Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.122

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.122.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः ॥ १२.१२२.१ ॥

这里也讲述这个古老的故事:在安伽人中,有一位光辉的国王,名叫婆素诃摩。

12.122.2

स राजा धर्मविन्नित्यं सह पत्न्या महातपाः ।
मुञ्जपृष्ठं जगामाथ देवर्षिगणसेवितम्। ॥ १२.१२२.२ ॥

那位常知法义、大苦行的国王,与妻子前往妙草脊,那里有众天仙侍奉。

12.122.3

तत्र शृङ्गे हिमवतो वसतिं समुपागमत् ।
यत्र मुञ्जवटे रामो जटाहरणमादिशत् ॥ १२.१२२.३ ॥

他来到喜马拉雅的一座山峰上居住,那里在妙草榕树下,罗摩曾下令剃除乱发。

12.122.4

तदादि च महाप्राज्ञः ऋषिभिः संशितव्रतैः ।
मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः ॥ १२.१२२.४ ॥

此后,具有严格誓愿的大智慧仙人称那片地区为妙草脊,那是楼陀罗所侍奉之地。

12.122.5

स तत्र बहुभिर्युक्तस्तदा श्रुतिमयैर्गुणैः ।
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् ॥ १२.१२२.५ ॥

他在那里具备许多由圣典所生的德行,为婆罗门所认可,成为如天仙一般的人。

12.122.6

तं कदाचिददीनात्मा सखा शक्रस्य मानितः ।
अभ्यगच्छन्महीपालो मान्धाता शत्रुकर्शनः ॥ १२.१२२.६ ॥

有一次,那位心志坚定的人迎来了摩陀多——大地守护者、因陀罗的朋友、受人尊敬、摧伏敌人的国王。

12.122.7

सोपसृत्य तु मान्धाता वसुहोमं नराधिपम् ।
दृष्ट्वा प्रकृष्टतपसं विनयेनोपतिष्ठते ॥ १२.१२२.७ ॥

曼陀多走近,见到苦行至极的国王婆苏贺摩,便谦恭地侍立在他面前。

12.122.8

वसुहोमोऽपि राज्ञो वै गामर्ध्यं च न्यवेदयत् ।
सप्ताङ्गस्य तु राज्यस्य पप्रच्छ कुशलाव्ययौ ॥ १२.१२२.८ ॥

婆苏贺摩也向国王献上一头牛和敬水,并询问七支王国的平安与兴盛。

12.122.9

सद्भिराचरितं पूर्वं यथावदनुयायिनम् ।
अब्रवीद्वसुहोमस्तं राजन्किं करवाणि ते ॥ १२.१२२.९ ॥

婆苏贺摩对按照古来善人之道前来随从的他说:“国王啊,我能为您做什么?”

12.122.10

सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमः ।
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन ॥ १२.१२२.१० ॥

极为欢喜的诸王之最曼陀多,对端坐的大智者婆苏贺摩说:“库鲁之喜悦啊!”

12.122.11

बृहस्पतेर्मतं राजन्नघीतं सकलं त्वया ।
तथैवौशनसं शास्त्रं विज्ञातं ते नरोत्तम ॥ १२.१२२.११ ॥

国王啊,您已完全学习了brihaspati的学说;同样,人中最优秀的您,也已通晓乌尚那斯的论著。

12.122.12

तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् ।
किं वाऽस्य पूर्वं जागर्ति किं वा परममुच्यते ॥ १२.१२२.१२ ॥

因此我想听闻刑罚如何产生。在它之前什么醒着,或者什么被称为至高?

12.122.13

कथं क्षत्रियसंस्थश्च दण्डः संप्रत्यवस्थितः ।
ब्रूहि मे तद्यथातत्वं ददाम्याचार्यवेतनम् ॥ १२.१२२.१३ ॥

刹帝利中刑罚如何确立,如今又如何存在?请如实告诉我,我将给老师应得的酬金。

12.122.14

शृणु राजन्यथा दण्डः संभूतो लोकसंग्रहः ।
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः ॥ १२.१२२.१४ ॥

大王,请听:刑罚如何产生——它是维系世界的力量。为保护臣民的秩序与安全,它正是永恒法(dharma)的本性。

12.122.15

ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः ।
ऋत्विजं नात्मनस्तुल्यं ददर्शेति हि नः श्रुतम् ॥ १२.१२२.१५ ॥

