摩诃婆罗多 · 章 12.124
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.124.1
इमे जना मनुष्येन्द्र प्रशंसन्ति सदा भुवि ।
धर्मस्य शीलमेवादौ ततो मे संशयो महान् ॥ १२.१२४.१ ॥
人主啊,世间的人们总是首先称赞法的品行,因此我心中有很大的疑惑。
12.124.2
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभूतां वर ।
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥ १२.१२४.२ ॥
法人之中最优秀者啊!若我们能够知晓此事,我愿听闻它如何得以获得的全部。
12.124.3
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत ।
किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥ १२.१२४.३ ॥
婆罗多啊,我想听闻那品行如何获得;它的特征被说为何?请告诉我,雄辩者中最优秀者。
12.124.4
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद ।
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तवागताम् ॥ १२.१२४.४ ॥
施予尊荣者啊!从前在此,难敌因悲痛,见你所得的繁荣,便将此事告诉了持国王。
12.124.5
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह ।
सभायां चापहसनं तत्सर्वं शृणु भारत ॥ १२.१२४.५ ॥
大王啊!在因陀罗普拉斯塔,于你与兄弟们的议事堂中所发生的嘲笑,婆罗多啊,请全部听来。
12.124.6
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् ।
दुर्योधनस्तदा दीनः सर्वं पित्रे न्यवेदयत् ॥ १२.१२४.६ ॥
他看见你的议事堂和它无与伦比的繁荣,沮丧的难敌便将一切报告给了父亲。
12.124.7
श्रुत्वा हि धृतराष्ट्रश्च दुर्योधनवचस्तदा ।
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः ॥ १२.१२४.७ ॥
德约陀那的话被听到后,持国王便与迦尔纳一同对德约陀那说了这番话。
12.124.8
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः ।
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यति ॥ १२.१२४.८ ॥
儿啊,你为何如此烦恼?我想如实听闻。听后若合适,我便会宽慰你。
12.124.9
यदा त्वां महदैश्वर्यं प्राप्तं परपुरंजय ।
किंकरा भ्रातरः सर्वे मित्रसंबन्धिबान्धवाः ॥ १२.१२४.९ ॥
征服敌城的人啊,当你获得了伟大的权势,你的诸兄弟、朋友、亲属和族人都成了你的仆役时,
12.124.10
आच्छादयसि प्रावारानश्नासि पिशितौदनम् ।
आजानेया वहन्ति त्वां कस्माच्छेचसि पुत्रक ॥ १२.१२४.१० ॥
你披着华美的披风,吃着肉饭,良马载着你;那么孩子,你为何还要悲伤?
12.124.11
दश तात सहस्राणि स्नातकानां महात्मनाम् ।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥ १२.१२४.११ ॥
父亲啊,在坚战的宅邸中,一万位大德的毕业学子用金器进食。
12.124.12
दृष्ट्वा च तां सभां दिव्यपुष्पफलान्विताम् ।
अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च ॥ १२.१२४.१२ ॥
看到那座饰有神圣花果的议事厅,那些鹧鸪色与斑点的骏马,以及种种珍宝之后——
12.124.13
दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् ।
अमित्राणां सुमहतीमनुशोचामि मानद ॥ १२.१२४.१३ ॥
见到般度之子那如因陀罗般殊胜的繁荣,尊者啊,我为敌人深感忧伤。
12.124.14
यदीच्छसि श्रियं तात यादृशी सा युधिष्ठिरे ।
विशिष्टां वा नरश्रेष्ठ शीलवान्भव पुत्रक ॥ १२.१२४.१४ ॥
孩子啊,若你想要如坚战所拥有的那样的财富,或更加殊胜的财富,那么,人中之杰,你就要成为有德行的人。
12.124.15
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः ।
न हि किंचिदसाध्यंवै लोके शीलवतां सताम् ॥ १२.१२४.१५ ॥
