्तादेव ते बुद्धिरियं कार्या विजानतः ।
अनित्यं सर्वमेवैतदहं च मम चास्ति यत् ॥ १२.१०४.१२ ॥

このような理解を、あなたは前もって持つべきであった、知る者よ。これらすべては無常である——私も、私に属するものも。

12.104.13

यत्किंचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् ।
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः ॥ १२.१०४.१३ ॥

あなたが『ある』と思うものは、すべて『ない』と知れ。このように賢者は、過酷な災厄に遭っても苦しまない。

12.104.14

यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति ।
एवं विदितवेद्यस्त्वमनर्थेभ्यः प्रमोक्ष्यसे ॥ १२.१०४.१४ ॥

過去にあったもの、未来にあるものは、確かに永遠ではなく、続くこともない。このように知るべきことを知れば、あなたは禍から解放されるだろう。

12.104.15

ये च पूर्वसमारम्भा ये च पूर्वतरे परे ।
सर्वं नास्तीति ते चैव तज्ज्ञात्वा को नु संज्वरेत् ॥ १२.१०४.१५ ॥

過去の始まりも、それよりさらに前や後のものも、すべて存在しない。それを知ったなら、誰が悲しむだろうか。

12.104.16

भूत्वा च न भवत्येतदभूत्वा च भविष्यति ।
शोके न ह्यस्ति सामर्थ्यं शोचेत स कथं नरः ॥ १२.१०४.१६ ॥

これは存在してのちにもはや存在せず、存在しなかったものが存在しては、また存在するようになる。悲しみには何の力もない。ならば、その人はどうして悲しむだろうか。

12.104.17

क्वनु तेऽद्य पिता राजन्क्वनु तेऽद्य पितामहः ।
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि वा ॥ १२.१०४.१७ ॥

王よ、今日あなたの父はどこにいるのか。今日あなたの祖父はどこにいるのか。今日あなたは彼らを見ることはなく、彼らもあなたを見ることはないのだ。

12.104.18

आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि ।
बुद्ध्या चैवानुबुद्ध्यस्व ध्रुवं हि न च विद्यते ॥ १२.१०४.१८ ॥

自分自身の無常を見ているのに、なぜあなたは彼らのために悲しむのか。知性によって理解せよ。実に永遠なものは存在しないのだ。

12.104.19

अहं च त्वं च नृपते सुहृदः शत्रवश्च ते ।
अवश्यं न भविष्यामः सर्वं च न भविष्यति ॥ १२.१०४.१९ ॥

王よ、私も、あなたも、あなたの友も敵も——我々はみな必ず存在しなくなり、すべても存続しない。

12.104.20

ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः ।
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् ॥ १२.१०४.२० ॥

二十歳や三十歳の人々——彼らは皆、百の秋を迎える前に死ぬであろう。

12.104.21

अपि चेन्महतो वित्तान्न प्रमुच्यते पूरुषः ।
नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः ॥ १२.१०४.२१ ॥

たとえ人が大きな富から解放されなくても、「これは私のものではない」と考えて、自分にとって好ましいことをなすべきである。

12.104.22

अनागतं यन्न ममेति विद्या ।
दतिक्रान्तं यन्न ममेति विद्यात्।
दिष्टं बलीय इति मन्यमाना ।
स्ते पण्डितास्तत्सतां वृत्तिमाहुः ॥ १२.१०४.२२ ॥

まだ来ていないものは私のものではないと知るべきである。過ぎ去ったものも私のものではないと知るべきである。運命が強いと考えるその賢者たちは、それを善人のふるまいと呼ぶ。

12.104.23

अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते ।
बुद्धिपौरुषसंपन्नास्त्वया तुल्याधिका जनाः ॥ १२.१०४.२३ ॥

貧しい人々も生きており、王国を治めることさえある。知恵と男らしい努力を備えた人々は、あなたと同等か、あなたより優れている。

12.104.24

न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः ।
किं न त्वं तैर्नरैः श्रेयांस्तुल्यो वा बुद्धिपौरुषैः ॥ १२.१०४.२४ ॥

彼らはあなたのようには嘆かない。ゆえに、あなたも嘆いてはならない。あなたはあの人々より優れておらず、知恵と努力において彼らと等しくもないのか。

12.104.25

यादृच्छिकं सर्वमासीत्तद्राज्यमिति चिन्तये ।
ह्रियते सर्वमेवेदं कालेन महता द्विज ॥ १२.१०४.२५ ॥

あの王国すべては偶然にすぎなかったと私は思う。ああ再生者よ、これらすべては大いなる時によって運び去られているのだ。

12.104.26

तस्यैव ह्रियमाणस्य स्रोतसेव तपोधन ।
फलमेतत्प्रपश्यामि यथालब्धेन वर्तयन् ॥ १२.१०४.२६ ॥

苦行に富む者よ、流れに押し流されるように、奪われ去るその結果がこれだと私は見る。得られたものによって暮らしながら。

12.104.27

अनागतमतीतं च याथातथ्यविनिश्चयात् ।
नानुशोचेत कौसल्य सर्वार्थेषु तथा भव ॥ १२.१०४.२७ ॥