诸世界的祖父、世尊梵天想要举行祭祀。我们听说,他没有看到与自己相当的祭司。

12.122.16

स गर्भं भगवान्देवो बहुवर्षाण्यधारयत् ।
अथ पूर्णे सहस्रे तु स गर्भः क्षुवतोऽपतत् ॥ १२.१२२.१६ ॥

那位世尊之神怀持胚胎许多年。待满一千年,胚胎在他打喷嚏时坠落了。

12.122.17

स क्षुपो नाम संभूतः प्रजापतिररिंदम् ।
ऋत्विगासीन्महाराज यज्ञे तस्य महात्मनः ॥ १२.१२२.१७ ॥

他以名字刹那(Kṣupa)出生,哦,降伏敌人者,他成为了众生之主。大王,他曾担任那位大德之人的祭祀中的祭司。

12.122.18

तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ ।
इष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् ॥ १२.१२२.१८ ॥

王中之牛啊,当梵天那场祭祀的萨特拉开始时,刑罚便隐没了,因为仪式按照正确的形式进行。

12.122.19

तस्मिन्नन्तर्हिते चापि प्रजानां संकरोऽभवत् ।
नैव कार्यं न वा कार्यं भोज्याभोज्यं न विद्यते ॥ १२.१२२.१९ ॥

当其隐没之后,众生之间便出现了混乱(saṃkara)。无所谓应为与不应为,也不知可食与不可食。

12.122.20

पेयापेये कुतः सिद्धिर्हिसन्ति च परस्परम् ।
गम्यागम्यं तदा नासीत्स्वं परस्वं च वै समम् ॥ १२.१२२.२० ॥

可饮与不可饮之间,何来成就?他们彼此伤害。那时可亲近与不可亲近之别也消失了,自己的财物与他人的财物变得相同。

12.122.21

परस्परं विलुम्पन्ति सारमेया यथाऽऽमिषम् ।
अबलान्बलिनो जघ्नुर्निर्मर्यादं प्रवर्तते ॥ १२.१२२.२१ ॥

如同群犬争抢肉食,他们彼此掠夺。强者杀害弱者,无度的行为盛行起来。

12.122.22

ततः पितामहो विष्णुं भगवन्तं सनातनम् ।
संपूज्य वरदं देवं महादेवमथाब्रवीत् ॥ १२.१२२.२२ ॥

于是祖父(梵天)礼敬永恒的世尊毗湿奴后,对赐予恩惠的天神大天(摩诃提婆)说道。

12.122.23

अत्र त्वमनुकम्पां वै कर्तुमर्हसि शङ्कर ।
अयं विष्णुः सखा तुभ्यं धर्मस्य परिरक्षणे ॥ १२.१२२.२३ ॥

湿婆啊,你在此事上务须慈悲。此毗湿奴是你的朋友,与你共同护持正法。

12.122.24

त्वं हि सर्वविधानज्ञः सत्वानां त्वं गतिः परा ।
संकरो न भवेदत्र यथा तद्वै विधीयताम् ॥ १२.१२२.२४ ॥

你确是通晓一切法则、众生的至上归宿。请如此安排,使此处不生混乱。

12.122.26

ततः स भगवान्ध्यात्वा तदा शूलवरायुधः ।
देवदेवो महादेवः कारणं जगतः परम्
ब्रह्मविष्ण्विन्द्रसहितः सर्वैश्च ससुरासुरैः ।
लोकसन्धारणार्थं च लोकसंकरनाशनम्।
आत्मानमात्माना दण्डं ससृजे देवसत्तमः ॥ १२.१२२.२६ ॥

于是世尊沉思之后,手持三叉戟为殊胜之器,神中之神大天,世界之至高因,与梵天、毗湿奴、因陀罗及一切天神阿修罗一同,为维持世界、消除世界混乱,诸神中最殊胜者由自身创造了刑罚。

12.122.27

तस्माच्च धर्मचरणान्नीतिं देवीं सरस्वतीम् ।
असृजद्दण्डनीतिं वै त्रिषु लोकेषु विश्रुताम् ॥ १२.१२२.२७ ॥

因此,他因实行法而创造了神圣的萨罗室伐底——刑罚之道,在三界中闻名。

12.122.28

यथाऽसौ नीयते दण्डः सततं पापकारिषु ।
दण्डस्य नयनात्सा हि दण्डनीतिरिहोच्यते ॥ १२.१२२.२८ ॥