毫无疑问,三界可以凭借品德而征服。世间对于有德行的善人而言,没有什么是做不到的。
12.124.16
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः ।
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ॥ १२.१२४.१६ ॥
摩冲陀一夜之间得到了大地,生天王三日得到,那伽婆七夜得到。
12.124.17
एते हि पार्थिवाः सर्वे शीलवन्तो यशोन्विताः ।
ततस्तेषां गुणक्रीता वसुधा स्वयमागता ॥ १२.१२४.१७ ॥
这些国王都品德高尚、名望卓著,因此大地因他们的德行而归附,自己前来投奔他们。
12.124.18
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत ।
येन शीलेन संप्राप्ताः क्षिप्रमेव वसुंधराम् ॥ १२.१२४.१८ ॥
婆罗多啊,我想听听这种品德如何获得,人们凭借这种品德而迅速得到大地。
12.124.19
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदेन पुरा वृत्तं शीलमाश्रित्य भारत ॥ १२.१२४.१९ ॥
此处也有人讲述这个古老的故事,它曾发生在那罗陀身上,依靠品行而成,婆罗多的后裔啊。
12.124.20
प्रा…देन हृतं राज्यं महेन्द्रस्य महात्मनः ।
श…माश्रित्य दैत्येन त्रैलोक्यं च वशे कृतम् ॥ १२.१२४.२० ॥
……之神夺去了大德摩亨德罗的王国;依靠……,阿修罗征服了三界。
12.124.21
त…बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः ।
तमुवाच महाप्राज्ञः श्रेय इच्छामि वेदितुम् ॥ १२.१२४.२१ ॥
……帝释天合掌来到木星仙人面前,对那位大智者说:“我想知道至善。”
12.124.22
ततो बृहस्पतिस्तस्मै ज्ञानं नैश्रेयसं परम् ।
कथयामास भगवान्देवेन्द्राय कुरूद्वह ॥ १२.१२४.२२ ॥
于是世尊木星仙人向天主因陀罗讲说了那通往至善的无上智慧,俱卢中的最优秀者啊。
12.124.23
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत ।
इन्द्रस्तु भूयः पप्रच्छ को विशेषो भवेदिति ॥ १२.१२४.२३ ॥
木星仙人说:“至善仅止于此。”然而因陀罗又问:“在此之上,还能有什么更殊胜的吗?”
12.124.24
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः ।
तत्रागमय भद्रं ते भूय एव सुरोत्तम ॥ १२.१२४.२४ ॥
“孩子,婆利古族的大德那里有一种殊胜的智慧。诸神中最殊胜的,愿你吉祥;去那里再把它求得吧。”
12.124.25
आत्मनस्तु ततः श्रेयो भार्गवः सुमहायशाः ।
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ॥ १२.१२४.२५ ॥
于是名声显赫的婆利古之子为自己寻求至善,那位极其光明的人欢喜地再次获得了知识。
12.124.26
तेनापि समनुज्ञातो भार्गवेण महात्मना ।
श्रेयोऽस्तीति परं भूयः शुक्रमाह शतक्रतुः ॥ १२.१२४.२६ ॥
得到那位大心的婆利古之子允许后,百祭(因陀罗)又对沙陀(Śukra)说:至上的善仍然存在。
12.124.27
भार्गवस्त्वाह सर्वज्ञः प्रह्लादस्य महात्मनः ।
ज्ञानमस्ति विशेषेणेत्युक्तो हृष्टश्च सोऽभवत् ॥ १२.१२४.२७ ॥
全知的婆利古之子说,那位大心的波罗诃罗陀(Prahlāda)特别拥有知识;听到这话,他便欢喜了。
12.124.28
स तत्र ब्राह्मणो भूत्वा प्रह्लादं पाकशासनः ।
स्तुत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ॥ १२.१२४.२८ ॥
他在那里化作婆罗门,赞美波罗诃罗陀,这位智者说:“我想要了解至善。”
12.124.29
प्रह्लादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजोत्तम ।
त्रैलोक्यराज्यसक्तस्य ततो नोपदिशामि ते ॥ १२.१२४.२९ ॥
然而波罗诃罗陀对婆罗门说:“再者,婆罗门中的最好者啊,没有片刻空闲;我执着于三界的王权,因此不能教诲你。”
12.124.30
ब्राह्मणस्त्वब्रवीद्राजन्यस्मिन्काले क्षणो भवेत् ।
तदोपादेष्टुमिच्छामि यदि कार्यान्तरं भवेत् ॥ १२.१२४.३० ॥