カウシャルヤよ、真実を確かに知ることによって、未来も過去も嘆くべきではない。すべてのことにおいてそのようであれ。

12.104.28

अवाप्यान्कामयन्नर्थान्नानवाप्यान्कदाचन ।
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ॥ १२.१०४.२८ ॥

得られるものを望み、決して得られないものは望まず。現在を味わい、未来のことを嘆いてはならない。

12.104.29

यथालब्धोपपन्नार्थैस्तथा कौसल्य रंस्यसे ।
कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि ॥ १२.१०४.२९ ॥

カウシャルヤよ、得られたもの、手に入ったものによって、お前は喜ぶであろう。清浄な性質で、栄えを失っても、嘆かないのか。

12.104.30

पुरस्ताद्भूतपूर्वत्वाद्धीनभोग्यो हि दुर्मतिः ।
धातारं गर्हते नित्यं लब्धार्थश्च न मृष्यते ॥ १२.१०४.३० ॥

以前に享受したことがあるため、享受を奪われた者は悪心の愚か者である。彼は常に創造主を責め、財を得た者もまた耐えられない。

12.104.31

अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान् ।
एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते ॥ १२.१०४.३१ ॥

彼は不適格な他人さえも富める人々より優れていると考える。そのためこの苦しみは何度もまた彼に戻ってくる。

12.104.32

ईर्ष्याभिमानसंपन्ना राजन्पुरुषमानिनः ।
कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप ॥ १२.१०४.३२ ॥

王よ、嫉妬と傲慢に満ち、自らを一人前の男と思う者がいる。賢者よ、コーサラの主よ、お前もそうではないか。お前は嫉妬深くないのか。

12.104.33

सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा ।
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते नराः।
अभिनिष्यन्दते देही श्रीभूतश्च द्विषज्जनात् ॥ १२.१०४.३३ ॥

たとえお前に無くとも、他人の繁栄を耐え忍べ。有能な人々は、他の所にある富さえも享受する。富となった具現者は、敵対する人々からさえも流れ出る。

12.104.34

श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः ।
त्यागधर्मविदो धीराः स्वयमेव त्यजन्त्युत ॥ १२.१०४.३४ ॥

法を行う人々、捨離の法を知る堅固な人々は、富や息子・孫さえも自ら捨てる。

12.104.35

त्यक्तं स्वायंभुवे वंशे शुभेन भरतेन च ।
नानारत्नसमाकीर्णं राज्यं स्फीतमिति श्रुतम् ॥ १२.१०४.३५ ॥

スヴァーヤンブヴァの系譜では、高潔なバラタもまた、多くの宝玉に満ちた栄えた王国を捨てたと伝えられる。

12.104.36

तथाऽन्यैर्भूमिपालैश्च त्यक्तं राज्यं महोदयम् ।
त्यक्त्वा राज्यानि ते सर्वे वने वन्यफलाशिनः।
गताश्च तपसः पारं दुःखस्यान्तं च भूमिपा ॥ १२.१०४.३६ ॥

同様に、他の王たちも大きな繁栄を誇る王国を捨てた。王国を捨てて彼らは皆、森へ行き野の果実を食べ、苦行の彼岸と苦しみの終わりに到達した。

12.104.37

बहुसंकुसुकं दृष्ट्वा विधित्सासाधनेन च ।
तथान्ये संत्यजन्त्येव मत्वा परमदुर्लभम् ॥ १२.१०४.३७ ॥

多くの棘に満ちているのを見て、行為への欲望という手段によって、他の人々もそれを捨て去る。それを極めて得難いものと考えて。

12.104.38

त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे ।
अकाम्यान्कामयानोऽर्थान्पराधीनानुपद्रवान् ॥ १२.१०४.३८ ॥

あなたは賢者の姿をしていながら、また哀れにも自ら苦しんでいる。望むべきでない、他に依存し、災いをもたらすものを欲して。

12.104.39

तां बुद्धिमनुविज्ञाय त्वमेवैनान्परित्यज ।
अनर्थाश्चार्थरूपेण ह्यर्थाश्चानर्थरूपिणः ॥ १२.१०४.३९ ॥

その知性を十分に理解して、あなた自身がこれらを捨てよ。害悪は利益の姿で現れ、利益もまた害悪の姿を持つのだから。

12.104.40

अर्थायैव हि केषांचिद्धननाशा भवन्त्युत ।
अनित्यं तत्सुखं मत्वा श्रियमन्ये न लिप्सते ॥ १२.१०४.४० ॥

ある人々にとっては、富の喪失はまさに富のために起こる。その幸福を無常と考え、他の人々は繁栄を求めない。

12.104.41

रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते ।
तथा तस्येहमानस्य संरम्भोऽपि विनश्यति ॥ १२.१०४.४१ ॥

