Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.12.1

अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् ।
राजानमभिसंप्रेक्ष्य सर्वधर्मभृतां वरम् ॥ १२.१२.१ ॥

那罗因听到阿周那的话,望着国王——诸持法者中最杰出的人——说了这番话。

12.12.2

अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदम ।
व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता ॥ १२.१२.२ ॥

降伏敌人者啊!那位大智者顺从兄长之意,胸膛宽阔,臂膀有力,面色赤红,言语谨慎。

12.12.3

विशाखयूपे देवानां सर्वेषामग्नयश्चिताः ।
तस्माद्विद्वि महाराज देवाः कर्मफले स्थिताः ॥ १२.१२.३ ॥

在毗舍佉祭柱上,为诸神都点燃了火。因此,大王,应当知道,诸神安住于业的果报之中。

12.12.4

अनास्तिकानां भूतानां प्राणदाः पितरश्च ये ।
तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव ॥ १२.१२.४ ॥

即使是那些赐予信仰者生命的祖先,也只是行动。国王啊,请看这条法则。

12.12.5

वेदवादापविद्धास्तु तान्विद्धि भृशनास्तिकान् ।
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु ॥ १२.१२.५ ॥

应当知道,那些被吠陀教义所摒弃的人是彻底的无信者。因为婆罗门舍弃吠陀所说,便不会参与一切仪式。

12.12.6

देवयानेन नाकस्य पृष्ठमाप्नोति भारत ।
अत्याश्रमानयं सर्वानित्याहुर्वेदमिश्चयाः ॥ १२.१२.६ ॥

婆罗多之后啊,人借天神之道抵达天界的顶端。这超越一切生命阶段,依吠陀者如是说。

12.12.7

ब्राह्मणाः श्रुतिसंपन्नास्तान्निबोध नराधिप ।
वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् ॥ १२.१२.७ ॥

人王啊,请听那些精通吠陀(闻)的婆罗门。他们将依法所得的财富献于主要的祭祀之中。

12.12.8

कृतात्मा स महाराज स वै त्यागी स्मृतो नरः ॥ १२.१२.८ ॥

大王啊,那位自我已被调伏的人,确实被称为舍弃者。

12.12.9

अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः ।
आत्मत्यागी महाराज स त्यागी तापसो मतः ॥ १२.१२.९ ॥

不顾及获取快乐,同样安立于高处,大王啊,那舍弃自我的人被认为是舍弃者与苦行者。

12.12.10

अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः ।
अयाचकः सदायोगी स त्यागी पार्थ भिक्षुकः ॥ १२.१२.१० ॥

无家可归、四处游方、依于树根而住、不乞求、常常专注于瑜伽的牟尼,他,阿周那啊,才是舍弃者和乞士。

12.12.11

क्रोधहर्षावनादृत्य पैशुन्यं च विशेषतः ।
विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ॥ १२.१२.११ ॥

婆罗门若摒弃愤怒与喜悦,尤其戒除诽谤,而诵习吠陀,他便是舍弃者,也是尊敬师长者。

12.12.12

आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः ।
एकतश्च त्रयो राजन्गृहस्थाश्रम एकतः ॥ १२.१२.१२ ॥

智者说,诸行住期如置于秤上而被称量。大王啊,三者在一边,而居家期在另一边。

12.12.13

समीक्ष्य तुलया पार्थ कामं स्वर्गं च भारत ।
अयं पन्था महर्षीणाप्रियं लोकविदां गतिः ॥ १२.१२.१३ ॥

普利塔之子啊,婆罗多啊,把欲望与天界放在天平上衡量:这是大仙人之道,对知晓世界者来说不悦,却是他们的归宿。

12.12.14

इति यः कुरुते भावं स त्यागी भरतर्षभ ।
नरः परित्यज्य गृहान्वनमेति विमूढवत् ॥ १२.१२.१४ ॥

持有这种心态的人,婆罗多中的雄牛啊,才是舍弃者。那离家入林、如愚人一般的人则不是。

12.12.15

यदा कामान्समीक्षेत धर्मवैतंसिको नरः ।
अथैनं मृत्युपाशेन कण्ठे बध्नाति सृत्युराट् ॥ १२.१२.१५ ॥