婆罗门说:“大王啊,若此时有片刻,若另有他事,那么我愿意接受教诲。”
12.124.31
ततः प्रीतोऽभवद्राजा प्रह्वादो ब्रह्मवादिनः ।
तथेत्युक्त्वा ददौ काले ज्ञानतत्त्वं द्विजे तदा ॥ १२.१२४.३१ ॥
于是,王者钵罗诃拉陀对通晓吠陀的婆罗门感到欢喜,说道:“就这样吧。”当时便将智慧的真谛传授给这位再生者。
12.124.32
ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् ।
चकार सर्वभावेन यद्यच्च मनसेच्छति ॥ १२.१२४.३२ ॥
婆罗门也依礼法,全心全意地行使对上师最崇高的侍奉,凡心中所愿,皆去做。
12.124.33
पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम् ।
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे।
प्रह्लादोऽपि महाराज ब्राह्मणं वाक्यमब्रवीत् ॥ १२.१२४.३३ ॥
他多次询问道:“降伏敌人者啊,三界的王权是如何获得的?精通法义者啊,请告诉我其中的缘由。”大王啊,钵罗诃拉陀也对那位婆罗门说了这些话。
12.124.34
नासूयामि द्विजान्विप्र राजास्मीति कथंचन ।
काम्यानि वदतां तेषां संयच्छामि वहामि च ॥ १२.१२४.३४ ॥
婆罗门啊,我从不因自认为国王而嫉妒再生者。他们说出的任何所求之言,我都克制地接受并承担。
12.124.35
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।
तेषां कार्यपथे युक्तं शुश्रूषुमनहंकृतम् ॥ १२.१२४.३५ ॥
他们坦然发言,并且总是约束我。对于他们所行的职责之路,适合的人应当是贤能、侍奉恭谨、不自高傲的人。
12.124.36
धर्मात्मानं जितक्रोधं नियतं संयतेन्द्रियम् ।
समासिञ्चन्ति शास्त्रज्ञाः क्षौद्रं मध्विव मक्षिकाः ॥ १२.१२४.३६ ॥
对于以法为本性、已战胜愤怒、坚定并约束诸根的人,通晓经典者倾注智慧,犹如苍蝇聚集于蜜上。
12.124.37
सोऽहं वागग्रविद्यानां रसानामवलेहिता ।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ १२.१२४.३७ ॥
我是在言语之端品尝知识精华的人,然而我并不统治同类,正如月亮统治群星那样。
12.124.38
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।
यद्ब्राह्मणमुखे हव्यमेतच्छ्रुत्वा प्रवर्तते ॥ १२.१२४.३८ ॥
这便是大地上的甘露,这便是至高之眼:祭品置于婆罗门口中,而听闻此理,祭祀方能进行。
12.124.39
एतावच्छेय इत्याह प्रह्लादो ब्रह्मवादिनम् ।
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥ १२.१२४.३९ ॥
“这便是至善。”普拉赫拉达对梵言者如此说。于是,因他的侍奉而喜悦,诸修罗之主说出了这些话。
12.124.40
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम ।
वरं वृणीष्व भद्रं ते प्रदाताऽस्मि न संशयः ॥ १२.१२४.४० ॥
二生者中最优秀的人啊,你以侍奉师长的品行,使我十分欢喜。请选择一个恩赐,愿你吉祥;我必定赐予,毫无疑问。
12.124.41
कृतमित्येव दैत्येन्द्रमुवाच द्विजसत्तमः ।
प्रह्लादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥ १२.१२४.४१ ॥
“已经完成了。”二生者中最优秀的人对诸修罗之主如此说。普拉赫拉达欢喜地说:“请接受恩赐吧。”
12.124.42
यदि राजन्प्रसन्नस्त्वं मम चेदिच्छसि प्रियम् ।
भवतः शीलमिच्छामि प्राप्नुमेष वरो मम ॥ १२.१२४.४२ ॥
国王啊,若你对我满意,愿意给我一个恩惠,我愿获得你的品德——这便是我的恩赐。
12.124.43
ततः प्रीतस्तु दैत्येन्द्रो भयमस्याभवन्महत् ।
वरे प्रदिष्टे विप्रेण नाल्पचेतायमित्युत ॥ १२.१२४.४३ ॥
于是,欢喜的达伊迪亚之主心生大恐惧,婆罗门赐予恩惠时:“此人并非心胸狭窄。”
12.124.44
एवमस्त्विति स प्राह प्रह्लादो विस्मितस्तदा ।
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥ १२.१२४.४४ ॥