刑罚总是施加于作恶者身上,她因引导刑罚而在此被称为刑罚之道。

12.122.29

भूयः स भगवान्ध्यात्वा चिरं शूलघरः प्रभुः ।
असृजत्सर्वशास्त्राणि महादेवो महेश्वरः ॥ १२.१२२.२९ ॥

吉祥的主,持三叉戟者,长久沉思之后,大天、大自在天创造了一切学问。

12.122.30

दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः ।
विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पनाः ॥ १२.१२२.३० ॥

为施行刑罚之道,并提供各方面的依据;坚固于顶端的四种学问,以及它们的区分与细分。

12.122.31

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ १२.१२२.३१ ॥

六支分(吠陀支)、四吠陀、弥曼差、因明的展开、往世书与法论;这便是十四种学问。

12.122.32

आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः ।
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु ॥ १२.१२२.३२ ॥

医术、射术、乐术是三者,第四为政事学;诸学实为十八种。

12.122.33

दश चाष्टौ च विख्याता एता धर्मस्य संहिताः ।
एतासामेव विद्यानां व्यासमाह महेश्वरः ॥ १२.१२२.३३ ॥

十与八,此等著名者为法之集要;此等诸学之广说,乃大自在天所宣。

12.122.34

शतानि त्रीणि शास्त्राणां महातन्त्राणि सप्ततिम् ।
व्यास एव तु विद्यानां महादेवेन कीर्तितः ॥ १२.१२२.३४ ॥

论典三百,大续七十;然诸学之广说,乃大天自身所宣。

12.122.35

तन्त्रं पाशुपतं नाम पञ्चरात्रं च विश्रुतम् ।
योगशास्त्रं च साङ्ख्यं च तन्त्रं लोकायतं तथा ॥ १२.१२२.३५ ॥

名为帕舒帕塔的续部,著名的般遮罗多,瑜伽论,数论,以及顺世派之续。

12.122.36

तन्त्रं ब्रह्मतुला नाम तर्कविद्या दिवौकसाम् ।
सुखदुःखार्थजिज्ञासा कारणं चेति विश्रुतम् ॥ १२.१२२.३६ ॥

名为梵秤之续,乃诸天之论理学;探求乐与苦之目的与因,此即其所著称者。

12.122.37

तर्कविद्यास्तथा चाष्टौ स चोक्तो न्यायविस्तरः ।
दश चाष्टौ च विज्ञेयाः पौराणा यज्ञसंहिताः ॥ १२.१२२.३७ ॥

论理之学亦有八种,此称为正理之广说;往世书中的祭祀集要,应知为十八种。

12.122.38

पुराणाश्च प्रणीताश्च तावदेवेह संहिताः ।
धर्मशास्त्राणि तद्वच्च एकार्थानि च नान्यथा ॥ १२.१२२.३८ ॥

往世书也已编成,这里同样有那么多的集成。法论典籍亦复如此,其义唯一,并无他义。

12.122.39

एकार्थानि पुराणानि वेदाश्चैकार्यसंहिताः ।
नानार्थानि च सर्वाणि ततः शास्त्राणि शंकरः ॥ १२.१२२.३९ ॥

往世书只有一义,吠陀也是一义的集成。但一切论典都有多义;因此湿婆(宣说了它们)。

12.122.40

प्रोवाच भगवान्देवः कालज्ञानानि यानि च ।
चतुःषष्टिप्रमाणानि आयुर्वेदं च सोत्तरम् ॥ १२.१२२.४० ॥

世尊天神宣说了时间知识之书,共六十四部,并宣说了附带续篇的阿育吠陀。

12.122.41

अष्टादशविकल्पां तां दण्डनीतिं च शाश्वतीम् ।
गान्धर्वमितिहासं च नानाविस्तरमुक्तवान् ॥ १२.१२२.४१ ॥

他还宣说了那分为十八类的永恒刑政之道、乐论,以及篇幅繁多的古史。

12.122.42

इत्येताः शंकरप्रोक्ता विद्याः शब्दार्थसंहिताः ।
पुनर्भेदसहस्रं तु तासामेव तु विस्तरः ॥ १२.१२२.४२ ॥