当人以法为饰而考量欲望时,死亡之王便用死亡之索缚住他的脖颈。

12.12.16

अभिमानकृतं कर्म नैतत्फलवदुच्यते ।
त्यागयुक्तं महाराज सर्वमेव महाफलम् ॥ १२.१२.१६ ॥

出于傲慢所作之业,不被称为有果报。大王啊,凡与舍弃相应者,皆结大果。

12.12.17

शमो दमस्तथा धैर्यं सत्यं शौचमथार्जवम् ।
यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ॥ १२.१२.१७ ॥

寂静、克制、坚忍、真实、清净与正直,祭祀、坚定与法——这些向来被视为仙人的常规。

12.12.18

पितृदेवातिथिकृते समारम्भोऽत्र शस्यते ।
अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ॥ १२.१२.१८ ॥

为祖先、诸神与客人所作的事业在此受到称赞。大王啊,此处的三果正是唯一的果报。

12.12.19

एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते ।
त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ॥ १२.१२.१९ ॥

对于遵循婆罗门所奉行之法、在此舍弃并广布其行的人,永无败亡。

12.12.20

असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः ।
मां यक्ष्यन्तीति धर्मात्मा यज्ञैर्विविधदक्षिणैः ॥ १२.१२.२० ॥

王啊,无垢的生主创造众生,这位法魂想道:"他们将以多种布施的祭祀供奉我。"

12.12.21

वीरुधश्चैव वृक्षांश्च यज्ञार्थं वै तथौषधीः ।
पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ॥ १२.१२.२१ ॥

藤蔓与树木,专为祭祀的草药,牲畜与可供祭祀的洁净之物,以及用于祭祀的供品,也都如此被创造。

12.12.22

गृहस्थाश्रमिणस्तच्च यज्ञकर्माविरोधितम् ।
तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ॥ १२.१२.२२ ॥

对于居家者,那并不违背祭祀之仪轨;因此在此世间,居家生活本身便艰难而罕见。

12.12.23

तत्संप्राप्य गृहस्था ये पशुधान्यधनान्विताः ।
न यजन्ते महाराज शाश्वतं तेषु किल्विषम् ॥ १२.१२.२३ ॥

大王啊,那些已得此境、拥有牲畜、粮食与财富却不行祭祀的居家者,身上便承受着永久的罪过。

12.12.24

स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथा परे ।
अथापरे महायज्ञान्मनस्येव वितन्वते ॥ १२.१२.२४ ॥

诸仙以诵习为祭,另一些人以智慧为祭;还有人则只在心中展开大祭。

12.12.25

इदमन्यन्महाराज विद्वद्भिः कथितं मम ।
भूमिरग्निश्च वायुश्च न चापो न दिवाकरः ॥ १२.१२.२५ ॥

大王,智者又对我说:没有大地,没有火,没有风,没有水,也没有太阳。

12.12.26

नक्षत्राणि न चन्द्रश्च न दिशः काल एव च ।
शब्दः स्पर्शश्च रूपं च न गन्धो न रसः क्वचित् ॥ १२.१२.२६ ॥

没有星辰,没有月亮,没有方向,甚至没有时间;没有声音,没有触觉,没有形状;没有气味,也没有任何味道。

12.12.27

न च सन्ति प्रमाणानि यैः प्रमेयं प्रसाध्यते ।
प्रत्यक्षमनुमानं न नोपमानमथागमः ॥ १२.१२.२७ ॥

也没有能够确立所知对象的正确认识手段:既无现量,也无比量,无譬喻,亦无圣教。

12.12.28

नार्थापत्तिर्न चैतिह्यं न दृष्टान्तो न संशयः ।
न क्वचिन्निर्णयो राजन्न धर्माधर्म एव च ॥ १२.१२.२८ ॥

既无义准,亦无传说;无譬喻,亦无疑惑;无处有定论,大王,亦无法与非法。

12.12.29

तिर्यक्व स्थावरं चैव न देवा न च मानुषाः ।
वर्णाश्रमविभागाश्च न च कर्ता न कामकृत्।
न चार्थश्च विभूतिश्च न चार्थस्य विचेष्टितम् ॥ १२.१२.२९ ॥

既无走兽,亦无草木;无神,亦无人;无种姓与生活阶段之分;无作者,无随欲者;无财富,无威仪,亦无求财之事。

12.12.30

तमोभूतमिदं सर्वमनालोकं जगन्नृप ।
न चात्मा विद्यमानोपि मनसा योगमिच्छति ॥ १२.१२.३० ॥