“就这样吧。”普拉赫拉达惊讶地说道;把恩惠赐给婆罗门之后,他满怀悲伤。
12.124.45
दत्ते वरे गते विप्रे चिन्ताऽसीन्महती तदा ।
प्रह्लादस्य महाराज निश्चयं न च जग्मिवान् ॥ १२.१२४.४५ ॥
恩惠赐予之后,婆罗门离去,大王啊,普拉赫拉达心中生出极大的忧虑,无法做出决定。
12.124.46
तस्य चिन्तयतस्तावच्छायाभूतं महाद्युतेः ।
तेजोविग्रहवत्तात शरीरमजहात्तदा ॥ १२.१२४.४६ ॥
他沉思之时,孩子啊,那位大光明者的身体化为影子,如光之形体一般,此时离他而去。
12.124.47
तमपृच्छन्महाराजः प्रह्लादः को भवानिति ।
प्रत्याह तं तु शीलोस्मि त्यक्तो गच्छाम्यहं त्वया ॥ १२.१२४.४७ ॥
大王普拉赫拉达问他:“你是谁?”他回答说:“我是品行(尸罗);你已舍弃了我,我要走了。”
12.124.48
तस्मिन्द्विजोत्तमे राजन्वत्स्याम्यहमरिंदम ।
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः।
इत्युक्त्वाऽन्तर्हितं तद्वै शक्रं चान्वाविशत्प्रभो ॥ १२.१२४.४८ ॥
“啊,国王,降伏敌人者,我将住在那位婆罗门中的最优者之中,他以弟子身份前来,始终对你专心致志。”说完,它隐没了;主啊,它进入了因陀罗之中。
12.124.49
तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोपरः ।
शरीरान्निः सृतस्तस्य को भवानिति सोब्रवीत् ॥ १२.१२४.४९ ॥
那光辉离去之后,另一位同样形貌的人从他的身体中走出。被问及“你是谁?”时,他回答。
12.124.50
धर्मं प्रह्लाद मां विद्धि यत्रासौ द्विजसत्तमः ।
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ॥ १२.१२४.५० ॥
“钵罗诃罗陀,你应知我是法。阿修罗之主啊,那位再生者中的最优者在哪里,我便去哪里,因为我的本性在那里。”
12.124.51
ततोऽपरो महाराज प्रज्वलन्निव तेजसा ।
शरीरान्निः सृतस्तस्य प्रह्लादस्य महात्मनः ॥ १२.१२४.५१ ॥
大王啊,此后另一位仿佛以光辉燃烧的人,从大心的钵罗诃罗陀的身体中走出。
12.124.52
को भवानिति पृष्टश्च तमाह स महाद्युतिः ।
सत्यं विद्ध्यसुरेन्द्राद्य प्रयास्ये धर्ममन्वहम् ॥ १२.१२४.५२ ॥
被问“你是谁”时,那位大光明者对他说:“阿修罗之王啊,应知这是真实。从今日起,我将日复一日地走向法。”
12.124.53
तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः ।
निश्चक्राम ततस्तस्मात्पृष्टश्चाह महातपाः ॥ १२.१२४.५३ ॥
当那位法人随后离去时,从他身上又走出另一人;被问及时,那位大苦行者回答。
12.124.54
वृत्तं प्रह्लाद मां विद्धि यतः सत्यं ततो ह्यहम् ।
तस्मिन्गते महाश्वेता शरीरात्तस्य निर्ययौ ॥ १२.१२४.५४ ॥
“钵罗诃罗陀,你应知我是行为,因为我是真实,所以我便是那个。”他离去之后,那位大白者从他身体中走出。
12.124.55
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः ।
इत्युक्त्वा प्रययौ तत्र यतो वृत्तं नराधिप ॥ १२.१२४.५५ ॥
被问时,她说:“你要知道我是力量,因为行为从我而来。”说完,她便去了行为所在之处,人主啊。
12.124.56
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ ।
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येनमब्रवीत् ॥ १२.१२४.५६ ॥
于是,从他的身体中走出一位光明的女神。那位阿修罗之王问她,她便对他说:“我是吉祥天(Śrī)。”
12.124.57
उषिताऽस्मि सुखं नित्यं त्वयि सत्यपराक्रम ।
त्वया युक्ता गमिष्यामि बलं ह्यनुगता ह्यहम् ॥ १२.१२४.५७ ॥
“啊,具真实勇力者,我一直幸福地居住在你之中。如今不再与你相合,我将离去;随着力量,我自己将离去。”
12.124.58
ततो भयं प्रादुरासीत्प्रह्लादस्य महात्मनः ।
अपृच्छत च तां भूयः क्व यासि कमलालये ॥ १२.१२४.५८ ॥
于是,伟大的钵罗诃罗陀心中生起了恐惧,他又问她:“啊,居于莲花之中者,你要去哪里?”