如此,这些由湿婆宣说的学问是字义的集成。它们又有千种分支,其广衍亦在其中。

12.122.43

ऋषिभिर्देवगन्धर्वैः सविकल्पः सविस्तरः ।
शश्वदभ्यस्यते लोके वेद एव तु सर्वशः ॥ १२.१२२.४३ ॥

由仙人、天神与乾闼婆,以其分支与广衍,于世间恒常、全面地研习的,唯有吠陀。

12.122.44

वेदाश्चतस्रः संक्षिप्ता वेदवादाश्च ते स्मृताः ।
एतासां पारगो यश्च स चोक्तो वेदपारगः ॥ १२.१२२.४४ ॥

吠陀有四部,已被浓缩;也被称为吠陀教义。精通其中者,被称为吠陀通达者。

12.122.45

वेदानां पारगो रुद्रो विष्णुरिन्द्रो बृहस्पतिः ।
शक्रः स्वायंभुवश्चैव मनुः परमधर्मवित् ॥ १२.१२२.४५ ॥

吠陀的通达者有楼陀罗、毗湿奴、因陀罗与brhaspati;释迦罗、自生者,以及通晓至上法的摩奴。

12.122.46

ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः ।
सर्वस्यानुग्रहाच्चैव व्यासो वै वेदपारगः ॥ १२.१२२.४६ ॥

梵天是至上之神,诸天与阿修罗常时供奉;由于众人的恩惠,毗耶娑也成为吠陀的通达者。

12.122.47

अहं शान्तनवो भीष्मः प्रसादान्माधवस्य च ।
शंकरस्य प्रसादाच्च ब्रह्मणश्च कुरूद्वह।
वेदपारग इत्युक्तो याज्ञवल्क्यश्च सर्वशः ॥ १२.१२२.४७ ॥

我,Bhīṣma,Śantanu之子,承蒙摩陀婆、湿婆与梵天的恩惠,库鲁之杰,被称为吠陀的通达者;耶若婆佉也一样,在各方面皆是。

12.122.48

कल्पेकल्पे महाभागैर्ऋषिभिस्तत्त्वदर्शिभिः ।
ऋषिपुत्रैर्ऋषिगणैर्भिद्यन्ते मिश्रकैरपि ॥ १२.१२२.४८ ॥

每一劫中,吠陀由大福的明见真理的仙人、仙人之子、仙众,乃至混血者加以分类。

12.122.49

शिवेन ब्रह्मणा चैव विष्णुना च विकल्पिताः ।
आदिकल्पे पुनश्चैव भिद्यन्ते साधुभिः पुनः ॥ १२.१२२.४९ ॥

吠陀曾由湿婆、梵天与毗湿奴加以安排;在初劫中,又由善人再次加以划分。

12.122.50

इदानीमपि विद्वद्भिर्भिद्यन्ते च विकल्पकैः ।
पूर्वजन्मानुसारेण बहुधेयं सरस्वती ॥ १२.१२२.५० ॥

即便现在,学者与标新立异者也在分割它;依照前世的因缘,这位萨罗室伐底以多种方式被分割。

12.122.51

भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः ।
तस्यतस्य निकायस्य चकारैकैकमीश्वरम् ॥ १२.१२२.५१ ॥

此后,那位以三叉戟为最上武器的世尊,长时间冥想,为每一类众生造出一位主宰。

12.122.52

देवानामीश्वरं चक्रे दैवं दशशतेक्षणम् ।
यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् ॥ १२.१२२.५२ ॥

他立那位神圣的千眼者为诸神之主,又立毗婆娑之子阎摩为祖先之主。

12.122.53

अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् ।
धनानां राक्षसानां च कुवेरमपि चेश्वरम् ॥ १२.१२२.५३ ॥

他在水界与诸天之中立伐楼那为主;又立俱毗罗为财富与罗刹的主宰。

12.122.54

पर्वतानां पतिं मेरुं सरितां च महोदधिम् ।
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् ॥ १२.१२२.५४ ॥

他立须弥山为众山之主,大海为众河之主;立死神为命根之主,立火神(胡陀舍那)为光明之主。

12.122.55

रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः ।
महात्मानं महादेवं विशालाक्षं सनातनम् ॥ १२.१२२.५५ ॥

主在楼陀罗之中又立自在天(伊舍那)为护持者,即大德、大天、广目、永恒者。

12.122.56

दश चैकश्च ये रुद्रास्तस्यैते मूर्तिसंभवाः ।
नानारूपधरो देवः स एव भगवाञ्शिवः ॥ १२.१२२.५६ ॥

