Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.107

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.107.1

ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
धर्मवृत्तं च वित्तं च वृत्त्युपायाः फलानि च ॥ १२.१०७.१ ॥

啊,降伏敌人者!婆罗门、刹帝利、吠舍与首陀罗遵循法的行为,财富,生计的途径,以及它们的成果。

12.107.2

राज्ञां वृत्तं च कोशं च कोशसंचयनं जयः ।
अमात्यगुणवृत्तिश्च प्रकृतीनां च वर्धनम् ॥ १२.१०७.२ ॥

君王的行为、国库、国库的积累、胜利、大臣的品德与行为,以及臣民的增长。

12.107.3

षाङ्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च ।
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् ॥ १२.१०७.३ ॥

六策的安排,军队的策略,对恶人的完全认知,以及善人的特征。

12.107.4

समहीनाधिकानां च यथावल्लक्षणं च यत् ।
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता ॥ १२.१०७.४ ॥

平等者、低下者与高等者的正确特征,以及希望兴盛者应如何立身,以使中等之人满意。

12.107.5

क्षीणग्रहणवृत्तिश्च यथा धर्मं प्रकीर्तितम् ।
लघुनाऽदेशरूपेण ग्रन्थयोगेन भारत ॥ १२.१०७.५ ॥

如法所宣说的、在衰落时接受之行为;婆罗多之子啊,简要地、以不受地域束缚的形式,依经典之相连而说。

12.107.6

विजिगीषोस्तथा वृत्तमुक्तं चैव तथैव ते ।
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ॥ १२.१०७.६ ॥

您已讲述了求胜者的行为,也是如此。啊,智者中的最优者!我愿听闻诸部族(共和体)的行为。

12.107.7

यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत ।
अरींश्च विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ॥ १२.१०७.७ ॥

婆罗多之子啊,诸部族如何兴盛而不分裂,如何谋求战胜敌人,又如何获得盟友?

12.107.8

भेदमूलो विनाशो हि गणानामुपलक्षये ।
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः ॥ १२.१०७.८ ॥

我认为,诸部族的覆灭根源在于分裂;对众人而言,保守秘密十分困难,这便是我的看法。

12.107.9

एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप ।
यथा च ते न भिद्येरंस्तच्च मे वद भारत ॥ १२.१०७.९ ॥

灭敌者啊,我想完整听闻:他们如何才能不致分裂。婆罗多之子啊,请告诉我。

12.107.10

गणानां च कुलानां च राज्ञां भरतसत्तम ।
वैरसंदीपनावेतौ लोभामर्षौ नराधिप ॥ १२.१०७.१० ॥

婆罗多中最优秀者啊,诸部族、诸氏族与诸王之间煽起敌意的,正是这两者——贪欲与愤恨,人主啊。

12.107.11

लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् ।
ततो ह्यमर्षसंयुक्तावन्योन्यजनिताशयौ ॥ १२.१०७.११ ॥

一方先生出贪欲,随后生出愤恨;继而二者结合于愤恨,彼此相生其心志。

12.107.12

चारमन्त्रबलादानैः सामदानविभेदनैः ।
क्षयव्ययभयोपायैः प्रकर्षन्तीतरेतरम् ॥ १२.१०७.१२ ॥

借助间谍、谋略之力、赠礼、安抚、赠予与离间,以及损失、耗费与恐惧等手段,他们彼此相互牵制。

12.107.13

तत्रादानेन भिद्यन्ते गणाः संघातवृत्तयः ।
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् ॥ १२.१०७.१३ ॥

在那里,因贿赂之故,依凝聚而生的群体分裂。分裂而心志低落者,皆因恐惧而落入敌人之手。

12.107.14

भेदे गणा विनश्युर्हि भिन्नास्तु सुजयाः परैः ।
तस्मात्संघातयोगेन प्रयतेरन्गणाः सदा ॥ १२.१०७.१४ ॥

分裂之时,群体便会灭亡,因为被分割者容易被敌人征服。因此,群体应当始终凭借团结之力而努力。

12.107.15

अर्थाश्चैवाधिगम्यन्ते संघातबलपौरुषैः ।
ब्राह्माश्च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु ॥ १२.१०७.१५ ॥

凭借团结的力量与勇气,目标得以达成;婆罗门也与依凝聚而生者结为友谊。

12.107.16

ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम् ।
विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः ॥ १२.१०७.१६ ॥