富に喜びを見出す者は、他のものを善いとは思わない。そしてそれを追い求める者の熱意もまた滅びるのだ。

12.104.42

कृच्छ्राल्लब्धमभिप्रेतं यथा कौसल्य नश्यति ।
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः ॥ १२.१०४.४२ ॥

カウシャリヤよ、苦労して得た望みのものが失われると、道を断たれたその人は、その富に嫌気がさすのだ。

12.104.43

अनित्यां तां श्रियं मत्वा श्रियं वा कः परीप्सति ॥ १२.१०४.४३ ॥

その富が無常であると知って、誰が富を求めるだろうか。

12.104.44

धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः ।
परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात् ॥ १२.१०४.४४ ॥

良き家柄の人々の中には、来世の幸福を望んでダルマに帰依し、世俗から離れる者もいる。

12.104.45

जीवितं संत्यजन्त्येके धनलोभपरा नराः ।
न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते ॥ १२.१०४.४५ ॥

富への貪欲に囚われた者の中には、命さえ捨てる者がいる。人は実に、富なしには生きる価値を認めないのだ。

12.104.46

पश्य चैषां कृपणतां पश्य चैषामबुद्धिताम् ।
अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः ॥ १२.१०४.४६ ॥

彼らの貧しい心を見よ、彼らの愚かさを見よ。不安定な命において、迷いによって彼らは富への渇望に身を寄せている。

12.104.47

संचये च विनाशान्ते मरणान्ते च जीविते ।
संयोगे च वियोगान्ते कोनु विप्रणयेन्मनः ॥ १२.१०४.४७ ॥

蓄えの終わりは破滅、生命の終わりは死、結合の終わりは別離である。ならば誰がそれから心を離さずにいられようか。

12.104.48

धनं वा पुरुषो राजन्पुरुषं वा पुनर्धनम् ।
अवश्यं प्रजहात्येव तद्विद्वान्कोनु संज्वरेत् ॥ १२.१०४.४८ ॥

王よ、富は必ず人を見捨て、あるいは人が富を見捨てる。それを知る賢者が、どうして苦悩に焼かれるだろうか。

12.104.49

अन्यत्रोपनता ह्यापत्पुरुषं तोषयत्युत ।
तेन शान्तिं न लभते नाहमेवेति कारणात् ॥ १२.१०४.४९ ॥

他所から来た災いは人を喜ばせるが、それによって人は安らぎを得ない。『それは私ではない』という理由で。

12.104.50

अन्येषामपि नश्यन्ति सुहृदश्च धनानि च ।
पश्य बुद्ध्या मनुष्याणां तुल्यामापदमात्मनः।
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनस्तथा ॥ १२.१०४.५० ॥

他人の友や財産も滅びる。知恵で見よ、人々の災いは君自身の災いと同じだと。感覚器官を抑え、制し、完全に統御せよ。心もまた同様に。

12.104.51

प्रतिषेद्धा न चाप्येषु दुर्बलेष्वहितेषु च ॥ १२.१०४.५१ ॥

君はこれらの者や弱き者、敵意ある者に抗う者でもない。

12.104.52

प्राप्तिसृष्टेषु भावेषु व्यपकृष्टेष्वसंभवे ।
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति ॥ १२.१०४.५२ ॥

得たもの、与えられたもの、奪われたもの、不可能なことにおいて、知によって満たされた勇者は、君のような者は悲しまない。

12.104.53

अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंस्थितः ।
ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति ॥ १२.१०४.५३ ॥

少欲で動揺せず、穏やかで自制し、よく確立され、梵行を備えた君のような者は決して迷わない。

12.104.54

न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ।
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् ॥ १२.१०४.५४ ॥

しかし君は、卑しく頭蓋を持つ者のような生計を求めてはならない。残酷で極めて罪深く、苦しく、臆病者にふさわしいものを。

12.104.55

अपि मूलफलाहारो रमस्वैको महावने ।
वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः ॥ १२.१०४.५५ ॥

根や果実を食べて、大森林で独り楽しめ。言葉を慎み、自己を抑え、あらゆる生き物への慈悲を備えて。

12.104.56

सदृशं पण्डितस्यैतदीषादन्तेन हस्तिना ।
यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति ॥ १२.१०४.५६ ॥

これは賢者にふさわしい。鋤の柄のような牙を持つ象のように、森で独り楽しみ、わずかなものにも満足すること。

12.104.57

महाह्रदः संक्षुभित आत्मनैव प्रसीदति ।
एवं नरः स्वत्मानैव कृतप्रज्ञः प्रसीदति ॥ १२.१०४.५७ ॥

大きな湖は波立っても自ずと静まる。同じく、智慧の定まった人は自分自身によって静まる。

12.104.58

एतदेवं गतस्याहं सुखं पश्यामि केवलम् ।
असंभवे श्रियो राजन्हीनस्य सचिवादिभिः।
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् ॥ १२.१०४.५८ ॥

このような境遇に至った私には、ただ幸福しか見えない。王よ、富を失い、大臣などを欠き、運命が敵対するとき、あなたは何が善いと考えますか。