十一位楼陀罗皆从他的形相而生。那位示现种种形相的神,正是吉祥的湿婆。

12.122.57

वसिष्ठमीशं विप्राणां वसूनां जातवेदसम् ।
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् ॥ १२.१२२.५७ ॥

他以婆悉吒为婆罗门之主,以知生之火神阿耆尼为婆薮之主,以太阳为诸光之主,以月亮为星宿之主。

12.122.58

वीरुधां वसुमन्तं च भूतानां च प्रभुं वरम् ।
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् ॥ १२.१२२.५८ ॥

他任命婆苏摩为草木之王,任命众生中至尊的主宰,以及十二臂的童子塞犍陀为王。

12.122.59

कालं सर्वेशमकरोत्संहारविनयात्मकम् ।
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च ॥ १२.१२२.५९ ॥

他以时间为一切之主,其本性是主持毁灭的秩序,统摄死亡的四分、苦与乐。

12.122.60

ईश्वरो देवदेवस्तु राजराजो नराधिपः ।
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः ॥ १२.१२२.६० ॥

自在者是诸神之神、诸王之王、人主;在一切楼陀罗中,他是持三叉戟者,天启如是说。

12.122.61

ईश्वरश्चेतनः कर्ता पुरुषः कारणं शिवः ।
विष्णुर्ब्रह्मा शशी सूर्यः शक्रो देवाश्च सान्वयाः ॥ १२.१२२.६१ ॥

自在者是有觉知的作者、补鲁沙、因;他即是湿婆。毗湿奴、梵天、月、日、因陀罗以及诸神及其族类,也都是他。

12.122.62

सृजते ग्रसते चैतत्तमोभूतमिदं यथा ।
अप्रज्ञातं जगत्सर्वं यदा ह्येको महेश्वरः ॥ १२.१२२.६२ ॥

当这整个未被认知的世界化为黑暗时,唯有伟大的主宰独自创造它,又将它吞没。

12.122.63

तमेनं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ ।
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि ॥ १२.१२२.६३ ॥

他将梵天这位后生之子克修帕,那位在一切持法者中也最为殊胜者,授予为众生之主。

12.122.64

महादेवस्ततस्तस्मिन्वृत्ते यज्ञे समाहितः ।
दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ ॥ १२.१२२.६४ ॥

此后,那场祭祀完成,专注的大天便以敬意将守护法的刑杖授予毗湿奴。

12.122.65

विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः ।
प्रादादिन्द्रमरीचिभ्या मरीचिर्भृगवे ददौ ॥ १२.१२२.६५ ॥

毗湿奴将它授予阿因吉罗娑,而诸仙之最的阿因吉罗娑又授予因陀罗与摩哩质;摩哩质授予跋利古。

12.122.66

भृगुर्ददावृषिभ्यस्तु दण्डं धर्मसमाहितम् ।
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च ॥ १२.१२२.६६ ॥

跋利古将具足法的刑杖授予诸仙;诸仙授予世界护持者;世界护持者又授予克修帕。

12.122.67

क्षुपस्तु मनवे प्रादादादित्यतनयाय च ।
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् ॥ १२.१२२.६७ ॥

克修帕将它授予摩奴与阿迪提之子;而死者祭之神则为了微妙的法与义,将它授予自己的诸子。

12.122.68

विभज्य दण्डः कर्तव्यो दण्डे तु नयमिच्छता ।
दुर्वाचा निग्रहो दण्डो हिरण्यं बाह्यतः क्रिया ॥ १२.१२२.६८ ॥

刑罚应分别施行;欲求善治者须在刑罚中守持适度。以严厉言辞加以制止即是刑罚;黄金(罚金)应从外部征收。

12.122.69

व्यङ्गत्वं च शरीरस्य वधो वाऽनल्पकारणात् ।
शरीरपीडा कार्या तु स्वदेशाच्च विवासनम् ॥ १२.१२२.६९ ॥

因重大缘由而残伤肢体或处死,施以身体刑苦,以及从本国放逐,也都是刑罚。

12.122.70

तं ददौ सूर्यपुत्राय मनवे रक्षणात्मकम् ।
आनुपूर्व्याच्च दण्डोऽयं प्रजा जागर्ति पालयन् ॥ १२.१२२.७० ॥