12.124.59
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी ।
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ॥ १२.१२४.५९ ॥
“你确实是持守真实誓愿的女神,世界的至高主宰。那位婆罗门中最优秀者是谁?我想知道这件事。”
12.124.60
स शक्तो ब्रह्मचारी यस्त्वत्तश्चैवोपशिक्षितः ।
त्रैलोक्ये ते यदश्वर्यं तत्तेनापहृतं प्रभो ॥ १२.१२४.६० ॥
“那位梵行者是有能力的,因为他是从你那里受教的。主啊,你在三界中所拥有的权势,已被他夺去了。”
12.124.61
शीलेन हि त्रयो लोकास्त्वया धर्मज्ञ निर्जिताः ।
तद्विज्ञाय सुरेन्द्रेण तव शीलं हृतं प्रभो ॥ १२.१२४.६१ ॥
智者啊,你凭品德征服了三界;天帝知悉此事,便夺去了你的品德,主啊。
12.124.62
धर्मः सत्यं तथा वृत्तं बलं चैव तथाऽप्यहम् ।
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ॥ १२.१२४.६२ ॥
法、真实、行为、力量,以及我,大智者啊,都以品德为根本;此事毫无疑问。
12.124.63
एवमुक्त्वा गता श्रीस्तु ते च सर्वे युधिष्ठिर ।
दुर्योधनस्तु पितरं भूय एवाब्रवीत्तदा ॥ १२.१२४.६३ ॥
如此说罢,吉祥天女离去,他们也都离去了,俱卢之子啊。但难敌此时又对父亲说道。
12.124.64
शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन ।
प्राप्यते च यथा शीलं तं चोपायं ब्रवीहि मे ॥ १२.१२४.६४ ॥
俱卢的喜悦啊,我想知道品德的真谛,以及品德如何获得——请把那方法告诉我。
12.124.65
सोपायं पूर्वमुद्दिष्टं प्रह्लादेन महात्मना ।
संक्षेपतस्तु शीलस्य शृणु प्राप्तिं नरेश्वर ॥ १२.१२४.६५ ॥
从前大德的钵罗诃罗陀曾连同方法宣说过此事。简言之,人主啊,请听品德的获得之道。
12.124.66
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ॥ १२.१२४.६६ ॥
对一切众生,不以行为、心念、言语加以伤害;施以恩惠,并行布施——这便是被称赞的品德。
12.124.67
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् ।
अपत्रपेत वा येन न तत्कुर्यात्कथंचन ॥ १२.१२४.६७ ॥
凡不利于他人、非自身之丈夫气概、或会使人羞愧的行为,无论如何都不应去做。
12.124.68
तत्तु कर्म तथा कुर्याद्येन श्लाध्येत संसदि ।
शीलं समासेनैतत्ते कथितं कुरुसत्तम ॥ १२.१२४.६८ ॥
应当做那样的事,使人在大会上受到称赞。库鲁之最,我已将此操守简要告诉你。
12.124.69
यद्यप्यशीला नृपते प्राप्नुवन्ति श्रियं क्वचित् ।
न भुञ्जते चिरं तात समूलाश्च पतन्ति ते ॥ १२.१२४.६९ ॥
无德之人有时也能获得福运,但王啊,他们不能长久享用;亲爱的孩子,他们会连根覆灭。
12.124.70
एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक ।
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात्।
अधिकां चापि राजेन्द्र ततस्त्वं शीलवान्भवा ॥ १२.१२४.७० ॥
真正明白此理,孩子,你要成为有德之人。亲爱的孩子,若你渴望比坚战更为卓越、更多的福运,那么,王中之王啊,你就要做有德之人。
12.124.71
एतत्कथितवान्पुत्रे धृतराष्ट्रो महीपतिः ।
एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ॥ १२.१२४.७१ ॥
国王持国将此话告诉了他的儿子。贡蒂之子啊,你就照此去做,那时你就会获得其果报。