大王,这整个世界已化为黑暗,没有光明;虽然自我存在,却不以心意求取瑜伽。

12.12.31

अचेतनं मनस्त्वासीदात्मा एव सचेतनः ।
ईश्वरश्चेतनस्त्वेकस्तेनेदं गहनीकृतम्।
मन्त्राश्च चेतना राजन्न च देहेन योजिताः ॥ १२.१२.३१ ॥

心是无知觉的,只有自我(ātman)有知觉。唯一的主宰有知觉,世界因他而变得深奥。国王啊,咒语也是有知觉的,但它们并未与身体相连。

12.12.32

तेन विश्वसृजो नाम ऋषयो मन्त्रदेवताः ।
चैतन्यमीश्वरात्प्राप्य ब्रह्माण्डं तैर्विनिर्मितम् ॥ १२.१२.३२ ॥

由他而生出名为毗首娑利季的仙人与咒语之神。他们从主宰处获得知觉后,宇宙卵便由他们所造。

12.12.33

इष्ट्वा विश्वसृजं यज्ञं निर्मितः प्रपितामहः ।
सृष्टिस्तेन समारब्धा प्रसादादीश्वरस्य च ॥ १२.१२.३३ ॥

举行了世界创造者的祭祀之后,曾祖父(梵天)被造出。依主宰的恩典,创造由他开始。

12.12.34

चैतन्यमीश्वरस्येदं सचेतनमिदं जगत् ।
योगेन च समाविष्टं जगत्कृत्स्नं च शंभुना ॥ १२.१२.३४ ॥

这有知觉的世界源于主宰的知觉。通过瑜伽,并由湿婆(Śambhu),整个世界得以遍布。

12.12.35

धर्मश्चार्थश्च कामश्च उक्तो मोक्षश्च संक्षये ।
ब्रह्मणः परमेशस्य ईश्वरेण यदृच्छया ॥ १२.१२.३५ ॥

法、利、欲被宣说,劫末时则有解脱。梵天之上的至尊主宰,随其意愿而如此宣说。

12.12.36

अज्ञो जन्तुरनीशश्च भाजनं सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ १२.१२.३६ ॥

无知而无力、承受苦乐的众生,被主宰驱使,或往天界,或入地狱深渊。

12.12.37

प्रधानं पुरुषः चैव आत्मानं सर्वदेहिनाम् ।
मनसा विषयैश्चैव चेतनेन प्रचोदिताः।
सुखदुःखेन युज्यन्ते कर्मभिश्च प्रचोदिताः ॥ १२.१२.३७ ॥

原质与神我,以及一切有身者的自我,被意、诸境与觉知所驱动,便与苦乐相连;也被业所驱动。

12.12.38

वर्णाश्रमविभागाश्च ईश्वरेण प्रवर्तिताः ।
सदेवासुरगन्धर्वं येनेदं निर्मितं जगत् ॥ १२.१२.३८ ॥

种姓与四行期的区分,由主所确立;由他创造了这个包括天神、阿修罗与乾闼婆在内的世界。

12.12.39

त्वं चान्ये च महाराज ईश्वरस्य वशे स्थिताः ।
जीवन्ते च म्रियन्ते च न स्वतन्त्राः कथंचन ॥ १२.१२.३९ ॥

大王,你与其他人都处于主的掌控之中;他们生,他们死,无论如何都不是自主的。

12.12.40

हित्वाहित्वा च भूतानि हत्वा सर्वमिदं जगत् ।
यजन्ते कर्मणा देवा न स पापेन लिप्यते ॥ १२.१२.४० ॥

诸神一再舍弃众生、杀害整个世界,以行为而祭祀;他却不为罪恶所染。

12.12.41

हिंसात्मकानि कर्माणि सर्वेषां गृहमेधिनाम् ।
देवतानामृषीणां च ते च यान्ति परां गतिम् ॥ १२.१२.४१ ॥

所有居家者具有暴力性质的行为,以及诸神和仙人的行为——他们也能达到至高的归宿。

12.12.42

पातिताः शत्रवः पूर्व सर्वत्र वसुधाधिपैः ।
प्रजानां हितकामैश्च आत्मनश्च हितैषिभिः। ॥ १२.१२.४२ ॥