精通智慧的长者赞扬他们,彼此互相服侍;摒弃了欺诈的谋划,他们在各方面都享受安乐并繁荣。

12.107.17

धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः ।
यथावत्प्रतिपश्यन्तो विवर्धन्ते गणोत्तमाः ॥ १२.१०७.१७ ॥

依照经典建立合乎正法的事务,并如法审察,最优秀的群体便得以增长。

12.107.18

पुत्रान्भ्रातृन्निगृह्णन्तो विनयन्तश्च तान्सदा ।
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ॥ १२.१०७.१८ ॥

约束子侄与兄弟,时常训导他们以谦逊,并尊敬谦逊之人,最优秀的群体便得以增长。

12.107.19

चारमन्त्रविधानेषु कोशसंनिचयेषु च ।
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः ॥ १२.१०७.१९ ॥

大臂者啊,始终专注于间谍与议事的安排以及库藏积聚的诸众,四方皆得兴盛。

12.107.20

प्राज्ञांश्चारान्महोत्साहान्कर्मसु स्थिरपौरुषान् ।
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ॥ १२.१०७.२० ॥

君王啊,始终尊重有智慧、极有干劲、在事务中坚定有魄力的间谍,并专心于此的诸众,便得兴盛。

12.107.21

द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः ।
कृच्छ्रास्वापत्सु संमूढान्गणाः संतारयन्ति ते ॥ १२.१०७.२१ ॥

富有、勇敢、精通兵器、通达典籍者,能在困厄和灾难中,将迷惑的诸众渡过险境。

12.107.22

क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः ।
नयत्यरिवशं सद्यो गणान्भरतसत्तम ॥ १२.१०७.२२ ॥

婆罗多中最优秀者啊,愤怒、离间、恐惧、刑罚、强制、镇压与杀戮,立即使诸众落入敌人的掌控。

12.107.23

तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः ।
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ॥ १२.१०७.२३ ॥

因此应当首先尊敬那些诸众的首领,君王啊,世间的运转大多依赖于他们。

12.107.24

मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शण ।
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ॥ १२.१०७.२४ ॥

在首领之间保守议事机密并设置间谍,灭敌者啊,婆罗多啊,诸众并不配完整地听闻全部的谋议。

12.107.25

गणमुख्यैस्तु संभूय कार्यं गणहितं मिथः ॥ १२.१०७.२५ ॥

诸众首领应当聚集一处,相互商议,行利于众之事。

12.107.26

पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा ।
अर्थाः प्रत्यवसीदन्ति तथाऽनर्था भवन्ति व ॥ १२.१०७.२६ ॥

若众已分离、分裂或散乱,则情况相反:其所求之事皆败落,诸般灾祸亦随之而生。

12.107.27

तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् ।
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ॥ १२.१०७.२७ ॥

彼此分离、各自施展其力者,智者应迅速并首先加以制止。

12.107.28

कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः ।
गोत्रस्य नाशं कुर्वन्ति गणभेदस्य कारकम् ॥ १२.१०७.२८ ॥

家族中所生的争端,若被族中长者忽视,便会毁灭宗族,并成为众人分裂的根源。

12.107.29

आभ्यन्तरं भयं रक्ष्यमसारं बाह्यतो भयम् ।
आभ्यन्तरं भयं राजन्सद्यो मूलानि कृन्तति ॥ १२.१०७.२९ ॥

内部之险当须防守,外患则虚而无实。大王,内患会立即斩断根本。

12.107.30

अकस्मात्क्रोधमोहाभ्यां लोभाद्वाऽपि स्वभावजात् ।
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ॥ १२.१०७.३० ॥

若因忽然的愤怒与迷惑,或因贪欲,或生于其本性,彼此不相言语,这便是败亡的征兆。

12.107.31

जात्या च सदृशाः सर्वे कुलेन सदृशास्तथ ।
न चोद्योगेन बुद्ध्या वा रूपद्रव्येण वा पुनः ॥ १२.१०७.३१ ॥

众人出身与家族皆相同,然而凭努力、智慧、容貌或财富,他们便不再相同。

12.107.32

भेदाच्चैव प्रदानाच्च नाम्यन्ते रिपुभिर्गणाः ।
तस्मात्संघातमेवाहुर्गणानां शरणं महत् ॥ १२.१०७.३२ ॥

因离间与贿赂,众会为敌人所屈服;因此人们说,团结才是众会的大靠山。