以守护为本性的那一法,他授予太阳之子摩努。依次而行,此刑罚守护并保护臣民,常怀警觉。

12.122.71

इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः ।
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः ॥ १२.१२२.७१ ॥

尊贵的因陀罗常醒;由因陀罗而来,毗婆娑阿耆尼(常醒)。由阿耆尼而来,伐楼那常醒;由伐楼那而来,生主。

12.122.72

प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः ।
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः ॥ १२.१२२.७२ ॥

由生主而来,以谦抑为本性的法则随后常醒;由法则而来,梵天之子,永恒的事业(常醒)。

12.122.73

व्यवसायात्ततस्तेजो जागर्ति परिपालयत् ।
ओषध्यस्तेजसस्तस्मादोषधीभ्यश्च पर्वताः ॥ १२.१२२.७३ ॥

由事业而来,光明随后常醒以护持。由光明而来,草药(常醒);由这些草药而来,群山(常醒)。

12.122.74

पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा ।
जागर्ति निर्ऋतिर्देवी ज्योतींषि निर्ऋतीमनु ॥ १२.१२२.७४ ॥

山岳中的汁液保持警醒,味之德性亦然。女神尼厘提保持警醒;诸光明随尼厘提而行。

12.122.75

वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः ।
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः ॥ १२.१२२.७५ ॥

吠陀以诸光明为根基;其次是主者马首。由他,祖父梵天保持警醒,不朽的主者保持警醒。

12.122.76

पितामहान्महादेवो जागर्ति भगवाञ्शिवः ।
विश्वेदेवाः शिवाच्चापि विश्वेभ्य ऋषयस्तथा ॥ १२.१२२.७६ ॥

自祖父,大神保持警醒;吉祥的湿婆保持警醒。自湿婆,诸维斯瓦天也如此;自诸维斯瓦,诸仙人亦然。

12.122.77

ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः ।
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय ॥ १२.१२२.७७ ॥

自诸仙人,吉祥的月神保持警醒;自月神,诸永恒神祇。自诸神,世间的婆罗门保持警醒——应当明白此理。

12.122.78

ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मताः ।
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् ॥ १२.१२२.७८ ॥

自婆罗门,刹帝利王者依法守护诸世界。不动与动者,亦由刹帝利而永恒守护。

12.122.79

प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च ।
सर्वसंक्षेपको दण्डः पितामहसुतः प्रभुः ॥ १२.१२२.७९ ॥

在此世间,众生保持警醒,而其中刑罚之杖保持警醒。刑罚之杖总摄一切,乃祖父之子,主者。

12.122.80

जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत ।
ईशः सर्वस्य कालो हि महादेवः प्रजापतिः ॥ १२.१२२.८० ॥

时间在起初、中间和终末都保持警醒,婆罗多之裔啊。时间是万物之主;时间即是大天神摩诃提婆、生主。

12.122.81

देवदेवः शिवः सर्वो जागर्ति सततं प्रभुः ।
कपर्दी शंकरो रुद्रो भवः स्थाणुरुमापतिः ॥ १२.१२२.८१ ॥

神中之神湿婆,遍在的主,恒常警醒:发辫者、商羯罗、楼陀罗、婆婆、磐石、乌摩之主。

12.122.82

इत्येष दण्डो व्याख्यातस्तथौषध्यस्तथापरे ।
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् ॥ १२.१२२.८२ ॥

如此,刑罚之杖已被解说,草药及其他亦然。知法的君王应依此按照正理行事。

12.122.83

इतीदं वसुहोमस्य योऽऽत्मवाञ्शृणुयान्मतम् ।
श्रुत्वा सम्यक्प्रवर्तेत स लोकानाप्नुयान्नृपः ॥ १२.१२२.८३ ॥

若有克己之人听闻婆苏贺摩此说,当闻而善行;如此君王将得诸世界。

12.122.84

इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ ।
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत ॥ १२.१२२.८४ ॥

如此我已把一切告诉你:刑罚,人中之雄啊,是统御全世界的,对于奉行法者而言,婆罗多之裔啊。

12.122.85

वसुहोमाच्छ्रुतं राज्ञा मान्धात्रा भूभृता पुरा ।
मयापि कथितं राजन्नाख्यानं प्रथितं मया ॥ १२.१२२.८५ ॥

从前国王摩豆多曾从婆苏贺摩处听闻此说;大王啊,我也讲述了这篇著名的故事。