往昔,各地的地上之主,为了民众的福祉,也为了自身的利益,击倒了他们的敌人。

12.12.43

यदि तत्र भवेत्पापं कथं ते स्वर्गमास्थिताः ।
न प्राप्ता नरकं राजन्वेष्टिताः पापकर्मभिः ॥ १२.१२.४३ ॥

若彼处有罪,他们怎能到达天界?大王啊,虽被罪业所缠,他们也未堕入地狱。

12.12.44

एवं मनःसमाधानं मार्गमातिष्ठतो नृप ।
द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ॥ १२.१२.४४ ॥

如此,大王啊,遵循心之安定之道、已成为梵的再生者,连天界的居民也向往他。

12.12.45

स रत्नानि विचित्राणि संहृतानि ततस्ततः ।
मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि ॥ १२.१२.४५ ॥

他从各处聚集了各式珍宝;然而你未舍弃祭祀,却说着无神之论。

12.12.46

कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप ।
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः ॥ १२.१२.४६ ॥

人主啊,我不见居家者有舍弃;无论在王祭、马祭,还是其他一切祭祀中,我都不见舍弃。

12.12.47

ये चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः ।
तैर्यजस्व महीपाल शक्रो देवपतिर्यथा। ॥ १२.१२.४७ ॥

孩子啊,地上的守护者,也要举行那些受婆罗门所尊崇的其他祭祀,如诸神之主因陀罗所行。

12.12.48

राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् ।
अशरण्यः प्रजानां यः स राजा कलिरुच्यते ॥ १२.१२.४८ ॥

君王因疏忽之过,任由盗贼劫掠其民,使百姓无所依托,此人被称为迦利。

12.12.49

अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलंकृताः ।
ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ॥ १२.१२.४९ ॥

马匹、牛、女仆、盛装的母象、村庄与领地、田地和房屋。

12.12.50

अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः ।
वयं ते राजकलयो भविष्याम विशांपते ॥ १२.१२.५० ॥

不布施给再生族,心被嫉妒所占据,主人啊,我们将成为你的恶王(迦利)。

12.12.51

अदातारोऽशरण्याश्च राजकिल्विषभागिनः ।
दुःखानामेव भोक्तारो न सुखानां कदाचन ॥ १२.१२.५१ ॥

不布施、不庇护者,分担君王的罪过;他们只享受痛苦,从不享受快乐。

12.12.52

अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् ।
तीर्थेष्वनभिसंप्लुत्य प्रव्रजिष्यसि चेत्प्रभो ॥ १२.१२.५२ ॥

主啊,若你不举行大祭,不为祖先奉献斯瓦陀,也不在圣渡口沐浴,便去出家……

12.12.53

छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् ।
लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः ॥ १२.१२.५३ ॥

你将像被风吹散的破碎云朵一样消逝,从两个世界堕落,停留在中间。

12.12.54

अन्तर्बहिश्च यत्किंचिन्मनोव्यासङ्गकारकम् ।
परित्यज्य भवेत्त्यागी न हित्वा प्रतितिष्ठति ॥ १२.१२.५४ ॥

凡内外任何使心执着之物,舍弃之后方成舍离者;不舍弃则不能坚定。

12.12.55

एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते ।
ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ॥ १२.१२.५५ ॥

大王啊,对于安住于婆罗门所遵行之规则中的婆罗门,从来没有丧失。

12.12.56

निहत्य शत्रूंस्तरसा समृद्धाञ्शक्रो यथा दैत्यबलानि सङ्ख्ये ।
कः पार्थ शोचेन्निरतः स्वधर्मे पूर्वैः स्मृते पार्थिवशिष्टजुष्टे ॥ १२.१२.५६ ॥

帕尔塔啊,谁会悲伤呢?他迅速击杀敌人,如因陀罗在战场上摧毁达提耶的军队,专注于自己的法,行走在先祖所忆、贤王所遵循的道路上。

12.12.57

क्षात्रेण धर्मेण पराक्रमेण जित्वा महीं मन्त्रविद्भ्यः प्रदाय ।
नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता न शोचितव्यं भवताऽद्य पार्थ ॥ १२.१२.५७ ॥

以刹帝利之法与勇力征服大地,将其施予通晓谋略者之后,人主啊,你将到达天界的背面。帕尔塔啊,今日你不应悲伤。