摩诃婆罗多 · 章 12.123
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.123.1
तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम् ।
लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता ॥ १२.१२३.१ ॥
亲爱的,我愿听闻关于法、利与欲的确定真理,因为世间的运行完全建立在这三者之上。
12.123.2
धर्मार्थकामाः किंमूलाः प्रभवः प्रलयश्च कः ।
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् ॥ १२.१२३.२ ॥
法、利、欲以什么为根本?它们的生起与消散是什么?它们如何彼此相依,又各自如何运行?
12.123.3
य एते स्युः सुमनसो लोकसंस्थार्थनिश्चये ।
कामप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा ॥ १२.१२३.३ ॥
这三者在确定世界秩序与其目标时心存善意,那时便执着于由欲望所生的种种境地。
12.123.4
धर्ममूलोऽर्थ इत्युक्तः कामोऽर्थफलमुच्यते ।
संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः ॥ १२.१२३.४ ॥
据说利以法为根,欲被说为利的果实。这一切都以意向为根,而意向的本性是对象。
12.123.5
विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये ।
मूलमेतन्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते ॥ १२.१२३.५ ॥
一切感官对象,完全是为了维持生计而存在;它们正是三者之根。从其中止息,便称为解脱。
12.123.6
धर्मः शरीरसंगुप्तिर्धर्मार्थश्चार्थ इष्यते ।
कामो रतिफलश्चात्र सर्वे रतिफलाः स्मृताः ॥ १२.१२३.६ ॥
法是护持身体;与法相应的财富才被视为利。此处欲的果实是欢愉(rati);一切都被记为以欢愉为果。
12.123.7
सन्निकृष्टांश्चरेदेतान्न चैतान्मनसा त्यजेत् ।
विमुक्तस्तपसा सर्वान्धर्मादीन्कामनैष्ठिकान् ॥ १२.१२३.७ ॥
可以践行那些近在眼前的事,但不应在心中舍弃它们。以苦行获得解脱者,应舍弃一切以欲望为归宿的法等事物。
12.123.8
श्रेष्ठबुद्धिस्त्रिवर्गस्य उदयं प्राप्नुयात्क्षणात् ।
कर्मणा बुद्धिपूर्वेण भवत्यर्थो न वा पुनः ॥ १२.१२३.८ ॥
智慧卓越者可在瞬间获得三目标的兴起。以有意识的行动,财富或会到来,也或不会。
12.123.9
अर्थार्थमन्यद्भवति विपरीतमथापरम् ।
अनर्थार्थमवाप्यार्थमन्यत्राद्योपकारकम्।
बुद्ध्या बुद्ध इहार्थेन तदह्ना तु निकृष्टया ॥ १२.१२३.९ ॥
为财富而做的事,会变成别的,变成相反的,也会变成另一种。为了非利而得财富的人,会成为服务于另一种主要利益的人。在此,以智慧觉醒者借由财富,连同那卑下之日而领悟此理。
12.123.10
अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम् ।
संप्रमोहमलः कामो भूयस्तद्गुणवर्धितः ॥ १२.१२३.१० ॥
恶念是法的污垢;隐匿是财富的污垢。彻底的迷惑是欲望的污垢,而它借其自身的属性而不断增长。
12.123.11
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अरिष्टस्य च संवादं कामन्दस्य च भारत ॥ १२.१२३.११ ॥
这里人们也讲述这段古老的历史,婆罗多啊:阿利什塔与迦曼达的对话。
12.123.12
कामन्दमृषिमासीनमभिवाद्य नराधिपः ।
आङ्गोरिष्ठोऽथ पप्रच्छ कृत्वा समयमव्ययम् ॥ १२.१२३.१२ ॥
迦曼达仙人端坐时,人主阿恭利什陀向他致礼,立下不朽的约定,然后问道。
12.123.13
यः पापं कुरुते राजा काममोहबलात्कृतः ।
प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् ॥ १२.१२३.१३ ॥
贤者啊,被欲望与迷惑之力驱使而作恶的君王,在死亡临近时,其罪孽将以何种方式消除?
12.123.14
अधर्मं धर्म इति च यो मोहादाचरेन्नरः ।
तं चापि प्रथितं लोके कथं राजा निवर्तयेत् ॥ १२.१२३.१४ ॥
若有人因迷惑而将非法当作正法去行,此事在世上广为人知,君王应如何使之回转?
12.123.15
यो धर्मार्थौ परित्यज्य काममेवानुवर्तते ।
स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्च्छति ॥ १२.१२३.१५ ॥
舍弃法与利,只随顺欲望的人,因舍弃法与利,在此便会遭受智慧的丧失。
12.123.16
प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः ।
तस्मान्नास्तिकता चैव दुराचारश्च जायते ॥ १२.१२३.१६ ॥
以丧失智慧为本性的迷惑,同样毁灭法与利;因此,无信与恶行便会产生。
12.123.17
दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति ।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥ १२.१२३.१७ ॥
君王若不制止作恶与堕落之人,百姓便会惶恐不安,犹如毒蛇潜入屋中一般。
12.123.18
तं प्रजा नानुरज्यन्ते न विप्रा न च साधवः ।
ततः संक्षयमाप्नोति तथा वध्यत्वमेव च ॥ १२.१२३.१८ ॥
百姓不亲附他,婆罗门与善人也不亲附他;于是他走向毁灭,也变得应当被杀。
12.123.19
अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम् ।
जीवते यदपध्वस्तः शुद्धं मरणमेव तत् ॥ १२.१२३.१९ ॥
堕落而被轻视之人,以痛苦度日;堕落而活,实与死无异。
12.123.20
अत्रैतदाहुराचार्याः पापस्य परिवर्तनम् ।
सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च ॥ १२.१२३.२० ॥
对此,师长们说:悔改罪过之道在于修习三明吠陀之学,并尊敬婆罗门。
12.123.21
महामना भवेद्धर्मे विवहेच्च महाकुले ।
ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः ॥ १२.१२३.२१ ॥
在法中当心胸宽广,娶于大族,并侍奉有忍辱之德、心智明达的婆罗门。
12.123.22
जपेदुदकशीलः स्यात्सुमुखो न च नास्तिकः ।
धर्मान्वितान्संप्रविशेद्बहिः प्लुत्यैव दुष्कृतम् ॥ १२.१२३.२२ ॥
当持诵,乐于水浴,面容和善,不可为无信者。当入于行法之人的群体;以沐浴于外涤除恶行。
12.123.23
प्रसादयेन्मधुरया वाचा वाऽप्यथ कर्मणा ।
इत्यस्तीति वदेन्नित्यं परेषां कीर्तयन्गुणान् ॥ १२.१२३.२३ ॥
当以甘美之言或行动使人欢喜;常说“确有此事”,并称赞他人的德行。
12.123.24
अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् ।
पापान्यपि हि कृच्छ्राणि शमयेन्नात्र संशयः ॥ १२.१२३.२४ ॥
如此行为,人很快便会无罪并受人敬重;即使是重大罪过也能平息——对此并无疑问。
12.123.25
गुरवो हि परं धर्मं यं ब्रूयुस्तं तथा कुरु ।
गुरूणां हि प्रसादाद्वै श्रेयः परमवाप्स्यसि ॥ १२.१२३.२५ ॥
照老师所说的最高法则去做;因老师的恩惠,你必将获得至高的福祉。