Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.108

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.108.1

महानयं धर्मपथो बहुशाखश्च भारत ।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥ १२.१०८.१ ॥

婆罗多啊,这条法道广大,枝节众多。在诸法之中,你认为此处最应当奉行的是哪一项?

12.108.2

किं कार्यं सर्वभूतानां गरीयो भवतो मतम् ।
यथाऽहं परमं धर्ममिह च प्रेत्य चाप्नुयाम् ॥ १२.१०८.२ ॥

在你看来,对一切众生而言,何种职责最为重大,使我能在此世与死后获得至上之法?

12.108.3

मातापित्रोर्गुरूणां च पूजा बहुमता मम ।
अत्र वर्तन्नरो लोकान्यशश्च महदश्नुते ॥ १२.१०८.३ ॥

依我看,敬奉母亲、父亲与师长最为可贵。人在此世如此奉行,便能获得诸界与大名。

12.108.4

यदेते ह्यनुजानीयुः कर्म तात सुपूजिताः ।
धर्मं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर ॥ १२.१०८.४ ॥

若这些受尊敬的长辈允许某事,我的儿子坚战,那么此事便应当去做,无论它合乎法还是违背法。

12.108.5

न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत् ।
यं मे तेऽभ्यनुजानीयुः स धर्म इति निश्चयः ॥ १२.१०८.५ ॥

未经他们允许,不应另行奉行他法。他们允许我去做的事,便是法——这是定论。

12.108.6

एत एव त्रयो लोका एत एवाश्रमास्त्रयः ।
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः ॥ १२.१०८.६ ॥

这三者即是三界,这三者即是三种生活阶段,这三者即是三吠陀,这三者即是三种圣火。

12.108.7

पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः ।
गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी ॥ १२.१०८.७ ॥

父亲是家火(gārhapatya),母亲被称为南火(dakṣiṇa);老师是供火(āhavanīya),而那三火合一的特烈塔火(Tretā)最为尊贵。

12.108.8

त्रिष्वप्रमाद्यन्नेतेषु त्रील्लोँकानपि जेष्यसि ।
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथा परम् ॥ १२.१०८.८ ॥

对这三者保持警觉,你便能征服三界:以对父亲的行为赢得此世,以对母亲的行为同样赢得彼世。

12.108.9

ब्रह्मलोकं गुरोर्वृत्त्या नियमेन तरिष्यसि ।
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत ॥ १२.१०८.९ ॥

凭借对老师的品行与持戒,你将抵达梵天界。婆罗多后裔啊,对这些人应当行为端正,在这三界之中。

12.108.10

यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् ।
नैतानतिशयीथास्त्वं नात्यश्नीथा न दूषयेः ॥ १२.१०८.१० ॥

你将获得名声,愿你吉祥,并获得极大果报的法。不要逾越这些,不要过度享受,也不要玷污它们。

12.108.11

नित्यं परिचरेश्चैव तद्वै सुकृतमुत्तमम् ।
कीर्ति पुण्यं यशो लोकान्प्राप्स्यसे त्वं जनाधिप ॥ १२.१०८.११ ॥

应当常常侍奉他们,那便是最上的善行。人主啊,你将获得名声、功德、荣耀与诸世界。

12.108.12

सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ १२.१०८.१२ ॥

对于尊敬这三者的人,一切世界都受尊敬;而对于轻慢这三者的人,他的一切行为都无果报。

12.108.13

न चायं न परो लोको न यशस्तस्य भारत ।
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः ॥ १२.१०८.१३ ॥

婆罗多啊,凡三位师长常受轻慢者,既无此世,亦无彼世,也无名声。

12.108.14

न चास्मिन्न परे लोके यशस्तस्य प्रकाशते ।
यच्चान्यदपि कल्याणं पारत्रं समुदाहृतम् ॥ १२.१०८.१४ ॥

他的名声在此世与彼世皆不显耀;所谓彼世的其他吉祥之善,也不属于他。

12.108.15

तेभ्य एव हि यत्सर्वं कृत्यं यन्निसृजाम्यहम् ।
तदासीन्मे शतगुणं सहस्रगुणमेव च।
तस्मान्मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर ॥ १२.१०८.१५ ॥

凡我所行之职责,皆为他们而作,其果报于我成百倍、千倍。因此,尤提斯提拉啊,三界为我而光明。

12.108.16

दशैव तु सदाऽऽचार्यः श्रोत्रियानधितिष्ठति ।
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ॥ १२.१०८.१६ ॥

阿阇梨(师)胜过十位精通吠陀的婆罗门;优婆陀耶(教师)胜过十位阿阇梨;父亲胜过十位优婆陀耶。

12.108.17

पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि ।
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः ॥ १२.१०८.१७ ॥

一位母亲胜过十位父亲;以尊崇之重,她甚至超过整个大地;没有与母亲相等的老师。

12.108.18

गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः ।
उभौ हि मातापितरौ जन्मन्येवोपयुज्यतः ॥ १२.१०८.१८ ॥

我的看法是:师长比父亲和母亲都更为重要;因为父母二人只在出生时有用。

12.108.19

शरीरमेतौ सृजतः पिता माता च भारत ।
आचार्यशिष्टा या जातिः सासम्यगजरामरा ॥ १२.१०८.१९ ॥

婆罗多之子啊,父母共同创造了身体;而由老师所教导的新生,才真正不老不死。

12.108.20

अवध्या हि सदा माता पिता चाप्युपचारिणौ ॥ १२.१०८.२० ॥

母亲永远不可伤害,父亲亦然;二者都值得侍奉。

12.108.21

न स दुष्यति तत्कृत्वा न च ते दूषयन्ति तम् ।
धर्माय यतमानानां विदुर्देवाः सहर्षिभिः ॥ १२.१०८.२१ ॥

做了这事,他不会被玷污,他们也不会玷污他;为法而努力者,诸神与仙人都知道。

12.108.22

य आवृणोत्यवितथेन कर्मणा ।
ऋतं ब्रुवन्नमृतं संप्रयच्छन्।
तं मन्येथाः पितरं मातरं च ।
तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ १२.१०८.२२ ॥

凡以真实之行养育你、说真实之言、赐予甘露者,你应视之如父母;知其所为之恩,不可背叛他。

12.108.23

स्तथैव तेषां गुरवोऽभ्यर्चनीयाः ॥ १२.१०८.२३ ॥

同样,他们的老师也应当受到尊敬。

12.108.24

तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः ।
गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता ॥ १२.१०८.२४ ॥

因此,应当尊敬老师,并用心分享所有;欲求古法者,应当敬奉其师。

12.108.25

येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः ।
प्रीणाति जननीयेन पृथिवी तेन पूजिता ॥ १२.१०८.२५ ॥

以此使祖先欢喜,则生主欢喜;以此使母亲欢喜,则大地受到尊敬。

12.108.26

येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम् ।
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः ॥ १२.१०८.२६ ॥

以此使师长欢喜,则梵(吠陀)受到尊敬。无论母系还是父系;因此上师最为可敬。

12.108.27

ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह ।
पूज्यमानेषु गुरुषु तस्मात्पूज्यतमो गुरुः ॥ १२.१०८.२७ ॥

当师长受到尊敬时,诸仙与诸神与祖先一同欢喜。因此上师最为可敬。

12.108.28

केनचिन्न च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् ।
न च माता न च पितो तादृशो यादृशो गुरुः ॥ १२.१०८.२८ ॥

无论何种行为,都不可轻视师长;母亲与父亲都不如师长那样。

12.108.29

न तेऽवमानमर्हन्ति न तेषां दूषयेत्कृतम् ।
गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः ॥ १२.१०८.२९ ॥

他们不应受到轻蔑,也不应诋毁其所作所为;诸神与诸仙都知道,师长应当受到敬重。

12.108.30

उपाध्यायं पितरं मातरं च ।
ये विद्रुह्यन्ते मनसा कर्मणा वा।
तेषां पापं भ्रूणहत्याविशिष्टं ।
तस्मान्नान्यः पापकृदस्ति लोके ॥ १२.१०८.३० ॥

无论以心念还是行为背叛师长、父亲或母亲的人,其罪比杀害胎儿更重;因此世上没有比他们更大的罪人。

12.108.31

भृतो भर्तारं यो न विभिर्ति पुत्रः ।
स्वयोनिजः पितरं मातरं च।
तस्य पापं भ्रूणहत्याविषिष्टं ।
तस्मान्नान्यः पापकृदस्ति लोके ॥ १२.१०८.३१ ॥

若子不奉养供养自己的人,不奉养由自己所生的父亲与母亲,其罪过超过杀害胎儿之罪;因此世间没有比他更大的作恶者。

12.108.32

मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च ।
चतुर्णामपि चैतेषां निष्कृतिं नानुशुश्रुम् ॥ १२.१०८.३२ ॥

对于背叛朋友者、忘恩负义者、杀害女人者和谗言者这四种人,我们也未曾听说有任何赎罪之法。

12.108.33

एतत्सर्वं मनुनिर्देशदृष्टं ।
यत्कर्तव्यं पुरुषेणेह किंचित्।
एतच्छ्रेयो नान्यदस्माद्विशिष्टं ।
सर्वान्धर्माननुसृत्यैतदुक्तम् ॥ १२.१०८.३३ ॥

这一切都见于摩奴的教导。人在世间应当做的事,这便是最善的;没有比这更殊胜的。遵循一切法之后,才说了这些。